Click on words to see what they mean.

वैशंपायन उवाच ।ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः ।यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः ।जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः ॥ १ ॥
तपसा घोररूपेण कर्शयन्देहमात्मनः ।क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान् ॥ २ ॥
पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके ।वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन् ॥ ३ ॥
तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः ।बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम् ॥ ४ ॥
तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति ।पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम् ॥ ५ ॥
एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान् ।जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः ॥ ६ ॥
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम् ।अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत् ॥ ७ ॥
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम ।एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि ॥ ८ ॥
ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित् ।अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि ॥ ९ ॥
चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः ।मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः ॥ १० ॥
स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः ।जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा ॥ ११ ॥
अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम् ।बको दाल्भ्यो महाराज नियमं परमास्थितः ।स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः ॥ १२ ॥
तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे ।अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव ॥ १३ ॥
छिद्यमानं यथानन्तं वनं परशुना विभो ।बभूवापहतं तच्चाप्यवकीर्णमचेतनम् ॥ १४ ॥
दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः ।बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः ॥ १५ ॥
मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा ।अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप ॥ १६ ॥
यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप ।अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय ॥ १७ ॥
ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया ।मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः ॥ १८ ॥
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान् ।तस्यैतत्तपसः कर्म येन ते ह्यनयो महान् ।अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव ॥ १९ ॥
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत् ।निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ ॥ २० ॥
प्रसादये त्वा भगवन्नपराधं क्षमस्व मे ।मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः ।त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि ॥ २१ ॥
तं तथा विलपन्तं तु शोकोपहतचेतसम् ।दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत् ॥ २२ ॥
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः ।मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम् ॥ २३ ॥
मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून् ।हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि ॥ २४ ॥
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः ।स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत् ॥ २५ ॥
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः ।असुराणामभावाय भावाय च दिवौकसाम् ॥ २६ ॥
मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः ।दैवतैरपि संभग्ना जितकाशिभिराहवे ॥ २७ ॥
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः ।वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान् ॥ २८ ॥
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम् ।ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते ॥ २९ ॥
यत्र यज्ञे ययातेस्तु महाराज सरस्वती ।सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः ॥ ३० ॥
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः ।आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान् ॥ ३१ ॥
ययातेर्यजमानस्य यत्र राजन्सरस्वती ।प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम् ॥ ३२ ॥
यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति ।तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान् ॥ ३३ ॥
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा ।विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम् ॥ ३४ ॥
ततस्तालकेतुर्महाधर्मसेतुर्महात्मा कृतात्मा महादाननित्यः ।वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम ॥ ३५ ॥
« »