Click on words to see what they mean.

जनमेजय उवाच ।वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः ।किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत् ॥ १ ॥
केन चास्याभवद्वैरं कारणं किं च तत्प्रभो ।शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम् ॥ २ ॥
वैशंपायन उवाच ।विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत ।भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत् ॥ ३ ॥
आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान् ।पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः ॥ ४ ॥
यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः ।यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः ॥ ५ ॥
यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम् ।स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो ॥ ६ ॥
तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप ।सेनापत्येन महता सुरारिविनिबर्हणम् ॥ ७ ॥
तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः ।वसिष्ठं चालयामास तपसोग्रेण तच्छृणु ॥ ८ ॥
विश्वामित्रवसिष्ठौ तावहन्यहनि भारत ।स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ ॥ ९ ॥
तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः ।दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह ।तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत ॥ १० ॥
इयं सरस्वती तूर्णं मत्समीपं तपोधनम् ।आनयिष्यति वेगेन वसिष्ठं जपतां वरम् ।इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः ॥ ११ ॥
एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः ।सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः ॥ १२ ॥
सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह ।जज्ञे चैनं महावीर्यं महाकोपं च भामिनी ॥ १३ ॥
तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा ।उपतस्थे मुनिवरं विश्वामित्रं सरस्वती ॥ १४ ॥
हतवीरा यथा नारी साभवद्दुःखिता भृशम् ।ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम् ॥ १५ ॥
तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय ।यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी ॥ १६ ॥
साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा ।विव्यथे सुविरूढेव लता वायुसमीरिता ॥ १७ ॥
तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम् ।विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय ॥ १८ ॥
ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत ।उभयोः शापयोर्भीता कथमेतद्भविष्यति ॥ १९ ॥
साभिगम्य वसिष्ठं तु इममर्थमचोदयत् ।यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता ॥ २० ॥
उभयोः शापयोर्भीता वेपमाना पुनः पुनः ।चिन्तयित्वा महाशापमृषिवित्रासिता भृशम् ॥ २१ ॥
तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम् ।उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः ॥ २२ ॥
त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी ।विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम् ॥ २३ ॥
तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित् ।चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत् ॥ २४ ॥
तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि ।कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया ॥ २५ ॥
अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम् ।जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत् ॥ २६ ॥
इदमन्तरमित्येव ततः सा सरितां वरा ।कूलापहारमकरोत्स्वेन वेगेन सा सरित् ॥ २७ ॥
तेन कूलापहारेण मैत्रावरुणिरौह्यत ।उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम् ॥ २८ ॥
पितामहस्य सरसः प्रवृत्तासि सरस्वति ।व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः ॥ २९ ॥
त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः ।सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे ॥ ३० ॥
पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा ।त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत् ।त्वमेव सर्वभूतेषु वससीह चतुर्विधा ॥ ३१ ॥
एवं सरस्वती राजन्स्तूयमाना महर्षिणा ।वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति ।न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम् ॥ ३२ ॥
तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः ।अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा ॥ ३३ ॥
तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी ।अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता ।उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम् ॥ ३४ ॥
ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम् ।अब्रवीदथ संक्रुद्धो विश्वामित्रो ह्यमर्षणः ॥ ३५ ॥
यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता ।शोणितं वह कल्याणि रक्षोग्रामणिसंमतम् ॥ ३६ ॥
ततः सरस्वती शप्ता विश्वामित्रेण धीमता ।अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा ॥ ३७ ॥
अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा ।सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः ॥ ३८ ॥
एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप ।आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा ॥ ३९ ॥
« »