Click on words to see what they mean.

वैशंपायन उवाच ।ततोऽभिषेकसंभारान्सर्वान्संभृत्य शास्त्रतः ।बृहस्पतिः समिद्धेऽग्नौ जुहावाज्यं यथाविधि ॥ १ ॥
ततो हिमवता दत्ते मणिप्रवरशोभिते ।दिव्यरत्नाचिते दिव्ये निषण्णः परमासने ॥ २ ॥
सर्वमङ्गलसंभारैर्विधिमन्त्रपुरस्कृतम् ।आभिषेचनिकं द्रव्यं गृहीत्वा देवतागणाः ॥ ३ ॥
इन्द्राविष्णू महावीर्यौ सूर्याचन्द्रमसौ तथा ।धाता चैव विधाता च तथा चैवानिलानलौ ॥ ४ ॥
पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता ।रुद्रश्च सहितो धीमान्मित्रेण वरुणेन च ॥ ५ ॥
रुद्रैर्वसुभिरादित्यैरश्विभ्यां च वृतः प्रभुः ।विश्वेदेवैर्मरुद्भिश्च साध्यैश्च पितृभिः सह ॥ ६ ॥
गन्धर्वैरप्सरोभिश्च यक्षराक्षसपन्नगैः ।देवर्षिभिरसंख्येयैस्तथा ब्रह्मर्षिभिर्वरैः ॥ ७ ॥
वैखानसैर्वालखिल्यैर्वाय्वाहारैर्मरीचिपैः ।भृगुभिश्चाङ्गिरोभिश्च यतिभिश्च महात्मभिः ।सर्वैर्विद्याधरैः पुण्यैर्योगसिद्धैस्तथा वृतः ॥ ८ ॥
पितामहः पुलस्त्यश्च पुलहश्च महातपाः ।अङ्गिराः कश्यपोऽत्रिश्च मरीचिर्भृगुरेव च ॥ ९ ॥
क्रतुर्हरः प्रचेताश्च मनुर्दक्षस्तथैव च ।ऋतवश्च ग्रहाश्चैव ज्योतींषि च विशां पते ॥ १० ॥
मूर्तिमत्यश्च सरितो वेदाश्चैव सनातनाः ।समुद्राश्च ह्रदाश्चैव तीर्थानि विविधानि च ।पृथिवी द्यौर्दिशश्चैव पादपाश्च जनाधिप ॥ ११ ॥
अदितिर्देवमाता च ह्रीः श्रीः स्वाहा सरस्वती ।उमा शची सिनीवाली तथा चानुमतिः कुहूः ।राका च धिषणा चैव पत्न्यश्चान्या दिवौकसाम् ॥ १२ ॥
हिमवांश्चैव विन्ध्यश्च मेरुश्चानेकशृङ्गवान् ।ऐरावतः सानुचरः कलाः काष्ठास्तथैव च ।मासार्धमासा ऋतवस्तथा रात्र्यहनी नृप ॥ १३ ॥
उच्चैःश्रवा हयश्रेष्ठो नागराजश्च वामनः ।अरुणो गरुडश्चैव वृक्षाश्चौषधिभिः सह ॥ १४ ॥
धर्मश्च भगवान्देवः समाजग्मुर्हि संगताः ।कालो यमश्च मृत्युश्च यमस्यानुचराश्च ये ॥ १५ ॥
बहुलत्वाच्च नोक्ता ये विविधा देवतागणाः ।ते कुमाराभिषेकार्थं समाजग्मुस्ततस्ततः ॥ १६ ॥
जगृहुस्ते तदा राजन्सर्व एव दिवौकसः ।आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः ॥ १७ ॥
दिव्यसंभारसंयुक्तैः कलशैः काञ्चनैर्नृप ।सरस्वतीभिः पुण्याभिर्दिव्यतोयाभिरेव तु ॥ १८ ॥
अभ्यषिञ्चन्कुमारं वै संप्रहृष्टा दिवौकसः ।सेनापतिं महात्मानमसुराणां भयावहम् ॥ १९ ॥
पुरा यथा महाराज वरुणं वै जलेश्वरम् ।तथाभ्यषिञ्चद्भगवान्ब्रह्मा लोकपितामहः ।कश्यपश्च महातेजा ये चान्ये नानुकीर्तिताः ॥ २० ॥
तस्मै ब्रह्मा ददौ प्रीतो बलिनो वातरंहसः ।कामवीर्यधरान्सिद्धान्महापारिषदान्प्रभुः ॥ २१ ॥
नन्दिषेणं लोहिताक्षं घण्टाकर्णं च संमतम् ।चतुर्थमस्यानुचरं ख्यातं कुमुदमालिनम् ॥ २२ ॥
ततः स्थाणुं महावेगं महापारिषदं क्रतुम् ।मायाशतधरं कामं कामवीर्यबलान्वितम् ।ददौ स्कन्दाय राजेन्द्र सुरारिविनिबर्हणम् ॥ २३ ॥
स हि देवासुरे युद्धे दैत्यानां भीमकर्मणाम् ।जघान दोर्भ्यां संक्रुद्धः प्रयुतानि चतुर्दश ॥ २४ ॥
तथा देवा ददुस्तस्मै सेनां नैरृतसंकुलाम् ।देवशत्रुक्षयकरीमजय्यां विश्वरूपिणीम् ॥ २५ ॥
जयशब्दं ततश्चक्रुर्देवाः सर्वे सवासवाः ।गन्धर्वयक्षरक्षांसि मुनयः पितरस्तथा ॥ २६ ॥
यमः प्रादादनुचरौ यमकालोपमावुभौ ।उन्माथं च प्रमाथं च महावीर्यौ महाद्युती ॥ २७ ॥
सुभ्राजो भास्करश्चैव यौ तौ सूर्यानुयायिनौ ।तौ सूर्यः कार्त्तिकेयाय ददौ प्रीतः प्रतापवान् ॥ २८ ॥
कैलासशृङ्गसंकाशौ श्वेतमाल्यानुलेपनौ ।सोमोऽप्यनुचरौ प्रादान्मणिं सुमणिमेव च ॥ २९ ॥
ज्वालाजिह्वं तथा ज्योतिरात्मजाय हुताशनः ।ददावनुचरौ शूरौ परसैन्यप्रमाथिनौ ॥ ३० ॥
परिघं च वटं चैव भीमं च सुमहाबलम् ।दहतिं दहनं चैव प्रचण्डौ वीर्यसंमतौ ।अंशोऽप्यनुचरान्पञ्च ददौ स्कन्दाय धीमते ॥ ३१ ॥
उत्क्रोशं पङ्कजं चैव वज्रदण्डधरावुभौ ।ददावनलपुत्राय वासवः परवीरहा ।तौ हि शत्रून्महेन्द्रस्य जघ्नतुः समरे बहून् ॥ ३२ ॥
चक्रं विक्रमकं चैव संक्रमं च महाबलम् ।स्कन्दाय त्रीननुचरान्ददौ विष्णुर्महायशाः ॥ ३३ ॥
वर्धनं नन्दनं चैव सर्वविद्याविशारदौ ।स्कन्दाय ददतुः प्रीतावश्विनौ भरतर्षभ ॥ ३४ ॥
कुन्दनं कुसुमं चैव कुमुदं च महायशाः ।डम्बराडम्बरौ चैव ददौ धाता महात्मने ॥ ३५ ॥
वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलोत्कटौ ।ददौ त्वष्टा महामायौ स्कन्दायानुचरौ वरौ ॥ ३६ ॥
सुव्रतं सत्यसंधं च ददौ मित्रो महात्मने ।कुमाराय महात्मानौ तपोविद्याधरौ प्रभुः ॥ ३७ ॥
सुदर्शनीयौ वरदौ त्रिषु लोकेषु विश्रुतौ ।सुप्रभं च महात्मानं शुभकर्माणमेव च ।कार्त्तिकेयाय संप्रादाद्विधाता लोकविश्रुतौ ॥ ३८ ॥
पालितकं कालिकं च महामायाविनावुभौ ।पूषा च पार्षदौ प्रादात्कार्त्तिकेयाय भारत ॥ ३९ ॥
बलं चातिबलं चैव महावक्त्रौ महाबलौ ।प्रददौ कार्त्तिकेयाय वायुर्भरतसत्तम ॥ ४० ॥
घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ ।प्रददौ कार्त्तिकेयाय वरुणः सत्यसंगरः ॥ ४१ ॥
सुवर्चसं महात्मानं तथैवाप्यतिवर्चसम् ।हिमवान्प्रददौ राजन्हुताशनसुताय वै ॥ ४२ ॥
काञ्चनं च महात्मानं मेघमालिनमेव च ।ददावनुचरौ मेरुरग्निपुत्राय भारत ॥ ४३ ॥
स्थिरं चातिस्थिरं चैव मेरुरेवापरौ ददौ ।महात्मनेऽग्निपुत्राय महाबलपराक्रमौ ॥ ४४ ॥
उच्छ्रितं चातिशृङ्गं च महापाषाणयोधिनौ ।प्रददावग्निपुत्राय विन्ध्यः पारिषदावुभौ ॥ ४५ ॥
संग्रहं विग्रहं चैव समुद्रोऽपि गदाधरौ ।प्रददावग्निपुत्राय महापारिषदावुभौ ॥ ४६ ॥
उन्मादं पुष्पदन्तं च शङ्कुकर्णं तथैव च ।प्रददावग्निपुत्राय पार्वती शुभदर्शना ॥ ४७ ॥
जयं महाजयं चैव नागौ ज्वलनसूनवे ।प्रददौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः ॥ ४८ ॥
एवं साध्याश्च रुद्राश्च वसवः पितरस्तथा ।सागराः सरितश्चैव गिरयश्च महाबलाः ॥ ४९ ॥
ददुः सेनागणाध्यक्षाञ्शूलपट्टिशधारिणः ।दिव्यप्रहरणोपेतान्नानावेषविभूषितान् ॥ ५० ॥
शृणु नामानि चान्येषां येऽन्ये स्कन्दस्य सैनिकाः ।विविधायुधसंपन्नाश्चित्राभरणवर्मिणः ॥ ५१ ॥
शङ्कुकर्णो निकुम्भश्च पद्मः कुमुद एव च ।अनन्तो द्वादशभुजस्तथा कृष्णोपकृष्णकौ ॥ ५२ ॥
द्रोणश्रवाः कपिस्कन्धः काञ्चनाक्षो जलंधमः ।अक्षसंतर्जनो राजन्कुनदीकस्तमोभ्रकृत् ॥ ५३ ॥
एकाक्षो द्वादशाक्षश्च तथैवैकजटः प्रभुः ।सहस्रबाहुर्विकटो व्याघ्राक्षः क्षितिकम्पनः ॥ ५४ ॥
पुण्यनामा सुनामा च सुवक्त्रः प्रियदर्शनः ।परिश्रुतः कोकनदः प्रियमाल्यानुलेपनः ॥ ५५ ॥
अजोदरो गजशिराः स्कन्धाक्षः शतलोचनः ।ज्वालाजिह्वः करालश्च सितकेशो जटी हरिः ॥ ५६ ॥
चतुर्दंष्ट्रोऽष्टजिह्वश्च मेघनादः पृथुश्रवाः ।विद्युदक्षो धनुर्वक्त्रो जठरो मारुताशनः ॥ ५७ ॥
उदराक्षो झषाक्षश्च वज्रनाभो वसुप्रभः ।समुद्रवेगो राजेन्द्र शैलकम्पी तथैव च ॥ ५८ ॥
पुत्रमेषः प्रवाहश्च तथा नन्दोपनन्दकौ ।धूम्रः श्वेतः कलिङ्गश्च सिद्धार्थो वरदस्तथा ॥ ५९ ॥
प्रियकश्चैव नन्दश्च गोनन्दश्च प्रतापवान् ।आनन्दश्च प्रमोदश्च स्वस्तिको ध्रुवकस्तथा ॥ ६० ॥
क्षेमवापः सुजातश्च सिद्धयात्रश्च भारत ।गोव्रजः कनकापीडो महापारिषदेश्वरः ॥ ६१ ॥
गायनो हसनश्चैव बाणः खड्गश्च वीर्यवान् ।वैताली चातिताली च तथा कतिकवातिकौ ॥ ६२ ॥
हंसजः पङ्कदिग्धाङ्गः समुद्रोन्मादनश्च ह ।रणोत्कटः प्रहासश्च श्वेतशीर्षश्च नन्दकः ॥ ६३ ॥
कालकण्ठः प्रभासश्च तथा कुम्भाण्डकोऽपरः ।कालकाक्षः सितश्चैव भूतलोन्मथनस्तथा ॥ ६४ ॥
यज्ञवाहः प्रवाहश्च देवयाजी च सोमपः ।सजालश्च महातेजाः क्रथक्राथौ च भारत ॥ ६५ ॥
तुहनश्च तुहानश्च चित्रदेवश्च वीर्यवान् ।मधुरः सुप्रसादश्च किरीटी च महाबलः ॥ ६६ ॥
वसनो मधुवर्णश्च कलशोदर एव च ।धमन्तो मन्मथकरः सूचीवक्त्रश्च वीर्यवान् ॥ ६७ ॥
श्वेतवक्त्रः सुवक्त्रश्च चारुवक्त्रश्च पाण्डुरः ।दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥ ६८ ॥
अचलः कनकाक्षश्च बालानामयिकः प्रभुः ।संचारकः कोकनदो गृध्रवक्त्रश्च जम्बुकः ॥ ६९ ॥
लोहाशवक्त्रो जठरः कुम्भवक्त्रश्च कुण्डकः ।मद्गुग्रीवश्च कृष्णौजा हंसवक्त्रश्च चन्द्रभाः ॥ ७० ॥
पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश्च शिक्षकः ।चाषवक्त्रश्च जम्बूकः शाकवक्त्रश्च कुण्डकः ॥ ७१ ॥
योगयुक्ता महात्मानः सततं ब्राह्मणप्रियाः ।पैतामहा महात्मानो महापारिषदाश्च ह ।यौवनस्थाश्च बालाश्च वृद्धाश्च जनमेजय ॥ ७२ ॥
सहस्रशः पारिषदाः कुमारमुपतस्थिरे ।वक्त्रैर्नानाविधैर्ये तु शृणु ताञ्जनमेजय ॥ ७३ ॥
कूर्मकुक्कुटवक्त्राश्च शशोलूकमुखास्तथा ।खरोष्ट्रवदनाश्चैव वराहवदनास्तथा ॥ ७४ ॥
मनुष्यमेषवक्त्राश्च सृगालवदनास्तथा ।भीमा मकरवक्त्राश्च शिंशुमारमुखास्तथा ॥ ७५ ॥
मार्जारशशवक्त्राश्च दीर्घवक्त्राश्च भारत ।नकुलोलूकवक्त्राश्च श्ववक्त्राश्च तथापरे ॥ ७६ ॥
आखुबभ्रुकवक्त्राश्च मयूरवदनास्तथा ।मत्स्यमेषाननाश्चान्ये अजाविमहिषाननाः ॥ ७७ ॥
ऋक्षशार्दूलवक्त्राश्च द्वीपिसिंहाननास्तथा ।भीमा गजाननाश्चैव तथा नक्रमुखाः परे ॥ ७८ ॥
गरुडाननाः खड्गमुखा वृककाकमुखास्तथा ।गोखरोष्ट्रमुखाश्चान्ये वृषदंशमुखास्तथा ॥ ७९ ॥
महाजठरपादाङ्गास्तारकाक्षाश्च भारत ।पारावतमुखाश्चान्ये तथा वृषमुखाः परे ॥ ८० ॥
कोकिलावदनाश्चान्ये श्येनतित्तिरिकाननाः ।कृकलासमुखाश्चैव विरजोम्बरधारिणः ॥ ८१ ॥
व्यालवक्त्राः शूलमुखाश्चण्डवक्त्राः शताननाः ।आशीविषाश्चीरधरा गोनासावरणास्तथा ॥ ८२ ॥
स्थूलोदराः कृशाङ्गाश्च स्थूलाङ्गाश्च कृशोदराः ।ह्रस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः ॥ ८३ ॥
गजेन्द्रचर्मवसनास्तथा कृष्णाजिनाम्बराः ।स्कन्धेमुखा महाराज तथा ह्युदरतोमुखाः ॥ ८४ ॥
पृष्ठेमुखा हनुमुखास्तथा जङ्घामुखा अपि ।पार्श्वाननाश्च बहवो नानादेशमुखास्तथा ॥ ८५ ॥
तथा कीटपतंगानां सदृशास्या गणेश्वराः ।नानाव्यालमुखाश्चान्ये बहुबाहुशिरोधराः ॥ ८६ ॥
नानावृक्षभुजाः केचित्कटिशीर्षास्तथापरे ।भुजंगभोगवदना नानागुल्मनिवासिनः ॥ ८७ ॥
चीरसंवृतगात्राश्च तथा फलकवाससः ।नानावेषधराश्चैव चर्मवासस एव च ॥ ८८ ॥
उष्णीषिणो मुकुटिनः कम्बुग्रीवाः सुवर्चसः ।किरीटिनः पञ्चशिखास्तथा कठिनमूर्धजाः ॥ ८९ ॥
त्रिशिखा द्विशिखाश्चैव तथा सप्तशिखाः परे ।शिखण्डिनो मुकुटिनो मुण्डाश्च जटिलास्तथा ॥ ९० ॥
चित्रमाल्यधराः केचित्केचिद्रोमाननास्तथा ।दिव्यमाल्याम्बरधराः सततं प्रियविग्रहाः ॥ ९१ ॥
कृष्णा निर्मांसवक्त्राश्च दीर्घपृष्ठा निरूदराः ।स्थूलपृष्ठा ह्रस्वपृष्ठाः प्रलम्बोदरमेहनाः ॥ ९२ ॥
महाभुजा ह्रस्वभुजा ह्रस्वगात्राश्च वामनाः ।कुब्जाश्च दीर्घजङ्घाश्च हस्तिकर्णशिरोधराः ॥ ९३ ॥
हस्तिनासाः कूर्मनासा वृकनासास्तथापरे ।दीर्घोष्ठा दीर्घजिह्वाश्च विकराला ह्यधोमुखाः ॥ ९४ ॥
महादंष्ट्रा ह्रस्वदंष्ट्राश्चतुर्दंष्ट्रास्तथापरे ।वारणेन्द्रनिभाश्चान्ये भीमा राजन्सहस्रशः ॥ ९५ ॥
सुविभक्तशरीराश्च दीप्तिमन्तः स्वलंकृताः ।पिङ्गाक्षाः शङ्कुकर्णाश्च वक्रनासाश्च भारत ॥ ९६ ॥
पृथुदंष्ट्रा महादंष्ट्राः स्थूलौष्ठा हरिमूर्धजाः ।नानापादौष्ठदंष्ट्राश्च नानाहस्तशिरोधराः ।नानावर्मभिराच्छन्ना नानाभाषाश्च भारत ॥ ९७ ॥
कुशला देशभाषासु जल्पन्तोऽन्योन्यमीश्वराः ।हृष्टाः परिपतन्ति स्म महापारिषदास्तथा ॥ ९८ ॥
दीर्घग्रीवा दीर्घनखा दीर्घपादशिरोभुजाः ।पिङ्गाक्षा नीलकण्ठाश्च लम्बकर्णाश्च भारत ॥ ९९ ॥
वृकोदरनिभाश्चैव केचिदञ्जनसंनिभाः ।श्वेताङ्गा लोहितग्रीवाः पिङ्गाक्षाश्च तथापरे ।कल्माषा बहवो राजंश्चित्रवर्णाश्च भारत ॥ १०० ॥
चामरापीडकनिभाः श्वेतलोहितराजयः ।नानावर्णाः सवर्णाश्च मयूरसदृशप्रभाः ॥ १०१ ॥
पुनः प्रहरणान्येषां कीर्त्यमानानि मे शृणु ।शेषैः कृतं पारिषदैरायुधानां परिग्रहम् ॥ १०२ ॥
पाशोद्यतकराः केचिद्व्यादितास्याः खराननाः ।पृथ्वक्षा नीलकण्ठाश्च तथा परिघबाहवः ॥ १०३ ॥
शतघ्नीचक्रहस्ताश्च तथा मुसलपाणयः ।शूलासिहस्ताश्च तथा महाकाया महाबलाः ॥ १०४ ॥
गदाभुशुण्डिहस्ताश्च तथा तोमरपाणयः ।असिमुद्गरहस्ताश्च दण्डहस्ताश्च भारत ॥ १०५ ॥
आयुधैर्विविधैर्घोरैर्महात्मानो महाजवाः ।महाबला महावेगा महापारिषदास्तथा ॥ १०६ ॥
अभिषेकं कुमारस्य दृष्ट्वा हृष्टा रणप्रियाः ।घण्टाजालपिनद्धाङ्गा ननृतुस्ते महौजसः ॥ १०७ ॥
एते चान्ये च बहवो महापारिषदा नृप ।उपतस्थुर्महात्मानं कार्त्तिकेयं यशस्विनम् ॥ १०८ ॥
दिव्याश्चाप्यान्तरिक्षाश्च पार्थिवाश्चानिलोपमाः ।व्यादिष्टा दैवतैः शूराः स्कन्दस्यानुचराभवन् ॥ १०९ ॥
तादृशानां सहस्राणि प्रयुतान्यर्बुदानि च ।अभिषिक्तं महात्मानं परिवार्योपतस्थिरे ॥ ११० ॥
« »