Click on words to see what they mean.

संजय उवाच ।ततस्ते प्रययुः सर्वे निवासाय महीक्षितः ।शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः ॥ १ ॥
पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते ।महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा ॥ २ ॥
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः ।सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत ॥ ३ ॥
ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम् ।दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने ॥ ४ ॥
गतोत्सवं पुरमिव हृतनागमिव ह्रदम् ।स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम् ॥ ५ ॥
तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः ।कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः ॥ ६ ॥
शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः ।अवतेरुर्महाराज रथेभ्यो रथसत्तमाः ॥ ७ ॥
ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।स्थितः प्रियहिते नित्यमतीव भरतर्षभ ॥ ८ ॥
अवरोपय गाण्डीवमक्षय्यौ च महेषुधी ।अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम ॥ ९ ॥
स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ ।तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः ॥ १० ॥
अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम् ।अवारोहत मेधावी रथाद्गाण्डीवधन्वनः ॥ ११ ॥
अथावतीर्णे भूतानामीश्वरे सुमहात्मनि ।कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः ॥ १२ ॥
स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः ।अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते ॥ १३ ॥
सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः ।भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः ॥ १४ ॥
तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो ।अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत् ॥ १५ ॥
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च ।गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना ॥ १६ ॥
किमेतन्महदाश्चर्यमभवद्यदुनन्दन ।तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे ॥ १७ ॥
वासुदेव उवाच ।अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन ।मदधिष्ठितत्वात्समरे न विशीर्णः परंतप ॥ १८ ॥
इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा ।मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि ॥ १९ ॥
संजय उवाच ।ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा ।परिष्वज्य च राजानं युधिष्ठिरमभाषत ॥ २० ॥
दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः ।दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ॥ २१ ॥
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ।मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः ।क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत ॥ २२ ॥
उपयातमुपप्लव्यं सह गाण्डीवधन्वना ।आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः ॥ २३ ॥
एष भ्राता सखा चैव तव कृष्ण धनंजयः ।रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो ।तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम् ॥ २४ ॥
स सव्यसाची गुप्तस्ते विजयी च नरेश्वर ।भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः ।मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात् ॥ २५ ॥
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः ।हृष्टरोमा महाराज प्रत्युवाच जनार्दनम् ॥ २६ ॥
प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन ।कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः ॥ २७ ॥
भवतस्तु प्रसादेन संग्रामे बहवो जिताः ।महारणगतः पार्थो यच्च नासीत्पराङ्मुखः ॥ २८ ॥
तथैव च महाबाहो पर्यायैर्बहुभिर्मया ।कर्मणामनुसंतानं तेजसश्च गतिः शुभा ॥ २९ ॥
उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत् ।यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ॥ ३० ॥
इत्येवमुक्ते ते वीराः शिबिरं तव भारत ।प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान् ॥ ३१ ॥
रजतं जातरूपं च मणीनथ च मौक्तिकान् ।भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च ।दासीदासमसंख्येयं राज्योपकरणानि च ॥ ३२ ॥
ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ ।उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः ॥ ३३ ॥
ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च ।अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा ॥ ३४ ॥
अथाब्रवीन्महाराज वासुदेवो महायशाः ।अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः ॥ ३५ ॥
तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा ।वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः ॥ ३६ ॥
ते समासाद्य सरितं पुण्यामोघवतीं नृप ।न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः ॥ ३७ ॥
ततः संप्रेषयामासुर्यादवं नागसाह्वयम् ।स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान् ।दारुकं रथमारोप्य येन राजाम्बिकासुतः ॥ ३८ ॥
तमूचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम् ।प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम् ॥ ३९ ॥
स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः ।आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम् ॥ ४० ॥
« »