Click on words to see what they mean.

संजय उवाच ।दुर्योधनो महाराज सुदर्शश्चापि ते सुतः ।हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ ॥ १ ॥
ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम् ।उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम् ॥ २ ॥
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः ।गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः ॥ ३ ॥
परिश्रान्तश्च नकुलः सहदेवश्च भारत ।योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान् ॥ ४ ॥
सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः ।कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः ॥ ५ ॥
असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः ।दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः ॥ ६ ॥
असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः ।छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः ॥ ७ ॥
प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः ।एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि ॥ ८ ॥
गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम ।यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम् ॥ ९ ॥
यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति ।परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी ॥ १० ॥
तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः ।जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत् ॥ ११ ॥
निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः ।ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः ॥ १२ ॥
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत् ।धृतराष्ट्रसुताः सर्वे हता भीमेन मानद ।यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः ॥ १३ ॥
हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः ।मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः ॥ १४ ॥
हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च ।रथानां तु शते शिष्टे द्वे एव तु जनार्दन ।दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः ॥ १५ ॥
अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा ।उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः ॥ १६ ॥
एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव ।मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित् ॥ १७ ॥
तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम् ।अद्याह्ना हि महाराजो हतामित्रो भविष्यति ॥ १८ ॥
न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये ।ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः ।तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः ॥ १९ ॥
अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम् ।अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः ॥ २० ॥
निकृत्या वै दुराचारो यानि रत्नानि सौबलः ।सभायामहरद्द्यूते पुनस्तान्याहराम्यहम् ॥ २१ ॥
अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः ।श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि ॥ २२ ॥
समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति ।अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति ॥ २३ ॥
नापयाति भयात्कृष्ण संग्रामाद्यदि चेन्मम ।निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम् ॥ २४ ॥
मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम ।सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम् ॥ २५ ॥
एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना ।अचोदयद्धयान्राजन्दुर्योधनबलं प्रति ॥ २६ ॥
तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः ।भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष ।प्रययुः सिंहनादेन दुर्योधनजिघांसया ॥ २७ ॥
तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान् ।सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः ॥ २८ ॥
सुदर्शनस्तव सुतो भीमसेनं समभ्ययात् ।सुशर्मा शकुनिश्चैव युयुधाते किरीटिना ।सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात् ॥ २९ ॥
ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप ।प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम् ॥ ३० ॥
सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः ।रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन् ॥ ३१ ॥
प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते ।दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत् ॥ ३२ ॥
पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः ।शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह ॥ ३३ ॥
तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः ।पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ ॥ ३४ ॥
ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः ।अर्जुनं वासुदेवं च शरवर्षैरवाकिरन् ॥ ३५ ॥
सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः ।ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः ॥ ३६ ॥
शिलाशितेन च विभो क्षुरप्रेण महायशाः ।शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम् ॥ ३७ ॥
सत्येषुमथ चादत्त योधानां मिषतां ततः ।यथा सिंहो वने राजन्मृगं परिबुभुक्षितः ॥ ३८ ॥
तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः ।विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान् ॥ ३९ ॥
ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम् ।मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति ॥ ४० ॥
तमर्जुनः पृषत्कानां शतेन भरतर्षभ ।पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः ॥ ४१ ॥
ततः शरं समादाय यमदण्डोपमं शितम् ।सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव ॥ ४२ ॥
स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना ।सुशर्माणं समासाद्य बिभेद हृदयं रणे ॥ ४३ ॥
स गतासुर्महाराज पपात धरणीतले ।नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान् ॥ ४४ ॥
सुशर्माणं रणे हत्वा पुत्रानस्य महारथान् ।सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम् ॥ ४५ ॥
ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान् ।अभ्यगाद्भारतीं सेनां हतशेषां महारथः ॥ ४६ ॥
भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप ।सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव ॥ ४७ ॥
ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत् ।क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि ॥ ४८ ॥
तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः ।परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान् ॥ ४९ ॥
ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः ।इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत् ।ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ ॥ ५० ॥
तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः ।भीमसेनं समासाद्य ततोऽयुध्यन्त भारत ।तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः ॥ ५१ ॥
तथैव तावका राजन्पाण्डवेयान्महारथान् ।शरवर्षेण महता समन्तात्पर्यवारयन् ॥ ५२ ॥
व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह ।तावकानां च समरे पाण्डवेयैर्युयुत्सताम् ॥ ५३ ॥
तत्र योधास्तदा पेतुः परस्परसमाहताः ।उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान् ॥ ५४ ॥
« »