Click on words to see what they mean.

अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे ।सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥
ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥
कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः ।यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥
प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥
अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः ॥ ५ ॥
न चाहुतमभूत्तत्र स्खलितं वापि किंचन ।दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ ६ ॥
न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते ।नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ ७ ॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ ८ ॥
वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ ९ ॥
दीयतां दीयतामन्नं वासांसि विविधानि च ।इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥ १० ॥
अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ ११ ॥
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ १२ ॥
स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् ।उपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १३ ॥
कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि ।प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥ १४ ॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १५ ॥
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः ॥ १६ ॥
प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा ।तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥ १७ ॥
श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ १८ ॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥ १९ ॥
विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २० ॥
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः ।सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २१ ॥
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ २२ ॥
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २३ ॥
नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।शामित्रे तु हयस्तत्र तथा जल चराश्च ये ॥ २४ ॥
ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह ॥ २५ ॥
कौसल्या तं हयं तत्र परिचर्य समन्ततः ।कृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ २६ ॥
पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।अवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ २७ ॥
होताध्वर्युस्तथोद्गाता हयेन समयोजयन् ।महिष्या परिवृक्त्याथ वावातामपरां तथा ॥ २८ ॥
पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।ऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः ॥ २९ ॥
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।यथाकालं यथान्यायं निर्णुदन्पापमात्मनः ॥ ३० ॥
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥ ३१ ॥
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥ ३२ ॥
त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ३३ ॥
उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३४ ॥
ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ ।अभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः ॥ ३५ ॥
प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ३६ ॥
उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा ॥ ३७ ॥
क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥ ३८ ॥
ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् ।भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ ३९ ॥
न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति ॥ ४० ॥
गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ॥ ४१ ॥
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ ४२ ॥
ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ ४३ ॥
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ॥ ४४ ॥
ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।कुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत ॥ ४५ ॥
तथेति च स राजानमुवाच द्विजसत्तमः ।भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ४६ ॥
« »