Click on words to see what they mean.

वैशंपायन उवाच ।यत्रेजिवानुडुपती राजसूयेन भारत ।तस्मिन्वृत्ते महानासीत्संग्रामस्तारकामयः ॥ १ ॥
तत्राप्युपस्पृश्य बलो दत्त्वा दानानि चात्मवान् ।सारस्वतस्य धर्मात्मा मुनेस्तीर्थं जगाम ह ॥ २ ॥
यत्र द्वादशवार्षिक्यामनावृष्ट्यां द्विजोत्तमान् ।वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ ३ ॥
जनमेजय उवाच ।कथं द्वादशवार्षिक्यामनावृष्ट्यां तपोधनः ।वेदानध्यापयामास पुरा सारस्वतो मुनिः ॥ ४ ॥
वैशंपायन उवाच ।आसीत्पूर्वं महाराज मुनिर्धीमान्महातपाः ।दधीच इति विख्यातो ब्रह्मचारी जितेन्द्रियः ॥ ५ ॥
तस्यातितपसः शक्रो बिभेति सततं विभो ।न स लोभयितुं शक्यः फलैर्बहुविधैरपि ॥ ६ ॥
प्रलोभनार्थं तस्याथ प्राहिणोत्पाकशासनः ।दिव्यामप्सरसं पुण्यां दर्शनीयामलम्बुसाम् ॥ ७ ॥
तस्य तर्पयतो देवान्सरस्वत्यां महात्मनः ।समीपतो महाराज सोपातिष्ठत भामिनी ॥ ८ ॥
तां दिव्यवपुषं दृष्ट्वा तस्यर्षेर्भावितात्मनः ।रेतः स्कन्नं सरस्वत्यां तत्सा जग्राह निम्नगा ॥ ९ ॥
कुक्षौ चाप्यदधद्दृष्ट्वा तद्रेतः पुरुषर्षभ ।सा दधार च तं गर्भं पुत्रहेतोर्महानदी ॥ १० ॥
सुषुवे चापि समये पुत्रं सा सरितां वरा ।जगाम पुत्रमादाय तमृषिं प्रति च प्रभो ॥ ११ ॥
ऋषिसंसदि तं दृष्ट्वा सा नदी मुनिसत्तमम् ।ततः प्रोवाच राजेन्द्र ददती पुत्रमस्य तम् ।ब्रह्मर्षे तव पुत्रोऽयं त्वद्भक्त्या धारितो मया ॥ १२ ॥
दृष्ट्वा तेऽप्सरसं रेतो यत्स्कन्नं प्रागलम्बुसाम् ।तत्कुक्षिणा वै ब्रह्मर्षे त्वद्भक्त्या धृतवत्यहम् ॥ १३ ॥
न विनाशमिदं गच्छेत्त्वत्तेज इति निश्चयात् ।प्रतिगृह्णीष्व पुत्रं स्वं मया दत्तमनिन्दितम् ॥ १४ ॥
इत्युक्तः प्रतिजग्राह प्रीतिं चावाप उत्तमाम् ।मन्त्रवच्चोपजिघ्रत्तं मूर्ध्नि प्रेम्णा द्विजोत्तमः ॥ १५ ॥
परिष्वज्य चिरं कालं तदा भरतसत्तम ।सरस्वत्यै वरं प्रादात्प्रीयमाणो महामुनिः ॥ १६ ॥
विश्वे देवाः सपितरो गन्धर्वाप्सरसां गणाः ।तृप्तिं यास्यन्ति सुभगे तर्प्यमाणास्तवाम्भसा ॥ १७ ॥
इत्युक्त्वा स तु तुष्टाव वचोभिर्वै महानदीम् ।प्रीतः परमहृष्टात्मा यथावच्छृणु पार्थिव ॥ १८ ॥
प्रसृतासि महाभागे सरसो ब्रह्मणः पुरा ।जानन्ति त्वां सरिच्छ्रेष्ठे मुनयः संशितव्रताः ॥ १९ ॥
मम प्रियकरी चापि सततं प्रियदर्शने ।तस्मात्सारस्वतः पुत्रो महांस्ते वरवर्णिनि ॥ २० ॥
तवैव नाम्ना प्रथितः पुत्रस्ते लोकभावनः ।सारस्वत इति ख्यातो भविष्यति महातपाः ॥ २१ ॥
एष द्वादशवार्षिक्यामनावृष्ट्यां द्विजर्षभान् ।सारस्वतो महाभागे वेदानध्यापयिष्यति ॥ २२ ॥
पुण्याभ्यश्च सरिद्भ्यस्त्वं सदा पुण्यतमा शुभे ।भविष्यसि महाभागे मत्प्रसादात्सरस्वति ॥ २३ ॥
एवं सा संस्तुता तेन वरं लब्ध्वा महानदी ।पुत्रमादाय मुदिता जगाम भरतर्षभ ॥ २४ ॥
एतस्मिन्नेव काले तु विरोधे देवदानवैः ।शक्रः प्रहरणान्वेषी लोकांस्त्रीन्विचचार ह ॥ २५ ॥
न चोपलेभे भगवाञ्शक्रः प्रहरणं तदा ।यद्वै तेषां भवेद्योग्यं वधाय विबुधद्विषाम् ॥ २६ ॥
ततोऽब्रवीत्सुराञ्शक्रो न मे शक्या महासुराः ।ऋतेऽस्थिभिर्दधीचस्य निहन्तुं त्रिदशद्विषः ॥ २७ ॥
तस्माद्गत्वा ऋषिश्रेष्ठो याच्यतां सुरसत्तमाः ।दधीचास्थीनि देहीति तैर्वधिष्यामहे रिपून् ॥ २८ ॥
स देवैर्याचितोऽस्थीनि यत्नादृषिवरस्तदा ।प्राणत्यागं कुरुष्वेति चकारैवाविचारयन् ।स लोकानक्षयान्प्राप्तो देवप्रियकरस्तदा ॥ २९ ॥
तस्यास्थिभिरथो शक्रः संप्रहृष्टमनास्तदा ।कारयामास दिव्यानि नानाप्रहरणान्युत ।वज्राणि चक्राणि गदा गुरुदण्डांश्च पुष्कलान् ॥ ३० ॥
स हि तीव्रेण तपसा संभृतः परमर्षिणा ।प्रजापतिसुतेनाथ भृगुणा लोकभावनः ॥ ३१ ॥
अतिकायः स तेजस्वी लोकसारविनिर्मितः ।जज्ञे शैलगुरुः प्रांशुर्महिम्ना प्रथितः प्रभुः ।नित्यमुद्विजते चास्य तेजसा पाकशासनः ॥ ३२ ॥
तेन वज्रेण भगवान्मन्त्रयुक्तेन भारत ।भृशं क्रोधविसृष्टेन ब्रह्मतेजोभवेन च ।दैत्यदानववीराणां जघान नवतीर्नव ॥ ३३ ॥
अथ काले व्यतिक्रान्ते महत्यतिभयंकरे ।अनावृष्टिरनुप्राप्ता राजन्द्वादशवार्षिकी ॥ ३४ ॥
तस्यां द्वादशवार्षिक्यामनावृष्ट्यां महर्षयः ।वृत्त्यर्थं प्राद्रवन्राजन्क्षुधार्ताः सर्वतोदिशम् ॥ ३५ ॥
दिग्भ्यस्तान्प्रद्रुतान्दृष्ट्वा मुनिः सारस्वतस्तदा ।गमनाय मतिं चक्रे तं प्रोवाच सरस्वती ॥ ३६ ॥
न गन्तव्यमितः पुत्र तवाहारमहं सदा ।दास्यामि मत्स्यप्रवरानुष्यतामिह भारत ॥ ३७ ॥
इत्युक्तस्तर्पयामास स पितॄन्देवतास्तथा ।आहारमकरोन्नित्यं प्राणान्वेदांश्च धारयन् ॥ ३८ ॥
अथ तस्यामतीतायामनावृष्ट्यां महर्षयः ।अन्योन्यं परिपप्रच्छुः पुनः स्वाध्यायकारणात् ॥ ३९ ॥
तेषां क्षुधापरीतानां नष्टा वेदा विधावताम् ।सर्वेषामेव राजेन्द्र न कश्चित्प्रतिभानवान् ॥ ४० ॥
अथ कश्चिदृषिस्तेषां सारस्वतमुपेयिवान् ।कुर्वाणं संशितात्मानं स्वाध्यायमृषिसत्तमम् ॥ ४१ ॥
स गत्वाचष्ट तेभ्यश्च सारस्वतमतिप्रभम् ।स्वाध्यायममरप्रख्यं कुर्वाणं विजने जने ॥ ४२ ॥
ततः सर्वे समाजग्मुस्तत्र राजन्महर्षयः ।सारस्वतं मुनिश्रेष्ठमिदमूचुः समागताः ॥ ४३ ॥
अस्मानध्यापयस्वेति तानुवाच ततो मुनिः ।शिष्यत्वमुपगच्छध्वं विधिवद्भो ममेत्युत ॥ ४४ ॥
ततोऽब्रवीदृषिगणो बालस्त्वमसि पुत्रक ।स तानाह न मे धर्मो नश्येदिति पुनर्मुनीन् ॥ ४५ ॥
यो ह्यधर्मेण विब्रूयाद्गृह्णीयाद्वाप्यधर्मतः ।म्रियतां तावुभौ क्षिप्रं स्यातां वा वैरिणावुभौ ॥ ४६ ॥
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ४७ ॥
एतच्छ्रुत्वा वचस्तस्य मुनयस्ते विधानतः ।तस्माद्वेदाननुप्राप्य पुनर्धर्मं प्रचक्रिरे ॥ ४८ ॥
षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे ।सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकारणात् ॥ ४९ ॥
मुष्टिं मुष्टिं ततः सर्वे दर्भाणां तेऽभ्युपाहरन् ।तस्यासनार्थं विप्रर्षेर्बालस्यापि वशे स्थिताः ॥ ५० ॥
तत्रापि दत्त्वा वसु रौहिणेयो महाबलः केशवपूर्वजोऽथ ।जगाम तीर्थं मुदितः क्रमेण ख्यातं महद्वृद्धकन्या स्म यत्र ॥ ५१ ॥
« »