Click on words to see what they mean.

संजय उवाच ।गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत ।वध्यमाने बले चैव भीमसेनेन संयुगे ॥ १ ॥
चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम् ।दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम् ॥ २ ॥
समेत्य समरे राजन्हतशेषाः सुतास्तव ।अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव ।सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन् ॥ ३ ॥
दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः ।इत्येते सहिता भूत्वा तव पुत्राः समन्ततः ।भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम् ॥ ४ ॥
ततो भीमो महाराज स्वरथं पुनरास्थितः ।मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु ॥ ५ ॥
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे ।भीमसेनमपासेधन्प्रवणादिव कुञ्जरम् ॥ ६ ॥
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह ।क्षुरप्रेण प्रमथ्याशु पातयामास भूतले ॥ ७ ॥
ततोऽपरेण भल्लेन सर्वावरणभेदिना ।श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः ॥ ८ ॥
जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव ।पातयामास कौरव्यं रथोपस्थादरिंदमः ।स पपात रथाद्राजन्भूमौ तूर्णं ममार च ॥ ९ ॥
श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष ।शतेन गृध्रवाजानां शराणां नतपर्वणाम् ॥ १० ॥
ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम् ।त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः ॥ ११ ॥
ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः ।वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः ॥ १२ ॥
ततोऽपरेण तीक्ष्णेन नाराचेन परंतपः ।दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे ॥ १३ ॥
स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः ।गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः ॥ १४ ॥
दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव ।एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे ।तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ ॥ १५ ॥
ततो यतन्तमपरमभिवीक्ष्य सुतं तव ।भल्लेन युधि विव्याध भीमो दुर्विषहं रणे ।स पपात हतो वाहात्पश्यतां सर्वधन्विनाम् ॥ १६ ॥
दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे ।अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात् ॥ १७ ॥
विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम् ।विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून् ॥ १८ ॥
स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे ।अथैनं छिन्नधन्वानं विंशत्या समवाकिरत् ॥ १९ ॥
ततोऽन्यद्धनुरादाय भीमसेनो महारथः ।अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २० ॥
महदासीत्तयोर्युद्धं चित्ररूपं भयानकम् ।यादृशं समरे पूर्वं जम्भवासवयोरभूत् ॥ २१ ॥
तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः ।समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा ॥ २२ ॥
ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः ।भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत् ॥ २३ ॥
सोऽतिविद्धो महाराज तव पुत्रेण धन्विना ।भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः ॥ २४ ॥
ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष ।सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम् ॥ २५ ॥
विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः ।अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम् ॥ २६ ॥
श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी ।अथास्याददतः खड्गं शतचन्द्रं च भानुमत् ।क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः ॥ २७ ॥
छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः ।पपात कायः स रथाद्वसुधामनुनादयन् ॥ २८ ॥
तस्मिन्निपतिते वीरे तावका भयमोहिताः ।अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः ॥ २९ ॥
तानापतत एवाशु हतशेषाद्बलार्णवात् ।दंशितः प्रतिजग्राह भीमसेनः प्रतापवान् ।ते तु तं वै समासाद्य परिवव्रुः समन्ततः ॥ ३० ॥
ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः ।पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान् ॥ ३१ ॥
ततः पञ्चशतान्हत्वा सवरूथान्महारथान् ।जघान कुञ्जरानीकं पुनः सप्तशतं युधि ॥ ३२ ॥
हत्वा दश सहस्राणि पत्तीनां परमेषुभिः ।वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते ॥ ३३ ॥
भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव ।मेने कृतार्थमात्मानं सफलं जन्म च प्रभो ॥ ३४ ॥
तं तथा युध्यमानं च विनिघ्नन्तं च तावकान् ।ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत ॥ ३५ ॥
विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान् ।दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान् ॥ ३६ ॥
हतभूयिष्ठयोधा तु तव सेना विशां पते ।किंचिच्छेषा महाराज कृपणा समपद्यत ॥ ३७ ॥
« »