Click on words to see what they mean.

संजय उवाच ।वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम् ।हतशिष्टास्ततो राजन्कौरवाणां महारथाः ॥ १ ॥
विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।त्वरिता जवनैरश्वैरायोधनमुपागमन् ॥ २ ॥
तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम् ।प्रभग्नं वायुवेगेन महाशालं यथा वने ॥ ३ ॥
भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् ।महागजमिवारण्ये व्याधेन विनिपातितम् ॥ ४ ॥
विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् ।यदृच्छया निपतितं चक्रमादित्यगोचरम् ॥ ५ ॥
महावातसमुत्थेन संशुष्कमिव सागरम् ।पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥ ६ ॥
रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् ।वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ।यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ॥ ७ ॥
भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् ।सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ॥ ८ ॥
ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् ।मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥ ९ ॥
अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ ।दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन् ॥ १० ॥
ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन् ।उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम् ॥ ११ ॥
न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि ।यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः ॥ १२ ॥
भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम् ।कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने ॥ १३ ॥
दुःशासनं न पश्यामि नापि कर्णं महारथम् ।नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ ॥ १४ ॥
दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन ।लोकानां च भवान्यत्र शेते पांसुषु रूषितः ॥ १५ ॥
एष मूर्धावसिक्तानामग्रे गत्वा परंतपः ।सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम् ॥ १६ ॥
क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव ।सा च ते महती सेना क्व गता पार्थिवोत्तम ॥ १७ ॥
दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे ।यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः ॥ १८ ॥
अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते ।भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम् ॥ १९ ॥
तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः ।उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः ॥ २० ॥
विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन् ।कृपादीन्स तदा वीरान्सर्वानेव नराधिपः ॥ २१ ॥
ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते ।विनाशः सर्वभूतानां कालपर्यायकारितः ॥ २२ ॥
सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः ।पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः ॥ २३ ॥
दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि ।दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः ॥ २४ ॥
उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता ।दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः ॥ २५ ॥
दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात् ।स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम् ॥ २६ ॥
मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे ।यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः ॥ २७ ॥
मन्यमानः प्रभावं च कृष्णस्यामिततेजसः ।तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात् ॥ २८ ॥
स मया समनुप्राप्तो नास्मि शोच्यः कथंचन ।कृतं भवद्भिः सदृशमनुरूपमिवात्मनः ।यतितं विजये नित्यं दैवं तु दुरतिक्रमम् ॥ २९ ॥
एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः ।तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम् ॥ ३० ॥
तथा तु दृष्ट्वा राजानं बाष्पशोकसमन्वितम् ।द्रौणिः क्रोधेन जज्वाल यथा वह्निर्जगत्क्षये ॥ ३१ ॥
स तु क्रोधसमाविष्टः पाणौ पाणिं निपीड्य च ।बाष्पविह्वलया वाचा राजानमिदमब्रवीत् ॥ ३२ ॥
पिता मे निहतः क्षुद्रैः सुनृशंसेन कर्मणा ।न तथा तेन तप्यामि यथा राजंस्त्वयाद्य वै ॥ ३३ ॥
शृणु चेदं वचो मह्यं सत्येन वदतः प्रभो ।इष्टापूर्तेन दानेन धर्मेण सुकृतेन च ॥ ३४ ॥
अद्याहं सर्वपाञ्चालान्वासुदेवस्य पश्यतः ।सर्वोपायैर्हि नेष्यामि प्रेतराजनिवेशनम् ।अनुज्ञां तु महाराज भवान्मे दातुमर्हति ॥ ३५ ॥
इति श्रुत्वा तु वचनं द्रोणपुत्रस्य कौरवः ।मनसः प्रीतिजननं कृपं वचनमब्रवीत् ।आचार्य शीघ्रं कलशं जलपूर्णं समानय ॥ ३६ ॥
स तद्वचनमाज्ञाय राज्ञो ब्राह्मणसत्तमः ।कलशं पूर्णमादाय राज्ञोऽन्तिकमुपागमत् ॥ ३७ ॥
तमब्रवीन्महाराज पुत्रस्तव विशां पते ।ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ।सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥ ३८ ॥
राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः ।वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥ ३९ ॥
राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः ।द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ॥ ४० ॥
सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् ।प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥ ४१ ॥
दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः ।तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥ ४२ ॥
अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप ।शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ॥ ४३ ॥
« »