Click on words to see what they mean.

धृतराष्ट्र उवाच ।अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः ।शौटीरमानी पुत्रो मे कान्यभाषत संजय ॥ १ ॥
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु ।व्यसनं परमं प्राप्तः किमाह परमाहवे ॥ २ ॥
संजय उवाच ।शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप ।राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते ॥ ३ ॥
भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः ।यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश ॥ ४ ॥
केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा ।संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम् ॥ ५ ॥
बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः ।प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन् ।गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत् ॥ ६ ॥
भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे ।गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे ॥ ७ ॥
अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि ।इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः ॥ ८ ॥
एकादशचमूभर्ता सोऽहमेतां दशां गतः ।कालं प्राप्य महाबाहो न कश्चिदतिवर्तते ॥ ९ ॥
आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संगरे ।यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः ॥ १० ॥
बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः ।भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ॥ ११ ॥
इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् ।येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ॥ १२ ॥
का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् ।को वा समयभेत्तारं बुधः संमन्तुमर्हति ॥ १३ ॥
अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः ।यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥ १४ ॥
किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम ।क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥ १५ ॥
प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु ।एवं कुर्यान्नरो यो हि स वै संजय पूजितः ॥ १६ ॥
अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे ।तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान्मम ॥ १७ ॥
इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा ।मूर्ध्नि स्थितममित्राणां जीवतामेव संजय ॥ १८ ॥
दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम् ।अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया ॥ १९ ॥
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् ।प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥ २० ॥
मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः ।त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया ॥ २१ ॥
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः ।आजानेयैस्तथा यातं को नु स्वन्ततरो मया ॥ २२ ॥
अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम् ।स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया ॥ २३ ॥
दिष्ट्या नाहं जितः संख्ये परान्प्रेष्यवदाश्रितः ।दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो ॥ २४ ॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम् ।निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया ॥ २५ ॥
दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः ।दिष्ट्या न विमतिं कांचिद्भजित्वा तु पराजितः ॥ २६ ॥
सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा ।एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः ॥ २७ ॥
अश्वत्थामा महाभागः कृतवर्मा च सात्वतः ।कृपः शारद्वतश्चैव वक्तव्या वचनान्मम ॥ २८ ॥
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः ।विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ ॥ २९ ॥
वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः ।अधर्माद्भीमसेनेन निहतोऽहं यथा रणे ॥ ३० ॥
सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा ।वृषसेनं महावीर्यं शकुनिं चापि सौबलम् ॥ ३१ ॥
जलसंधं महावीर्यं भगदत्तं च पार्थिवम् ।सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम् ॥ ३२ ॥
दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा ।दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ ॥ ३३ ॥
एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः ।पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः ॥ ३४ ॥
कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम ।रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति ॥ ३५ ॥
स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम ।गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते ॥ ३६ ॥
नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा ।विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना ॥ ३७ ॥
यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः ।करिष्यति महाभागो ध्रुवं सोऽपचितिं मम ॥ ३८ ॥
समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते ।अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान् ॥ ३९ ॥
ततो जनसहस्राणि बाष्पपूर्णानि मारिष ।प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश ॥ ४० ॥
ससागरवना घोरा पृथिवी सचराचरा ।चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन् ॥ ४१ ॥
ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन् ।व्यवहारं गदायुद्धे पार्थिवस्य च घातनम् ॥ ४२ ॥
तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत ।ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम् ॥ ४३ ॥
« »