Click on words to see what they mean.

संजय उवाच ।संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः ।अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद्बलम् ॥ १ ॥
आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् ।दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥ २ ॥
योऽसौ महाभद्रकुलप्रसूतः सुपूजितो धार्तराष्ट्रेण नित्यम् ।सुकल्पितः शास्त्रविनिश्चयज्ञैः सदोपवाह्यः समरेषु राजन् ॥ ३ ॥
तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते ।स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान्समन्तात् ।शितैः पृषत्कैर्विददार चापि महेन्द्रवज्रप्रतिमैः सुघोरैः ॥ ४ ॥
ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमाय ।नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः ॥ ५ ॥
ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेव नागं ददृशुः समन्तात् ।सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे ॥ ६ ॥
संद्राव्यमाणं तु बलं परेषां परीतकल्पं विबभौ समन्तात् ।नैवावतस्थे समरे भृशं भयाद्विमर्दमानं तु परस्परं तदा ॥ ७ ॥
ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन ।दिशश्चतस्रः सहसा प्रधाविता गजेन्द्रवेगं तमपारयन्ती ॥ ८ ॥
दृष्ट्वा च तां वेगवता प्रभग्नां सर्वे त्वदीया युधि योधमुख्याः ।अपूजयंस्तत्र नराधिपं तं दध्मुश्च शङ्खाञ्शशिसंनिकाशान् ॥ ९ ॥
श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः ।सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो न ममर्ष रोषात् ॥ १० ॥
ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय ।जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥ ११ ॥
तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालराजं युधि राजसिंहः ।तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य ॥ १२ ॥
स तं द्विपं सहसाभ्यापतन्तमविध्यदर्कप्रतिमैः पृषत्कैः ।कर्मारधौतैर्निशितैर्ज्वलद्भिर्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥ १३ ॥
ततोऽपरान्पञ्च शितान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे ।स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे ॥ १४ ॥
तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं च निगृह्य शाल्वः ।तोत्त्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य रथं प्रदिश्य ॥ १५ ॥
दृष्ट्वापतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव ।गदां प्रगृह्याशु जवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः ॥ १६ ॥
स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य ।उत्क्षिप्य हस्तेन तदा महाद्विपो विपोथयामास वसुंधरातले ॥ १७ ॥
पाञ्चालराजस्य सुतं स दृष्ट्वा तदार्दितं नागवरेण तेन ।तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता ॥ १८ ॥
शरैश्च वेगं सहसा निगृह्य तस्याभितोऽभ्यापततो गजस्य ।स संगृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च संख्ये ॥ १९ ॥
ततः पृषत्कान्प्रववर्ष राजा सूर्यो यथा रश्मिजालं समन्तात् ।तेनाशुगैर्वध्यमाना रथौघाः प्रदुद्रुवुस्तत्र ततस्तु सर्वे ॥ २० ॥
तत्कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चालमत्स्या नृप सृञ्जयाश्च ।हाहाकारैर्नादयन्तः स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥ २१ ॥
पाञ्चालराजस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् ।असंभ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् ॥ २२ ॥
ततोऽथ नागं धरणीधराभं मदं स्रवन्तं जलदप्रकाशम् ।गदां समाविध्य भृशं जघान पाञ्चालराजस्य सुतस्तरस्वी ॥ २३ ॥
स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् ।पपात नागो धरणीधराभः क्षितिप्रकम्पाच्चलितो यथाद्रिः ॥ २४ ॥
निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये ।स शाल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन ॥ २५ ॥
हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा ।यथाद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन ॥ २६ ॥
« »