Click on words to see what they mean.

जनमेजय उवाच ।अत्यद्भुतमिदं ब्रह्मञ्श्रुतवानस्मि तत्त्वतः ।अभिषेकं कुमारस्य विस्तरेण यथाविधि ॥ १ ॥
यच्छ्रुत्वा पूतमात्मानं विजानामि तपोधन ।प्रहृष्टानि च रोमाणि प्रसन्नं च मनो मम ॥ २ ॥
अभिषेकं कुमारस्य दैत्यानां च वधं तथा ।श्रुत्वा मे परमा प्रीतिर्भूयः कौतूहलं हि मे ॥ ३ ॥
अपां पतिः कथं ह्यस्मिन्नभिषिक्तः सुरासुरैः ।तन्मे ब्रूहि महाप्राज्ञ कुशलो ह्यसि सत्तम ॥ ४ ॥
वैशंपायन उवाच ।शृणु राजन्निदं चित्रं पूर्वकल्पे यथातथम् ।आदौ कृतयुगे तस्मिन्वर्तमाने यथाविधि ।वरुणं देवताः सर्वाः समेत्येदमथाब्रुवन् ॥ ५ ॥
यथास्मान्सुरराट्शक्रो भयेभ्यः पाति सर्वदा ।तथा त्वमपि सर्वासां सरितां वै पतिर्भव ॥ ६ ॥
वासश्च ते सदा देव सागरे मकरालये ।समुद्रोऽयं तव वशे भविष्यति नदीपतिः ॥ ७ ॥
सोमेन सार्धं च तव हानिवृद्धी भविष्यतः ।एवमस्त्विति तान्देवान्वरुणो वाक्यमब्रवीत् ॥ ८ ॥
समागम्य ततः सर्वे वरुणं सागरालयम् ।अपां पतिं प्रचक्रुर्हि विधिदृष्टेन कर्मणा ॥ ९ ॥
अभिषिच्य ततो देवा वरुणं यादसां पतिम् ।जग्मुः स्वान्येव स्थानानि पूजयित्वा जलेश्वरम् ॥ १० ॥
अभिषिक्तस्ततो देवैर्वरुणोऽपि महायशाः ।सरितः सागरांश्चैव नदांश्चैव सरांसि च ।पालयामास विधिना यथा देवाञ्शतक्रतुः ॥ ११ ॥
ततस्तत्राप्युपस्पृश्य दत्त्वा च विविधं वसु ।अग्नितीर्थं महाप्राज्ञः स जगाम प्रलम्बहा ।नष्टो न दृश्यते यत्र शमीगर्भे हुताशनः ॥ १२ ॥
लोकालोकविनाशे च प्रादुर्भूते तदानघ ।उपतस्थुर्महात्मानं सर्वलोकपितामहम् ॥ १३ ॥
अग्निः प्रनष्टो भगवान्कारणं च न विद्महे ।सर्वलोकक्षयो मा भूत्संपादयतु नोऽनलम् ॥ १४ ॥
जनमेजय उवाच ।किमर्थं भगवानग्निः प्रनष्टो लोकभावनः ।विज्ञातश्च कथं देवैस्तन्ममाचक्ष्व तत्त्वतः ॥ १५ ॥
वैशंपायन उवाच ।भृगोः शापाद्भृशं भीतो जातवेदाः प्रतापवान् ।शमीगर्भमथासाद्य ननाश भगवांस्ततः ॥ १६ ॥
प्रनष्टे तु तदा वह्नौ देवाः सर्वे सवासवाः ।अन्वेषन्त तदा नष्टं ज्वलनं भृशदुःखिताः ॥ १७ ॥
ततोऽग्नितीर्थमासाद्य शमीगर्भस्थमेव हि ।ददृशुर्ज्वलनं तत्र वसमानं यथाविधि ॥ १८ ॥
देवाः सर्वे नरव्याघ्र बृहस्पतिपुरोगमाः ।ज्वलनं तं समासाद्य प्रीताभूवन्सवासवाः ।पुनर्यथागतं जग्मुः सर्वभक्षश्च सोऽभवत् ॥ १९ ॥
भृगोः शापान्महीपाल यदुक्तं ब्रह्मवादिना ।तत्राप्याप्लुत्य मतिमान्ब्रह्मयोनिं जगाम ह ॥ २० ॥
ससर्ज भगवान्यत्र सर्वलोकपितामहः ।तत्राप्लुत्य ततो ब्रह्मा सह देवैः प्रभुः पुरा ।ससर्ज चान्नानि तथा देवतानां यथाविधि ॥ २१ ॥
तत्र स्नात्वा च दत्त्वा च वसूनि विविधानि च ।कौबेरं प्रययौ तीर्थं तत्र तप्त्वा महत्तपः ।धनाधिपत्यं संप्राप्तो राजन्नैलबिलः प्रभुः ॥ २२ ॥
तत्रस्थमेव तं राजन्धनानि निधयस्तथा ।उपतस्थुर्नरश्रेष्ठ तत्तीर्थं लाङ्गली ततः ।गत्वा स्नात्वा च विधिवद्ब्राह्मणेभ्यो धनं ददौ ॥ २३ ॥
ददृशे तत्र तत्स्थानं कौबेरे काननोत्तमे ।पुरा यत्र तपस्तप्तं विपुलं सुमहात्मना ॥ २४ ॥
यत्र राज्ञा कुबेरेण वरा लब्धाश्च पुष्कलाः ।धनाधिपत्यं सख्यं च रुद्रेणामिततेजसा ॥ २५ ॥
सुरत्वं लोकपालत्वं पुत्रं च नलकूबरम् ।यत्र लेभे महाबाहो धनाधिपतिरञ्जसा ॥ २६ ॥
अभिषिक्तश्च तत्रैव समागम्य मरुद्गणैः ।वाहनं चास्य तद्दत्तं हंसयुक्तं मनोरमम् ।विमानं पुष्पकं दिव्यं नैरृतैश्वर्यमेव च ॥ २७ ॥
तत्राप्लुत्य बलो राजन्दत्त्वा दायांश्च पुष्कलान् ।जगाम त्वरितो रामस्तीर्थं श्वेतानुलेपनः ॥ २८ ॥
निषेवितं सर्वसत्त्वैर्नाम्ना बदरपाचनम् ।नानर्तुकवनोपेतं सदापुष्पफलं शुभम् ॥ २९ ॥
« »