Click on words to see what they mean.

संजय उवाच ।तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने ।तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥ १ ॥
तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ २ ॥
संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥ ३ ॥
ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥ ४ ॥
तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह ।यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥ ५ ॥
तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥ ६ ॥
तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥ ७ ॥
स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥ ८ ॥
तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम् ॥ ९ ॥
तौ सिंहाविव नर्दन्तौ धन्विनौ रथिनां वरौ ।अन्योन्यमभ्यधावेतां शस्त्रप्रवरधारिणौ ॥ १० ॥
पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः ।प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥ ११ ॥
नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥ १२ ॥
चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ ।मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥ १३ ॥
चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः ।आकाशे समपश्याम पतंगानिव शीघ्रगान् ॥ १४ ॥
तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ १५ ॥
स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः ।अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥ १६ ॥
ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥ १७ ॥
निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः ।अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥ १८ ॥
तदादाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।आरोप्य च महावीर्यो महाबुद्धिर्महाबलः ॥ १९ ॥
अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥ २० ॥
ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः ।जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥ २१ ॥
ततो राजन्महेष्वासः कृतवर्मा महारथः ।हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् ॥ २२ ॥
रोषेण महताविष्टः शूलमुद्यम्य मारिष ।चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् ॥ २३ ॥
तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः ।चूर्णितं पातयामास मोहयन्निव माधवम् ।ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥ २४ ॥
स युद्धे युयुधानेन हताश्वो हतसारथिः ।कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥ २५ ॥
तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥ २६ ॥
पुत्रस्य तव चात्यर्थं विषादः समपद्यत ।हतसूते हताश्वे च विरथे कृतवर्मणि ॥ २७ ॥
हताश्वं च समालक्ष्य हतसूतमरिंदमम् ।अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम् ॥ २८ ॥
तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥ २९ ॥
शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३० ॥
तत्परे नावबुध्यन्त सैन्येन रजसावृते ।तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥ ३१ ॥
दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात् ।जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥ ३२ ॥
पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम् ।शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥ ३३ ॥
केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष ।असंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥ ३४ ॥
अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः ।यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥ ३५ ॥
तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवाहवे ।अथान्यं रथमास्थाय हार्दिक्यः समपद्यत ॥ ३६ ॥
« »