Click on words to see what they mean.

वैशंपायन उवाच ।शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥ १ ॥
यशस्विनीनां मातॄणां शृणु नामानि भारत ।याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥ २ ॥
प्रभावती विशालाक्षी पलिता गोनसी तथा ।श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥ ३ ॥
अप्सुजाता च गोपाली बृहदम्बालिका तथा ।जयावती मालतिका ध्रुवरत्ना भयंकरी ॥ ४ ॥
वसुदामा सुदामा च विशोका नन्दिनी तथा ।एकचूडा महाचूडा चक्रनेमिश्च भारत ॥ ५ ॥
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना ।शत्रुंजया तथा चैव क्रोधना शलभी खरी ॥ ६ ॥
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत ।गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥ ७ ॥
मेघस्वना भोगवती सुभ्रूश्च कनकावती ।अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥ ८ ॥
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना ।संतानिका च कौरव्य कमला च महाबला ॥ ९ ॥
सुदामा बहुदामा च सुप्रभा च यशस्विनी ।नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥ १० ॥
शतघण्टा शतानन्दा भगनन्दा च भामिनी ।वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥ ११ ॥
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी ।सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥ १२ ॥
धनदा सुप्रसादा च भवदा च जलेश्वरी ।एडी भेडी समेडी च वेतालजननी तथा ।कण्डूतिः कालिका चैव देवमित्रा च भारत ॥ १३ ॥
लम्बसी केतकी चैव चित्रसेना तथा बला ।कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥ १४ ॥
कुण्डारिका कोकलिका कण्डरा च शतोदरी ।उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥ १५ ॥
मनोजवा कण्टकिनी प्रघसा पूतना तथा ।खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥ १६ ॥
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी ।सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥ १७ ॥
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ।पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥ १८ ॥
पक्षालिका मन्थनिका जरायुर्जर्जरानना ।ख्याता दहदहा चैव तथा धमधमा नृप ॥ १९ ॥
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला ।अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥ २० ॥
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ।शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥ २१ ॥
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ।जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥ २२ ॥
कालेडिका वामनिका मुकुटा चैव भारत ।लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥ २३ ॥
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत ।क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥ २४ ॥
चतुष्पथनिकेता च गोकर्णी महिषानना ।खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥ २५ ॥
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला ।गणा च सुगणा चैव तथाभीत्यथ कामदा ॥ २६ ॥
चतुष्पथरता चैव भूतितीर्थान्यगोचरा ।पशुदा वित्तदा चैव सुखदा च महायशाः ।पयोदा गोमहिषदा सुविषाणा च भारत ॥ २७ ॥
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना ।गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ।एकचक्रा मेघरवा मेघमाला विरोचना ॥ २८ ॥
एताश्चान्याश्च बहवो मातरो भरतर्षभ ।कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥ २९ ॥
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत ।सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः ॥ ३० ॥
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ।निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ॥ ३१ ॥
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ ।अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥ ३२ ॥
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ।लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ॥ ३३ ॥
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः ।वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ॥ ३४ ॥
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः ।वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परंतप ॥ ३५ ॥
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ ।रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ॥ ३६ ॥
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः ।शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ॥ ३७ ॥
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ।गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥ ३८ ॥
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ।नानाविचित्रवेषाश्च नानाभाषास्तथैव च ॥ ३९ ॥
एते चान्ये च बहवो गणाः शत्रुभयंकराः ।अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ॥ ४० ॥
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ।गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ॥ ४१ ॥
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ।तरुणादित्यवर्णां च पताकां भरतर्षभ ॥ ४२ ॥
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ।उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ॥ ४३ ॥
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् ।उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥ ४४ ॥
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् ।ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥ ४५ ॥
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ।अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥ ४६ ॥
पाशं तु वरुणो राजा बलवीर्यसमन्वितम् ।कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ।समरेषु जयं चैव प्रददौ लोकभावनः ॥ ४७ ॥
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह ।शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ।ततः पारिषदैश्चैव मातृभिश्च समन्वितः ॥ ४८ ॥
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना ।सभेरीशङ्खमुरजा सायुधा सपताकिनी ।शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ॥ ४९ ॥
ततो देवनिकायास्ते भूतसेनागणास्तथा ।वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ॥ ५० ॥
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् ।आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥ ५१ ॥
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः ।जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ५२ ॥
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ ।रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ॥ ५३ ॥
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् ।प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥ ५४ ॥
सर्वेषां भूतसंघानां हर्षान्नादः समुत्थितः ।अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥ ५५ ॥
स निर्ययौ महासेनो महत्या सेनया वृतः ।वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ॥ ५६ ॥
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः ।महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥ ५७ ॥
स तया भीमया देवः शूलमुद्गरहस्तया ।गदामुसलनाराचशक्तितोमरहस्तया ।दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥ ५८ ॥
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा ।व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ।अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ॥ ५९ ॥
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ।शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ।आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥ ६० ॥
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा ।उल्काज्वाला महाराज पपात वसुधातले ॥ ६१ ॥
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ ।यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥ ६२ ॥
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना ।ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥ ६३ ॥
स शक्त्यस्त्रेण संग्रामे जघान भगवान्प्रभुः ।दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ।वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ॥ ६४ ॥
महिषं चाष्टभिः पद्मैर्वृतं संख्ये निजघ्निवान् ।त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ॥ ६५ ॥
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ।जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥ ६६ ॥
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ।कुमारानुचरा राजन्पूरयन्तो दिशो दश ॥ ६७ ॥
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः ।दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ॥ ६८ ॥
पताकयावधूताश्च हताः केचित्सुरद्विषः ।केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ।केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ॥ ६९ ॥
एवं सुरद्विषोऽनेकान्बलवानाततायिनः ।जघान समरे वीरः कार्त्तिकेयो महाबलः ॥ ७० ॥
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः ।क्रौञ्चं पर्वतमासाद्य देवसंघानबाधत ॥ ७१ ॥
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः ।स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ॥ ७२ ॥
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् ।शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ॥ ७३ ॥
सशालस्कन्धसरलं त्रस्तवानरवारणम् ।पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ॥ ७४ ॥
गोलाङ्गूलर्क्षसंघैश्च द्रवद्भिरनुनादितम् ।कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ॥ ७५ ॥
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः ।शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ॥ ७६ ॥
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः ।किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥ ७७ ॥
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः ।प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥ ७८ ॥
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे ।बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ॥ ७९ ॥
बहुधा चैकधा चैव कृत्वात्मानं महात्मना ।शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥ ८० ॥
एवंप्रभावो भगवानतो भूयश्च पावकिः ।क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ॥ ८१ ॥
ततः स भगवान्देवो निहत्य विबुधद्विषः ।सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥ ८२ ॥
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत ।मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ॥ ८३ ॥
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः ।गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥ ८४ ॥
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् ।सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥ ८५ ॥
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः ।उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥ ८६ ॥
एकधा च द्विधा चैव चतुर्धा च महाबलम् ।योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥ ८७ ॥
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् ।शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥ ८८ ॥
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु ।कुमारेण महाराज त्रिविष्टपमिवापरम् ॥ ८९ ॥
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् ।तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ॥ ९० ॥
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः ।अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥ ९१ ॥
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः ।अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥ ९२ ॥
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली ।ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ॥ ९३ ॥
उषित्वा रजनीं तत्र माधवः परवीरहा ।पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ।हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ॥ ९४ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ॥ ९५ ॥
« »