Click on words to see what they mean.

धृतराष्ट्र उवाच ।अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः ।किमब्रवीत्तदा सूत बलदेवो महाबलः ॥ १ ॥
गदायुद्धविशेषज्ञो गदायुद्धविशारदः ।कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम् ।रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली ॥ ३ ॥
ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः ।कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह ॥ ४ ॥
अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे ।नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः ॥ ५ ॥
अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः ।अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते ॥ ६ ॥
तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान् ।ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली ॥ ७ ॥
तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः ।बहुधातुविचित्रस्य श्वेतस्येव महागिरेः ॥ ८ ॥
तमुत्पतन्तं जग्राह केशवो विनयानतः ।बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली ॥ ९ ॥
सितासितौ यदुवरौ शुशुभातेऽधिकं ततः ।नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये ॥ १० ॥
उवाच चैनं संरब्धं शमयन्निव केशवः ।आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा ।विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः ॥ ११ ॥
आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत् ।तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत् ॥ १२ ॥
अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः ।स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम् ॥ १३ ॥
प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह ।सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे ।इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले ॥ १४ ॥
मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा ।ऊरू भेत्स्यति ते भीमो गदयेति परंतप ।अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन् ॥ १५ ॥
यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैः ।तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ ॥ १६ ॥
राम उवाच ।धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति ।अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः ॥ १७ ॥
धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन् ।धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते ॥ १८ ॥
तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात् ।भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम् ॥ १९ ॥
वासुदेव उवाच ।अरोषणो हि धर्मात्मा सततं धर्मवत्सलः ।भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः ॥ २० ॥
प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च ।आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः ॥ २१ ॥
संजय उवाच ।धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते ।नैव प्रीतमना रामो वचनं प्राह संसदि ॥ २२ ॥
हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम् ।जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः ॥ २३ ॥
दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम् ।ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः ॥ २४ ॥
युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च ।हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः ॥ २५ ॥
इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान् ।श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति ॥ २६ ॥
पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते ।रामे द्वारवतीं याते नातिप्रमनसोऽभवन् ॥ २७ ॥
ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम् ।शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम् ॥ २८ ॥
धर्मराज किमर्थं त्वमधर्ममनुमन्यसे ।हतबन्धोर्यदेतस्य पतितस्य विचेतसः ॥ २९ ॥
दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा ।उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप ॥ ३० ॥
युधिष्ठिर उवाच ।न ममैतत्प्रियं कृष्ण यद्राजानं वृकोदरः ।पदा मूर्ध्न्यस्पृशत्क्रोधान्न च हृष्ये कुलक्षये ॥ ३१ ॥
निकृत्या निकृता नित्यं धृतराष्ट्रसुतैर्वयम् ।बहूनि परुषाण्युक्त्वा वनं प्रस्थापिताः स्म ह ॥ ३२ ॥
भीमसेनस्य तद्दुःखमतीव हृदि वर्तते ।इति संचिन्त्य वार्ष्णेय मयैतत्समुपेक्षितम् ॥ ३३ ॥
तस्माद्धत्वाकृतप्रज्ञं लुब्धं कामवशानुगम् ।लभतां पाण्डवः कामं धर्मेऽधर्मेऽपि वा कृते ॥ ३४ ॥
संजय उवाच ।इत्युक्ते धर्मराजेन वासुदेवोऽब्रवीदिदम् ।काममस्त्वेवमिति वै कृच्छ्राद्यदुकुलोद्वहः ॥ ३५ ॥
इत्युक्तो वासुदेवेन भीमप्रियहितैषिणा ।अन्वमोदत तत्सर्वं यद्भीमेन कृतं युधि ॥ ३६ ॥
भीमसेनोऽपि हत्वाजौ तव पुत्रममर्षणः ।अभिवाद्याग्रतः स्थित्वा संप्रहृष्टः कृताञ्जलिः ॥ ३७ ॥
प्रोवाच सुमहातेजा धर्मराजं युधिष्ठिरम् ।हर्षादुत्फुल्लनयनो जितकाशी विशां पते ॥ ३८ ॥
तवाद्य पृथिवी राजन्क्षेमा निहतकण्टका ।तां प्रशाधि महाराज स्वधर्ममनुपालयन् ॥ ३९ ॥
यस्तु कर्तास्य वैरस्य निकृत्या निकृतिप्रियः ।सोऽयं विनिहतः शेते पृथिव्यां पृथिवीपते ॥ ४० ॥
दुःशासनप्रभृतयः सर्वे ते चोग्रवादिनः ।राधेयः शकुनिश्चापि निहतास्तव शत्रवः ॥ ४१ ॥
सेयं रत्नसमाकीर्णा मही सवनपर्वता ।उपावृत्ता महाराज त्वामद्य निहतद्विषम् ॥ ४२ ॥
युधिष्ठिर उवाच ।गतं वैरस्य निधनं हतो राजा सुयोधनः ।कृष्णस्य मतमास्थाय विजितेयं वसुंधरा ॥ ४३ ॥
दिष्ट्या गतस्त्वमानृण्यं मातुः कोपस्य चोभयोः ।दिष्ट्या जयसि दुर्धर्ष दिष्ट्या शत्रुर्निपातितः ॥ ४४ ॥
« »