Click on words to see what they mean.

वैशंपायन उवाच ।इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली ।विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि ॥ १ ॥
तत्र ह्यमरराजोऽसावीजे क्रतुशतेन ह ।बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम् ॥ २ ॥
निरर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् ।आजहार क्रतूंस्तत्र यथोक्तान्वेदपारगैः ॥ ३ ॥
तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः ।पूरयामास विधिवत्ततः ख्यातः शतक्रतुः ॥ ४ ॥
तस्य नाम्ना च तत्तीर्थं शिवं पुण्यं सनातनम् ।इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम् ॥ ५ ॥
उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः ।ब्राह्मणान्पूजयित्वा च पानाच्छादनभोजनैः ।शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ॥ ६ ॥
यत्र रामो महाभागो भार्गवः सुमहातपाः ।असकृत्पृथिवीं सर्वां हतक्षत्रियपुंगवाम् ॥ ७ ॥
उपाध्यायं पुरस्कृत्य कश्यपं मुनिसत्तमम् ।अयजद्वाजपेयेन सोऽश्वमेधशतेन च ।प्रददौ दक्षिणार्थं च पृथिवीं वै ससागराम् ॥ ८ ॥
रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय ।उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान् ॥ ९ ॥
पुण्ये तीर्थे शुभे देशे वसु दत्त्वा शुभाननः ।मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ॥ १० ॥
यत्रानयामास तदा राजसूयं महीपते ।पुत्रोऽदितेर्महाभागो वरुणो वै सितप्रभः ॥ ११ ॥
तत्र निर्जित्य संग्रामे मानुषान्दैवतांस्तथा ।वरं क्रतुं समाजह्रे वरुणः परवीरहा ॥ १२ ॥
तस्मिन्क्रतुवरे वृत्ते संग्रामः समजायत ।देवानां दानवानां च त्रैलोक्यस्य क्षयावहः ॥ १३ ॥
राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय ।जायते सुमहाघोरः संग्रामः क्षत्रियान्प्रति ॥ १४ ॥
सीरायुधस्तदा रामस्तस्मिंस्तीर्थवरे तदा ।तत्र स्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः ॥ १५ ॥
वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः ।तस्मादादित्यतीर्थं च जगाम कमलेक्षणः ॥ १६ ॥
यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम ।ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत ॥ १७ ॥
तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः ।विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह ॥ १८ ॥
द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः ।यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशां पते ॥ १९ ॥
एते चान्ये च बहवो योगसिद्धाः सहस्रशः ।तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परंतप ॥ २० ॥
तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ ।आप्लुतो भरतश्रेष्ठ तीर्थप्रवर उत्तमे ॥ २१ ॥
द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत ।संप्राप्तः परमं योगं सिद्धिं च परमां गतः ॥ २२ ॥
असितो देवलश्चैव तस्मिन्नेव महातपाः ।परमं योगमास्थाय ऋषिर्योगमवाप्तवान् ॥ २३ ॥
« »