Click on words to see what they mean.

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् ।अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ॥ १ ॥
अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव ॥ २ ॥
यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ।भवान्स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ॥ ३ ॥
वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ।तथेति च स राजानमब्रवीद्द्विजसत्तमः ॥ ४ ॥
करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ।ततोऽब्रवीद्द्विजान्वृद्धान्यज्ञकर्मसु निष्ठितान् ॥ ५ ॥
स्थापत्ये निष्ठितांश्चैव वृद्धान्परमधार्मिकान् ।कर्मान्तिकाञ्शिल्पकारान्वर्धकीन्खनकानपि ॥ ६ ॥
गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ।तथा शुचीञ्शास्त्रविदः पुरुषान्सुबहुश्रुतान् ॥ ७ ॥
यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।इष्टका बहुसाहस्री शीघ्रमानीयतामिति ॥ ८ ॥
औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥ ९ ॥
भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।तथा पौरजनस्यापि कर्तव्या बहुविस्तराः ॥ १० ॥
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।तथा जानपदस्यापि जनस्य बहुशोभनम् ॥ ११ ॥
दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया ।सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १२ ॥
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १३ ॥
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।यथा सर्वं सुविहितं न किंचित्परिहीयते ॥ १४ ॥
तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ।ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ॥ १५ ॥
यथोक्तं तत्करिष्यामो न किंचित्परिहास्यते ।ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥ १६ ॥
निमन्त्रयस्य नृपतीन्पृथिव्यां ये च धार्मिकाः ।ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैव सहस्रशः ॥ १७ ॥
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ।मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ॥ १८ ॥
निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ।तमानय महाभागं स्वयमेव सुसत्कृतम् ।पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ १९ ॥
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥ २० ॥
तथा केकयराजानं वृद्धं परमधार्मिकम् ।श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥ २१ ॥
अङ्गेश्वरं महाभागं लोमपादं सुसत्कृतम् ।वयस्यं राजसिंहस्य तमानय यशस्विनम् ॥ २२ ॥
प्राचीनान्सिन्धुसौवीरान्सौराष्ठ्रेयांश्च पार्थिवान् ।दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ २३ ॥
सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।तानानय यथाक्षिप्रं सानुगान्सहबान्धवान् ॥ २४ ॥
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ २५ ॥
स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ २६ ॥
ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥ २७ ॥
ततः प्रीतो द्विजश्रेष्ठस्तान्सर्वान्पुनरब्रवीत् ।अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ २८ ॥
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह ॥ २९ ॥
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ ३० ॥
मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ।यज्ञियं च कृतं राजन्पुरुषैः सुसमाहितैः ॥ ३१ ॥
निर्यातु च भवान्यष्टुं यज्ञायतनमन्तिकात् ।सर्वकामैरुपहृतैरुपेतं वै समन्ततः ॥ ३२ ॥
तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः ॥ ३३ ॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥ ३४ ॥
« »