Click on words to see what they mean.

धृतराष्ट्र उवाच ।हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय ॥ १ ॥
संजय उवाच ।हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे ।सिंहेनेव महाराज मत्तं वनगजं वने ॥ २ ॥
प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः ।पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने ॥ ३ ॥
आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे ।नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा ॥ ४ ॥
धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन् ।दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः ॥ ५ ॥
चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः ।अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः ॥ ६ ॥
दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम् ।कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम् ॥ ७ ॥
इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे ।त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः ॥ ८ ॥
चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः ।दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात् ॥ ९ ॥
वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम् ।अशक्यमेतदन्येन संपादयितुमीदृशम् ॥ १० ॥
कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि ।दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया ॥ ११ ॥
सिंहेन महिषस्येव कृत्वा संगरमद्भुतम् ।दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ ॥ १२ ॥
ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम् ।मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा ॥ १३ ॥
अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च ।भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः ॥ १४ ॥
एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः ।तथा त्वां निहतामित्रं वयं नन्दाम भारत ॥ १५ ॥
दुर्योधनवधे यानि रोमाणि हृषितानि नः ।अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत ।इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः ॥ १६ ॥
तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह ।ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः ॥ १७ ॥
न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः ।असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः ॥ १८ ॥
तदैवैष हतः पापो यदैव निरपत्रपः ।लुब्धः पापसहायश्च सुहृदां शासनातिगः ॥ १९ ॥
बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः ।पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान् ॥ २० ॥
नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः ।किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा ॥ २१ ॥
रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः ।दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः ॥ २२ ॥
इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः ।अमर्षवशमापन्न उदतिष्ठद्विशां पते ॥ २३ ॥
स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम् ।दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत् ॥ २४ ॥
अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत् ।क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत ॥ २५ ॥
प्राणान्तकरणीं घोरां वेदनामविचिन्तयन् ।दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत् ॥ २६ ॥
कंसदासस्य दायाद न ते लज्जास्त्यनेन वै ।अधर्मेण गदायुद्धे यदहं विनिपातितः ॥ २७ ॥
ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता ।किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः ॥ २८ ॥
घातयित्वा महीपालानृजुयुद्धान्सहस्रशः ।जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा ॥ २९ ॥
अहन्यहनि शूराणां कुर्वाणः कदनं महत् ।शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः ॥ ३० ॥
अश्वत्थाम्नः सनामानं हत्वा नागं सुदुर्मते ।आचार्यो न्यासितः शस्त्रं किं तन्न विदितं मम ॥ ३१ ॥
स चानेन नृशंसेन धृष्टद्युम्नेन वीर्यवान् ।पात्यमानस्त्वया दृष्टो न चैनं त्वमवारयः ॥ ३२ ॥
वधार्थं पाण्डुपुत्रस्य याचितां शक्तिमेव च ।घटोत्कचे व्यंसयथाः कस्त्वत्तः पापकृत्तमः ॥ ३३ ॥
छिन्नबाहुः प्रायगतस्तथा भूरिश्रवा बली ।त्वया निसृष्टेन हतः शैनेयेन दुरात्मना ॥ ३४ ॥
कुर्वाणश्चोत्तमं कर्म कर्णः पार्थजिगीषया ।व्यंसनेनाश्वसेनस्य पन्नगेन्द्रसुतस्य वै ॥ ३५ ॥
पुनश्च पतिते चक्रे व्यसनार्तः पराजितः ।पातितः समरे कर्णश्चक्रव्यग्रोऽग्रणीर्नृणाम् ॥ ३६ ॥
यदि मां चापि कर्णं च भीष्मद्रोणौ च संयुगे ।ऋजुना प्रतियुध्येथा न ते स्याद्विजयो ध्रुवम् ॥ ३७ ॥
त्वया पुनरनार्येण जिह्ममार्गेण पार्थिवाः ।स्वधर्ममनुतिष्ठन्तो वयं चान्ये च घातिताः ॥ ३८ ॥
वासुदेव उवाच ।हतस्त्वमसि गान्धारे सभ्रातृसुतबान्धवः ।सगणः ससुहृच्चैव पापमार्गमनुष्ठितः ॥ ३९ ॥
तवैव दुष्कृतैर्वीरौ भीष्मद्रोणौ निपातितौ ।कर्णश्च निहतः संख्ये तव शीलानुवर्तकः ॥ ४० ॥
याच्यमानो मया मूढ पित्र्यमंशं न दित्ससि ।पाण्डवेभ्यः स्वराज्यार्धं लोभाच्छकुनिनिश्चयात् ॥ ४१ ॥
विषं ते भीमसेनाय दत्तं सर्वे च पाण्डवाः ।प्रदीपिता जतुगृहे मात्रा सह सुदुर्मते ॥ ४२ ॥
सभायां याज्ञसेनी च कृष्टा द्यूते रजस्वला ।तदैव तावद्दुष्टात्मन्वध्यस्त्वं निरपत्रपः ॥ ४३ ॥
अनक्षज्ञं च धर्मज्ञं सौबलेनाक्षवेदिना ।निकृत्या यत्पराजैषीस्तस्मादसि हतो रणे ॥ ४४ ॥
जयद्रथेन पापेन यत्कृष्णा क्लेशिता वने ।यातेषु मृगयां तेषु तृणबिन्दोरथाश्रमे ॥ ४५ ॥
अभिमन्युश्च यद्बाल एको बहुभिराहवे ।त्वद्दोषैर्निहतः पाप तस्मादसि हतो रणे ॥ ४६ ॥
दुर्योधन उवाच ।अधीतं विधिवद्दत्तं भूः प्रशास्ता ससागरा ।मूर्ध्नि स्थितममित्राणां को नु स्वन्ततरो मया ॥ ४७ ॥
यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुपश्यताम् ।तदिदं निधनं प्राप्तं को नु स्वन्ततरो मया ॥ ४८ ॥
देवार्हा मानुषा भोगाः प्राप्ता असुलभा नृपैः ।ऐश्वर्यं चोत्तमं प्राप्तं को नु स्वन्ततरो मया ॥ ४९ ॥
ससुहृत्सानुबन्धश्च स्वर्गं गन्ताहमच्युत ।यूयं विहतसंकल्पाः शोचन्तो वर्तयिष्यथ ॥ ५० ॥
संजय उवाच ।अस्य वाक्यस्य निधने कुरुराजस्य भारत ।अपतत्सुमहद्वर्षं पुष्पाणां पुण्यगन्धिनाम् ॥ ५१ ॥
अवादयन्त गन्धर्वा जगुश्चाप्सरसां गणाः ।सिद्धाश्च मुमुचुर्वाचः साधु साध्विति भारत ॥ ५२ ॥
ववौ च सुरभिर्वायुः पुण्यगन्धो मृदुः सुखः ।व्यराजतामलं चैव नभो वैडूर्यसंनिभम् ॥ ५३ ॥
अत्यद्भुतानि ते दृष्ट्वा वासुदेवपुरोगमाः ।दुर्योधनस्य पूजां च दृष्ट्वा व्रीडामुपागमन् ॥ ५४ ॥
हतांश्चाधर्मतः श्रुत्वा शोकार्ताः शुशुचुर्हि ते ।भीष्मं द्रोणं तथा कर्णं भूरिश्रवसमेव च ॥ ५५ ॥
तांस्तु चिन्तापरान्दृष्ट्वा पाण्डवान्दीनचेतसः ।प्रोवाचेदं वचः कृष्णो मेघदुन्दुभिनिस्वनः ॥ ५६ ॥
नैष शक्योऽतिशीघ्रास्त्रस्ते च सर्वे महारथाः ।ऋजुयुद्धेन विक्रान्ता हन्तुं युष्माभिराहवे ॥ ५७ ॥
उपाया विहिता ह्येते मया तस्मान्नराधिपाः ।अन्यथा पाण्डवेयानां नाभविष्यज्जयः क्वचित् ॥ ५८ ॥
ते हि सर्वे महात्मानश्चत्वारोऽतिरथा भुवि ।न शक्या धर्मतो हन्तुं लोकपालैरपि स्वयम् ॥ ५९ ॥
तथैवायं गदापाणिर्धार्तराष्ट्रो गतक्लमः ।न शक्यो धर्मतो हन्तुं कालेनापीह दण्डिना ॥ ६० ॥
न च वो हृदि कर्तव्यं यदयं घातितो नृपः ।मिथ्यावध्यास्तथोपायैर्बहवः शत्रवोऽधिकाः ॥ ६१ ॥
पूर्वैरनुगतो मार्गो देवैरसुरघातिभिः ।सद्भिश्चानुगतः पन्थाः स सर्वैरनुगम्यते ॥ ६२ ॥
कृतकृत्याः स्म सायाह्ने निवासं रोचयामहे ।साश्वनागरथाः सर्वे विश्रमामो नराधिपाः ॥ ६३ ॥
वासुदेववचः श्रुत्वा तदानीं पाण्डवैः सह ।पाञ्चाला भृशसंहृष्टा विनेदुः सिंहसंघवत् ॥ ६४ ॥
ततः प्राध्मापयञ्शङ्खान्पाञ्चजन्यं च माधवः ।हृष्टा दुर्योधनं दृष्ट्वा निहतं पुरुषर्षभाः ॥ ६५ ॥
« »