Click on words to see what they mean.

जनमेजय उवाच ।सरस्वत्याः प्रभावोऽयमुक्तस्ते द्विजसत्तम ।कुमारस्याभिषेकं तु ब्रह्मन्व्याख्यातुमर्हसि ॥ १ ॥
यस्मिन्काले च देशे च यथा च वदतां वर ।यैश्चाभिषिक्तो भगवान्विधिना येन च प्रभुः ॥ २ ॥
स्कन्दो यथा च दैत्यानामकरोत्कदनं महत् ।तथा मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥ ३ ॥
वैशंपायन उवाच ।कुरुवंशस्य सदृशमिदं कौतूहलं तव ।हर्षमुत्पादयत्येतद्वचो मे जनमेजय ॥ ४ ॥
हन्त ते कथयिष्यामि शृण्वानस्य जनाधिप ।अभिषेकं कुमारस्य प्रभावं च महात्मनः ॥ ५ ॥
तेजो माहेश्वरं स्कन्नमग्नौ प्रपतितं पुरा ।तत्सर्वभक्षो भगवान्नाशकद्दग्धुमक्षयम् ॥ ६ ॥
तेनासीदति तेजस्वी दीप्तिमान्हव्यवाहनः ।न चैव धारयामास गर्भं तेजोमयं तदा ॥ ७ ॥
स गङ्गामभिसंगम्य नियोगाद्ब्रह्मणः प्रभुः ।गर्भमाहितवान्दिव्यं भास्करोपमतेजसम् ॥ ८ ॥
अथ गङ्गापि तं गर्भमसहन्ती विधारणे ।उत्ससर्ज गिरौ रम्ये हिमवत्यमरार्चिते ॥ ९ ॥
स तत्र ववृधे लोकानावृत्य ज्वलनात्मजः ।ददृशुर्ज्वलनाकारं तं गर्भमथ कृत्तिकाः ॥ १० ॥
शरस्तम्बे महात्मानमनलात्मजमीश्वरम् ।ममायमिति ताः सर्वाः पुत्रार्थिन्योऽभिचक्रमुः ॥ ११ ॥
तासां विदित्वा भावं तं मातॄणां भगवान्प्रभुः ।प्रस्नुतानां पयः षड्भिर्वदनैरपिबत्तदा ॥ १२ ॥
तं प्रभावं समालक्ष्य तस्य बालस्य कृत्तिकाः ।परं विस्मयमापन्ना देव्यो दिव्यवपुर्धराः ॥ १३ ॥
यत्रोत्सृष्टः स भगवान्गङ्गया गिरिमूर्धनि ।स शैलः काञ्चनः सर्वः संबभौ कुरुसत्तम ॥ १४ ॥
वर्धता चैव गर्भेण पृथिवी तेन रञ्जिता ।अतश्च सर्वे संवृत्ता गिरयः काञ्चनाकराः ॥ १५ ॥
कुमारश्च महावीर्यः कार्त्तिकेय इति स्मृतः ।गाङ्गेयः पूर्वमभवन्महायोगबलान्वितः ॥ १६ ॥
स देवस्तपसा चैव वीर्येण च समन्वितः ।ववृधेऽतीव राजेन्द्र चन्द्रवत्प्रियदर्शनः ॥ १७ ॥
स तस्मिन्काञ्चने दिव्ये शरस्तम्बे श्रिया वृतः ।स्तूयमानस्तदा शेते गन्धर्वैर्मुनिभिस्तथा ॥ १८ ॥
तथैनमन्वनृत्यन्त देवकन्याः सहस्रशः ।दिव्यवादित्रनृत्तज्ञाः स्तुवन्त्यश्चारुदर्शनाः ॥ १९ ॥
अन्वास्ते च नदी देवं गङ्गा वै सरितां वरा ।दधार पृथिवी चैनं बिभ्रती रूपमुत्तमम् ॥ २० ॥
जातकर्मादिकास्तस्य क्रियाश्चक्रे बृहस्पतिः ।वेदश्चैनं चतुर्मूर्तिरुपतस्थे कृताञ्जलिः ॥ २१ ॥
धनुर्वेदश्चतुष्पादः शस्त्रग्रामः ससंग्रहः ।तत्रैनं समुपातिष्ठत्साक्षाद्वाणी च केवला ॥ २२ ॥
स ददर्श महावीर्यं देवदेवमुमापतिम् ।शैलपुत्र्या सहासीनं भूतसंघशतैर्वृतम् ॥ २३ ॥
निकाया भूतसंघानां परमाद्भुतदर्शनाः ।विकृता विकृताकारा विकृताभरणध्वजाः ॥ २४ ॥
व्याघ्रसिंहर्क्षवदना बिडालमकराननाः ।वृषदंशमुखाश्चान्ये गजोष्ट्रवदनास्तथा ॥ २५ ॥
उलूकवदनाः केचिद्गृध्रगोमायुदर्शनाः ।क्रौञ्चपारावतनिभैर्वदनै राङ्कवैरपि ॥ २६ ॥
श्वाविच्छल्यकगोधानां खरैडकगवां तथा ।सदृशानि वपूंष्यन्ये तत्र तत्र व्यधारयन् ॥ २७ ॥
केचिच्छैलाम्बुदप्रख्याश्चक्रालातगदायुधाः ।केचिदञ्जनपुञ्जाभाः केचिच्छ्वेताचलप्रभाः ॥ २८ ॥
सप्तमातृगणाश्चैव समाजग्मुर्विशां पते ।साध्या विश्वेऽथ मरुतो वसवः पितरस्तथा ॥ २९ ॥
रुद्रादित्यास्तथा सिद्धा भुजगा दानवाः खगाः ।ब्रह्मा स्वयंभूर्भगवान्सपुत्रः सह विष्णुना ॥ ३० ॥
शक्रस्तथाभ्ययाद्द्रष्टुं कुमारवरमच्युतम् ।नारदप्रमुखाश्चापि देवगन्धर्वसत्तमाः ॥ ३१ ॥
देवर्षयश्च सिद्धाश्च बृहस्पतिपुरोगमाः ।ऋभवो नाम वरदा देवानामपि देवताः ।तेऽपि तत्र समाजग्मुर्यामा धामाश्च सर्वशः ॥ ३२ ॥
स तु बालोऽपि भगवान्महायोगबलान्वितः ।अभ्याजगाम देवेशं शूलहस्तं पिनाकिनम् ॥ ३३ ॥
तमाव्रजन्तमालक्ष्य शिवस्यासीन्मनोगतम् ।युगपच्छैलपुत्र्याश्च गङ्गायाः पावकस्य च ॥ ३४ ॥
किं नु पूर्वमयं बालो गौरवादभ्युपैष्यति ।अपि मामिति सर्वेषां तेषामासीन्मनोगतम् ॥ ३५ ॥
तेषामेतमभिप्रायं चतुर्णामुपलक्ष्य सः ।युगपद्योगमास्थाय ससर्ज विविधास्तनूः ॥ ३६ ॥
ततोऽभवच्चतुर्मूर्तिः क्षणेन भगवान्प्रभुः ।स्कन्दः शाखो विशाखश्च नैगमेषश्च पृष्ठतः ॥ ३७ ॥
एवं स कृत्वा ह्यात्मानं चतुर्धा भगवान्प्रभुः ।यतो रुद्रस्ततः स्कन्दो जगामाद्भुतदर्शनः ॥ ३८ ॥
विशाखस्तु ययौ येन देवी गिरिवरात्मजा ।शाखो ययौ च भगवान्वायुमूर्तिर्विभावसुम् ।नैगमेषोऽगमद्गङ्गां कुमारः पावकप्रभः ॥ ३९ ॥
सर्वे भास्वरदेहास्ते चत्वारः समरूपिणः ।तान्समभ्ययुरव्यग्रास्तदद्भुतमिवाभवत् ॥ ४० ॥
हाहाकारो महानासीद्देवदानवरक्षसाम् ।तद्दृष्ट्वा महदाश्चर्यमद्भुतं रोमहर्षणम् ॥ ४१ ॥
ततो रुद्रश्च देवी च पावकश्च पितामहम् ।गङ्गया सहिताः सर्वे प्रणिपेतुर्जगत्पतिम् ॥ ४२ ॥
प्रणिपत्य ततस्ते तु विधिवद्राजपुंगव ।इदमूचुर्वचो राजन्कार्त्तिकेयप्रियेप्सया ॥ ४३ ॥
अस्य बालस्य भगवन्नाधिपत्यं यथेप्सितम् ।अस्मत्प्रियार्थं देवेश सदृशं दातुमर्हसि ॥ ४४ ॥
ततः स भगवान्धीमान्सर्वलोकपितामहः ।मनसा चिन्तयामास किमयं लभतामिति ॥ ४५ ॥
ऐश्वर्याणि हि सर्वाणि देवगन्धर्वरक्षसाम् ।भूतयक्षविहंगानां पन्नगानां च सर्वशः ॥ ४६ ॥
पूर्वमेवादिदेशासौ निकायेषु महात्मनाम् ।समर्थं च तमैश्वर्ये महामतिरमन्यत ॥ ४७ ॥
ततो मुहूर्तं स ध्यात्वा देवानां श्रेयसि स्थितः ।सेनापत्यं ददौ तस्मै सर्वभूतेषु भारत ॥ ४८ ॥
सर्वदेवनिकायानां ये राजानः परिश्रुताः ।तान्सर्वान्व्यादिदेशास्मै सर्वभूतपितामहः ॥ ४९ ॥
ततः कुमारमादाय देवा ब्रह्मपुरोगमाः ।अभिषेकार्थमाजग्मुः शैलेन्द्रं सहितास्ततः ॥ ५० ॥
पुण्यां हैमवतीं देवीं सरिच्छ्रेष्ठां सरस्वतीम् ।समन्तपञ्चके या वै त्रिषु लोकेषु विश्रुता ॥ ५१ ॥
तत्र तीरे सरस्वत्याः पुण्ये सर्वगुणान्विते ।निषेदुर्देवगन्धर्वाः सर्वे संपूर्णमानसाः ॥ ५२ ॥
« »