Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः ।प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः ॥ १ ॥
न हि संतर्जना तेन श्रुतपूर्वा कदाचन ।राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ॥ २ ॥
इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् ।प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय ॥ ३ ॥
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः ।विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ॥ ४ ॥
श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः ।किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय ॥ ५ ॥
संजय उवाच ।तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः ।युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ॥ ६ ॥
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः ।दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ॥ ७ ॥
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः ।मनश्चकार युद्धाय राजानं चाभ्यभाषत ॥ ८ ॥
यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः ।अहमेकः परिद्यूनो विरथो हतवाहनः ॥ ९ ॥
आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः ।कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ॥ १० ॥
एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर ।न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि ॥ ११ ॥
विशेषतो विकवचः श्रान्तश्चापः समाश्रितः ।भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ॥ १२ ॥
न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात् ।फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ॥ १३ ॥
यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः ।एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ॥ १४ ॥
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप ।धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम् ॥ १५ ॥
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ।अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ॥ १६ ॥
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् ।नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये ।तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः ॥ १७ ॥
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम् ।बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ॥ १८ ॥
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः ।मद्रराजस्य शल्यस्य भूरिश्रवस एव च ॥ १९ ॥
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च ।मित्राणां सुहृदां चैव बान्धवानां तथैव च ॥ २० ॥
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह ।एतावदुक्त्वा वचनं विरराम जनाधिपः ॥ २१ ॥
युधिष्ठिर उवाच ।दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन ।दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज ॥ २२ ॥
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम् ।यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि ॥ २३ ॥
एक एकेन संगम्य यत्ते संमतमायुधम् ।तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः ॥ २४ ॥
अयमिष्टं च ते कामं वीर भूयो ददाम्यहम् ।हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ॥ २५ ॥
दुर्योधन उवाच ।एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते ।आयुधानामियं चापि वृता त्वत्संमते गदा ॥ २६ ॥
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते ।पदातिर्गदया संख्ये स युध्यतु मया सह ॥ २७ ॥
वृत्तानि रथयुद्धानि विचित्राणि पदे पदे ।इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत् ॥ २८ ॥
अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः ।युद्धानामपि पर्यायो भवत्वनुमते तव ॥ २९ ॥
गदया त्वां महाबाहो विजेष्यामि सहानुजम् ।पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः ॥ ३० ॥
युधिष्ठिर उवाच ।उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन ।एक एकेन संगम्य संयुगे गदया बली ॥ ३१ ॥
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः ।अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ॥ ३२ ॥
संजय उवाच ।एतत्स नरशार्दूलो नामृष्यत तवात्मजः ।सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ॥ ३३ ॥
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः ।वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ॥ ३४ ॥
संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान् ।अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम् ।अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ॥ ३५ ॥
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम् ।उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ॥ ३६ ॥
ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम् ।गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः ॥ ३७ ॥
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् ।प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम् ।सगदो भारतो भाति प्रतपन्भास्करो यथा ॥ ३८ ॥
तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम् ।मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ॥ ३९ ॥
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् ।ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ॥ ४० ॥
तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः ।पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः ॥ ४१ ॥
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव ।उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान् ॥ ४२ ॥
त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः ।प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ॥ ४३ ॥
अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः ।गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम् ॥ ४४ ॥
उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव ।अतिष्ठत गदापाणी रुधिरेण समुक्षितः ॥ ४५ ॥
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् ।शरीरं स्म तदा भाति स्रवन्निव महीधरः ॥ ४६ ॥
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः ।वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम् ॥ ४७ ॥
स मेघनिनदो हर्षान्नदन्निव च गोवृषः ।आजुहाव ततः पार्थान्गदया युधि वीर्यवान् ॥ ४८ ॥
दुर्योधन उवाच ।एकैकेन च मां यूयमासीदत युधिष्ठिर ।न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि ॥ ४९ ॥
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः ।भृशं विक्षतगात्रश्च हतवाहनसैनिकः ॥ ५० ॥
युधिष्ठिर उवाच ।नाभूदियं तव प्रज्ञा कथमेवं सुयोधन ।यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः ॥ ५१ ॥
आमुञ्च कवचं वीर मूर्धजान्यमयस्व च ।यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत ।इममेकं च ते कामं वीर भूयो ददाम्यहम् ॥ ५२ ॥
पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि ।तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि ।ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम् ॥ ५३ ॥
संजय उवाच ।ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् ।विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम् ॥ ५४ ॥
सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् ।रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ ५५ ॥
संनद्धः स गदी राजन्सज्जः संग्राममूर्धनि ।अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ॥ ५६ ॥
भ्रातॄणां भवतामेको युध्यतां गदया मया ।सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ॥ ५७ ॥
अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ ।योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे ॥ ५८ ॥
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् ।गदया पुरुषव्याघ्र हेमपट्टविनद्धया ॥ ५९ ॥
गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय ।गदया वो हनिष्यामि सर्वानेव समागतान् ।गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह ॥ ६० ॥
« »