Click on words to see what they mean.

संजय उवाच ।अस्यतां यतमानानां शूराणामनिवर्तिनाम् ।संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः ॥ १ ॥
इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः ।विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः ॥ २ ॥
तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना ।संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः ॥ ३ ॥
हतधुर्या रथाः केचिद्धतसूतास्तथापरे ।भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते ॥ ४ ॥
अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः ।अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः ॥ ५ ॥
केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः ।विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः ॥ ६ ॥
बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा ।दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते ॥ ७ ॥
बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः ।निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः ॥ ८ ॥
तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम् ।विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे ॥ ९ ॥
तानपास्य गताः केचित्पुनरेव युयुत्सवः ।कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः ॥ १० ॥
पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम् ।वर्माणि च समारोप्य केचिद्भरतसत्तम ॥ ११ ॥
समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च ।पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन् ॥ १२ ॥
सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते ।आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन् ॥ १३ ॥
ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे ।त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः ॥ १४ ॥
आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः ।पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन् ॥ १५ ॥
धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः ।नाकुलिश्च शतानीको रथानीकमयोधयन् ॥ १६ ॥
पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः ।अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः ॥ १७ ॥
ततस्त्वापततस्तस्य तव पुत्रो जनाधिप ।बाणसंघाननेकान्वै प्रेषयामास भारत ॥ १८ ॥
धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना ।नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः ॥ १९ ॥
सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः ।तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे ।सारथेश्चास्य भल्लेन शिरः कायादपाहरत् ॥ २० ॥
ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः ।अपाक्रामद्धतरथो नातिदूरमरिंदमः ॥ २१ ॥
दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः ।तव पुत्रो महाराज प्रययौ यत्र सौबलः ॥ २२ ॥
ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः ।पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन् ॥ २३ ॥
ते वृताः समरे पञ्च गजानीकेन भारत ।अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव ॥ २४ ॥
ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः ।विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः ॥ २५ ॥
तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः ।नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत् ॥ २६ ॥
तत्रैकबाणनिहतानपश्याम महागजान् ।पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना ॥ २७ ॥
भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः ।करेण गृह्य महतीं गदामभ्यपतद्बली ।अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः ॥ २८ ॥
तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम् ।वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः ।आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे ॥ २९ ॥
गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान् ।धावमानानपश्याम कुञ्जरान्पर्वतोपमान् ॥ ३० ॥
प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः ।पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः ॥ ३१ ॥
तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः ।पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः ॥ ३२ ॥
युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ ।गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः ॥ ३३ ॥
धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम् ।अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते ॥ ३४ ॥
दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान् ।धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः ।पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ ॥ ३५ ॥
अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम् ।अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः ॥ ३६ ॥
अपश्यमाना राजानं वर्तमाने जनक्षये ।मन्वाना निहतं तत्र तव पुत्रं महारथाः ।विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम् ॥ ३७ ॥
आहुः केचिद्धते सूते प्रयातो यत्र सौबलः ।अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः ॥ ३८ ॥
दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति ।युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति ॥ ३९ ॥
ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः ।शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन् ॥ ४० ॥
इदं सर्वं बलं हन्मो येन स्म परिवारिताः ।एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः ॥ ४१ ॥
श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः ।हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम् ॥ ४२ ॥
कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः ।रथानीकं परित्यज्य शूराः सुदृढधन्विनः ॥ ४३ ॥
ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः ।आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान् ॥ ४४ ॥
दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान् ।पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा ।विवर्णमुखभूयिष्ठमभवत्तावकं बलम् ॥ ४५ ॥
परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान् ।राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः ॥ ४६ ॥
आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह ।तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः ॥ ४७ ॥
संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः ।धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान् ।जितास्तेन वयं सर्वे व्यपयाम रणात्ततः ॥ ४८ ॥
अथापश्यं सात्यकिं तमुपायान्तं महारथम् ।रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे ॥ ४९ ॥
धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनः ।पतितो माधवानीकं दुष्कृती नरकं यथा ।तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम् ॥ ५० ॥
सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम् ।जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि ॥ ५१ ॥
ततो मुहूर्तादिव तद्गजानीकमवध्यत ।गदया भीमसेनेन नाराचैरर्जुनेन च ॥ ५२ ॥
प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः ।नातिप्रसिद्धेव गतिः पाण्डवानामजायत ॥ ५३ ॥
रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः ।पाण्डवानां महाराज व्यपकर्षन्महागजान् ॥ ५४ ॥
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।अपश्यन्तो रथानीके दुर्योधनमरिंदमम् ।राजानं मृगयामासुस्तव पुत्रं महारथम् ॥ ५५ ॥
परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः ।राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये ॥ ५६ ॥
« »