Click on words to see what they mean.

संजय उवाच ।तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले ।अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः ॥ १ ॥
स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि ।युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः ।अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः ॥ २ ॥
शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ ।असौ तिष्ठति कौरव्यो रणमध्ये महारथः ॥ ३ ॥
यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम् ।यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः ॥ ४ ॥
यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः ।तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम् ॥ ५ ॥
एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा ।प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप ।सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः ॥ ६ ॥
ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम् ।सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः ॥ ७ ॥
दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते ।कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम् ॥ ८ ॥
जहि राजन्रथानीकमश्वाः सर्वे जिता मया ।नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः ॥ ९ ॥
हते तस्मिन्रथानीके पाण्डवेनाभिपालिते ।गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा ॥ १० ॥
श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः ।जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम् ॥ ११ ॥
सर्वे विवृततूणीराः प्रगृहीतशरासनाः ।शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे ॥ १२ ॥
ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते ।प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः ॥ १३ ॥
तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान् ।उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः ॥ १४ ॥
चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम् ।अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः ॥ १५ ॥
अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन ।वर्तमानस्य महतः समासाद्य परस्परम् ॥ १६ ॥
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम् ।क्षयमद्य गता युद्धे पश्य दैवं यथाविधम् ॥ १७ ॥
समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव ।अस्मानासाद्य संजातं गोष्पदोपममच्युत ॥ १८ ॥
हते भीष्मे च संदध्याच्छिवं स्यादिह माधव ।न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः ॥ १९ ॥
उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव ।तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः ॥ २० ॥
तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले ।न जाने कारणं किं नु येन युद्धमवर्तत ॥ २१ ॥
मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान् ।पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः ॥ २२ ॥
अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे ।राधेये च विकर्णे च नैवाशाम्यत वैशसम् ॥ २३ ॥
अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते ।सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम् ॥ २४ ॥
श्रुतायुषि हते शूरे जलसंधे च पौरवे ।श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम् ॥ २५ ॥
भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन ।आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम् ॥ २६ ॥
जयद्रथे च निहते राक्षसे चाप्यलायुधे ।बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम् ॥ २७ ॥
भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे ।दुःशासने च निहते नैवाशाम्यत वैशसम् ॥ २८ ॥
दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान् ।बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम् ॥ २९ ॥
अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान् ।मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम् ॥ ३० ॥
को नु राजकुले जातः कौरवेयो विशेषतः ।निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात् ॥ ३१ ॥
गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा ।अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम् ॥ ३२ ॥
यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः ।प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम् ॥ ३३ ॥
येन शांतनवो भीष्मो द्रोणो विदुर एव च ।प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम् ॥ ३४ ॥
मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन ।तथा माता हितं वाक्यं भाषमाणा हितैषिणी ।प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः ॥ ३५ ॥
कुलान्तकरणो व्यक्तं जात एष जनार्दन ।तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते ।नैष दास्यति नो राज्यमिति मे मतिरच्युत ॥ ३६ ॥
उक्तोऽहं बहुशस्तात विदुरेण महात्मना ।न जीवन्दास्यते भागं धार्तराष्ट्रः कथंचन ॥ ३७ ॥
यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद ।तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम् ॥ ३८ ॥
न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव ।इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः ॥ ३९ ॥
तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः ।यदुक्तं वचनं तेन विदुरेण महात्मना ॥ ४० ॥
यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम् ।अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः ॥ ४१ ॥
उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने ।एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति ॥ ४२ ॥
तदिदं वचनं तेषां निरुक्तं वै जनार्दन ।क्षयं याता हि राजानो दुर्योधनकृते भृशम् ॥ ४३ ॥
सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव ।क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते ॥ ४४ ॥
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति ।तदन्तं हि भवेद्वैरमनुमानेन माधव ॥ ४५ ॥
एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया ।विदुरस्य च वाक्येन चेष्टया च दुरात्मनः ॥ ४६ ॥
संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः ।दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे ॥ ४७ ॥
क्षेममद्य करिष्यामि धर्मराजस्य माधव ।हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः ॥ ४८ ॥
संजय उवाच ।अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना ।तद्बलौघममित्राणामभीतः प्राविशद्रणे ॥ ४९ ॥
शरासनवरं घोरं शक्तिकण्टकसंवृतम् ।गदापरिघपन्थानं रथनागमहाद्रुमम् ॥ ५० ॥
हयपत्तिलताकीर्णं गाहमानो महायशाः ।व्यचरत्तत्र गोविन्दो रथेनातिपताकिना ॥ ५१ ॥
ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे ।दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः ॥ ५२ ॥
ततः प्रायाद्रथेनाजौ सव्यसाची परंतपः ।किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ ५३ ॥
प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम् ।इषुभिश्छाद्यमानानां समरे सव्यसाचिना ॥ ५४ ॥
असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि ।इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः ॥ ५५ ॥
नरान्नागान्समाहत्य हयांश्चापि विशां पते ।अपतन्त रणे बाणाः पतंगा इव घोषिणः ॥ ५६ ॥
आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः ।न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा ॥ ५७ ॥
सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः ।रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः ॥ ५८ ॥
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः ।समासीदन्त कौरव्या वध्यमानाः शितैः शरैः ॥ ५९ ॥
शरचापधरः पार्थः प्रज्वलन्निव भारत ।ददाह समरे योधान्कक्षमग्निरिव ज्वलन् ॥ ६० ॥
यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत्कृष्णगतिः सघोषः ।भूरिद्रुमं शुष्कलतावितानं भृशं समृद्धो ज्वलनः प्रतापी ॥ ६१ ॥
एवं स नाराचगणप्रतापी शरार्चिरुच्चावचतिग्मतेजाः ।ददाह सर्वां तव पुत्रसेनाममृष्यमाणस्तरसा तरस्वी ॥ ६२ ॥
तस्येषवः प्राणहराः सुमुक्ता नासज्जन्वै वर्मसु रुक्मपुङ्खाः ।न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा ॥ ६३ ॥
अनेकरूपाकृतिभिर्हि बाणैर्महारथानीकमनुप्रविश्य ।स एव एकस्तव पुत्रसेनां जघान दैत्यानिव वज्रपाणिः ॥ ६४ ॥
« »