Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः ।गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा ॥ १ ॥
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः ।कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु ॥ २ ॥
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः ।काञ्चने लोष्टके चैव समदर्शी महातपाः ॥ ३ ॥
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह ।ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः ॥ ४ ॥
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः ।जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः ॥ ५ ॥
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः ।योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः ॥ ६ ॥
तं तत्र वसमानं तु जैगीषव्यं महामुनिम् ।देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः ॥ ७ ॥
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत् ।जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः ॥ ८ ॥
आहारकाले मतिमान्परिव्राड्जनमेजय ।उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम् ॥ ९ ॥
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम् ।गौरवं परमं चक्रे प्रीतिं च विपुलां तथा ॥ १० ॥
देवलस्तु यथाशक्ति पूजयामास भारत ।ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः ॥ ११ ॥
कदाचित्तस्य नृपते देवलस्य महात्मनः ।चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम् ॥ १२ ॥
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम ।न चायमलसो भिक्षुरभ्यभाषत किंचन ॥ १३ ॥
एवं विगणयन्नेव स जगाम महोदधिम् ।अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः ॥ १४ ॥
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम् ।जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत ॥ १५ ॥
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः ।कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च ॥ १६ ॥
इत्येवं चिन्तयामास महर्षिरसितस्तदा ।स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह ॥ १७ ॥
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह ।कलशं जलपूर्णं वै गृहीत्वा जनमेजय ॥ १८ ॥
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः ।आसीनमाश्रमे तत्र जैगीषव्यमपश्यत ॥ १९ ॥
न व्याहरति चैवैनं जैगीषव्यः कथंचन ।काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः ॥ २० ॥
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम् ।प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः ॥ २१ ॥
असितो देवलो राजंश्चिन्तयामास बुद्धिमान् ।दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ २२ ॥
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः ।मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम् ॥ २३ ॥
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः ।उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते ।जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः ॥ २४ ॥
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान् ।जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत ॥ २५ ॥
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः ।अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः ॥ २६ ॥
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत ।पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत ॥ २७ ॥
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम् ।व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम् ॥ २८ ॥
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम् ।ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह ॥ २९ ॥
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः ।तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम् ।व्रजन्तं लोकममलमपश्यद्देवपूजितम् ॥ ३० ॥
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः ।तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम् ॥ ३१ ॥
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः ।तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः ॥ ३२ ॥
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम् ।आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत ॥ ३३ ॥
यजन्ते पुण्डरीकेण राजसूयेन चैव ये ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३४ ॥
अश्वमेधं क्रतुवरं नरमेधं तथैव च ।आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत ॥ ३५ ॥
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३६ ॥
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप ।तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः ॥ ३७ ॥
मित्रावरुणयोर्लोकानादित्यानां तथैव च ।सलोकतामनुप्राप्तमपश्यत ततोऽसितः ॥ ३८ ॥
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः ।तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः ॥ ३९ ॥
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम् ।लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः ॥ ४० ॥
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा ।पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत ॥ ४१ ॥
ततो मुनिवरं भूयो जैगीषव्यमथासितः ।नान्वपश्यत योगस्थमन्तर्हितमरिंदम ॥ ४२ ॥
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः ।प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम् ॥ ४३ ॥
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान् ।प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः ॥ ४४ ॥
जैगीषव्यं न पश्यामि तं शंसत महौजसम् ।एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ ४५ ॥
सिद्धा ऊचुः ।शृणु देवल भूतार्थं शंसतां नो दृढव्रत ।जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम् ॥ ४६ ॥
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम् ।असितो देवलस्तूर्णमुत्पपात पपात च ॥ ४७ ॥
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह ।न देवल गतिस्तत्र तव गन्तुं तपोधन ।ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान् ॥ ४८ ॥
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः ।आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह ॥ ४९ ॥
स्वमाश्रमपदं पुण्यमाजगाम पतंगवत् ।प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः ॥ ५० ॥
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया ।दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम् ॥ ५१ ॥
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः ।विनयावनतो राजन्नुपसर्प्य महामुनिम् ।मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम् ॥ ५२ ॥
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः ।विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः ॥ ५३ ॥
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः ।सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा ॥ ५४ ॥
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह ।ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति ॥ ५५ ॥
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा ।दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे ॥ ५६ ॥
ततस्तु फलमूलानि पवित्राणि च भारत ।पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः ॥ ५७ ॥
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः ।अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते ॥ ५८ ॥
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः ।मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत् ॥ ५९ ॥
इति निश्चित्य मनसा देवलो राजसत्तम ।त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत् ॥ ६० ॥
एवमादीनि संचिन्त्य देवलो निश्चयात्ततः ।प्राप्तवान्परमां सिद्धिं परं योगं च भारत ॥ ६१ ॥
ततो देवाः समागम्य बृहस्पतिपुरोगमाः ।जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः ॥ ६२ ॥
अथाब्रवीदृषिवरो देवान्वै नारदस्तदा ।जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम् ॥ ६३ ॥
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः ।मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम् ॥ ६४ ॥
तत्राप्युपस्पृश्य ततो महात्मा दत्त्वा च वित्तं हलभृद्द्विजेभ्यः ।अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् ॥ ६५ ॥
« »