Click on words to see what they mean.

वैशंपायन उवाच ।सा शप्ता तेन क्रुद्धेन विश्वामित्रेण धीमता ।तस्मिंस्तीर्थवरे शुभ्रे शोणितं समुपावहत् ॥ १ ॥
अथाजग्मुस्ततो राजन्राक्षसास्तत्र भारत ।तत्र ते शोणितं सर्वे पिबन्तः सुखमासते ॥ २ ॥
तृप्ताश्च सुभृशं तेन सुखिता विगतज्वराः ।नृत्यन्तश्च हसन्तश्च यथा स्वर्गजितस्तथा ॥ ३ ॥
कस्यचित्त्वथ कालस्य ऋषयः सतपोधनाः ।तीर्थयात्रां समाजग्मुः सरस्वत्यां महीपते ॥ ४ ॥
तेषु सर्वेषु तीर्थेषु आप्लुत्य मुनिपुंगवाः ।प्राप्य प्रीतिं परां चापि तपोलुब्धा विशारदाः ।प्रययुर्हि ततो राजन्येन तीर्थं हि तत्तथा ॥ ५ ॥
अथागम्य महाभागास्तत्तीर्थं दारुणं तदा ।दृष्ट्वा तोयं सरस्वत्याः शोणितेन परिप्लुतम् ।पीयमानं च रक्षोभिर्बहुभिर्नृपसत्तम ॥ ६ ॥
तान्दृष्ट्वा राक्षसान्राजन्मुनयः संशितव्रताः ।परित्राणे सरस्वत्याः परं यत्नं प्रचक्रिरे ॥ ७ ॥
ते तु सर्वे महाभागाः समागम्य महाव्रताः ।आहूय सरितां श्रेष्ठामिदं वचनमब्रुवन् ॥ ८ ॥
कारणं ब्रूहि कल्याणि किमर्थं ते ह्रदो ह्ययम् ।एवमाकुलतां यातः श्रुत्वा पास्यामहे वयम् ॥ ९ ॥
ततः सा सर्वमाचष्ट यथावृत्तं प्रवेपती ।दुःखितामथ तां दृष्ट्वा त ऊचुर्वै तपोधनाः ॥ १० ॥
कारणं श्रुतमस्माभिः शापश्चैव श्रुतोऽनघे ।करिष्यन्ति तु यत्प्राप्तं सर्व एव तपोधनाः ॥ ११ ॥
एवमुक्त्वा सरिच्छ्रेष्ठामूचुस्तेऽथ परस्परम् ।विमोचयामहे सर्वे शापादेतां सरस्वतीम् ॥ १२ ॥
तेषां तु वचनादेव प्रकृतिस्था सरस्वती ।प्रसन्नसलिला जज्ञे यथा पूर्वं तथैव हि ।विमुक्ता च सरिच्छ्रेष्ठा विबभौ सा यथा पुरा ॥ १३ ॥
दृष्ट्वा तोयं सरस्वत्या मुनिभिस्तैस्तथा कृतम् ।कृताञ्जलीस्ततो राजन्राक्षसाः क्षुधयार्दिताः ।ऊचुस्तान्वै मुनीन्सर्वान्कृपायुक्तान्पुनः पुनः ॥ १४ ॥
वयं हि क्षुधिताश्चैव धर्माद्धीनाश्च शाश्वतात् ।न च नः कामकारोऽयं यद्वयं पापकारिणः ॥ १५ ॥
युष्माकं चाप्रसादेन दुष्कृतेन च कर्मणा ।पक्षोऽयं वर्धतेऽस्माकं यतः स्म ब्रह्मराक्षसाः ॥ १६ ॥
एवं हि वैश्यशूद्राणां क्षत्रियाणां तथैव च ।ये ब्राह्मणान्प्रद्विषन्ति ते भवन्तीह राक्षसाः ॥ १७ ॥
आचार्यमृत्विजं चैव गुरुं वृद्धजनं तथा ।प्राणिनो येऽवमन्यन्ते ते भवन्तीह राक्षसाः ।योषितां चैव पापानां योनिदोषेण वर्धते ॥ १८ ॥
तत्कुरुध्वमिहास्माकं कारुण्यं द्विजसत्तमाः ।शक्ता भवन्तः सर्वेषां लोकानामपि तारणे ॥ १९ ॥
तेषां ते मुनयः श्रुत्वा तुष्टुवुस्तां महानदीम् ।मोक्षार्थं रक्षसां तेषामूचुः प्रयतमानसाः ॥ २० ॥
क्षुतकीटावपन्नं च यच्चोच्छिष्टाशितं भवेत् ।केशावपन्नमाधूतमारुग्णमपि यद्भवेत् ।श्वभिः संस्पृष्टमन्नं च भागोऽसौ रक्षसामिह ॥ २१ ॥
तस्माज्ज्ञात्वा सदा विद्वानेतान्यन्नानि वर्जयेत् ।राक्षसान्नमसौ भुङ्क्ते यो भुङ्क्ते ह्यन्नमीदृशम् ॥ २२ ॥
शोधयित्वा ततस्तीर्थमृषयस्ते तपोधनाः ।मोक्षार्थं राक्षसानां च नदीं तां प्रत्यचोदयन् ॥ २३ ॥
महर्षीणां मतं ज्ञात्वा ततः सा सरितां वरा ।अरुणामानयामास स्वां तनुं पुरुषर्षभ ॥ २४ ॥
तस्यां ते राक्षसाः स्नात्वा तनूस्त्यक्त्वा दिवं गताः ।अरुणायां महाराज ब्रह्महत्यापहा हि सा ॥ २५ ॥
एतमर्थमभिज्ञाय देवराजः शतक्रतुः ।तस्मिंस्तीर्थवरे स्नात्वा विमुक्तः पाप्मना किल ॥ २६ ॥
जनमेजय उवाच ।किमर्थं भगवाञ्शक्रो ब्रह्महत्यामवाप्तवान् ।कथमस्मिंश्च तीर्थे वै आप्लुत्याकल्मषोऽभवत् ॥ २७ ॥
वैशंपायन उवाच ।शृणुष्वैतदुपाख्यानं यथावृत्तं जनेश्वर ।यथा बिभेद समयं नमुचेर्वासवः पुरा ॥ २८ ॥
नमुचिर्वासवाद्भीतः सूर्यरश्मिं समाविशत् ।तेनेन्द्रः सख्यमकरोत्समयं चेदमब्रवीत् ॥ २९ ॥
नार्द्रेण त्वा न शुष्केण न रात्रौ नापि वाहनि ।वधिष्याम्यसुरश्रेष्ठ सखे सत्येन ते शपे ॥ ३० ॥
एवं स कृत्वा समयं सृष्ट्वा नीहारमीश्वरः ।चिच्छेदास्य शिरो राजन्नपां फेनेन वासवः ॥ ३१ ॥
तच्छिरो नमुचेश्छिन्नं पृष्ठतः शक्रमन्वयात् ।हे मित्रहन्पाप इति ब्रुवाणं शक्रमन्तिकात् ॥ ३२ ॥
एवं स शिरसा तेन चोद्यमानः पुनः पुनः ।पितामहाय संतप्त एवमर्थं न्यवेदयत् ॥ ३३ ॥
तमब्रवील्लोकगुरुररुणायां यथाविधि ।इष्ट्वोपस्पृश देवेन्द्र ब्रह्महत्यापहा हि सा ॥ ३४ ॥
इत्युक्तः स सरस्वत्याः कुञ्जे वै जनमेजय ।इष्ट्वा यथावद्बलभिदरुणायामुपास्पृशत् ॥ ३५ ॥
स मुक्तः पाप्मना तेन ब्रह्महत्याकृतेन ह ।जगाम संहृष्टमनास्त्रिदिवं त्रिदशेश्वरः ॥ ३६ ॥
शिरस्तच्चापि नमुचेस्तत्रैवाप्लुत्य भारत ।लोकान्कामदुघान्प्राप्तमक्षयान्राजसत्तम ॥ ३७ ॥
तत्राप्युपस्पृश्य बलो महात्मा दत्त्वा च दानानि पृथग्विधानि ।अवाप्य धर्मं परमार्यकर्मा जगाम सोमस्य महत्स तीर्थम् ॥ ३८ ॥
यत्रायजद्राजसूयेन सोमः साक्षात्पुरा विधिवत्पार्थिवेन्द्र ।अत्रिर्धीमान्विप्रमुख्यो बभूव होता यस्मिन्क्रतुमुख्ये महात्मा ॥ ३९ ॥
यस्यान्तेऽभूत्सुमहान्दानवानां दैतेयानां राक्षसानां च देवैः ।स संग्रामस्तारकाख्यः सुतीव्रो यत्र स्कन्दस्तारकाख्यं जघान ॥ ४० ॥
सेनापत्यं लब्धवान्देवतानां महासेनो यत्र दैत्यान्तकर्ता ।साक्षाच्चात्र न्यवसत्कार्त्तिकेयः सदा कुमारो यत्र स प्लक्षराजः ॥ ४१ ॥
« »