Click on words to see what they mean.

संजय उवाच ।पतितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् ।आदाय तरसा राजंस्तस्थौ गिरिरिवाचलः ॥ १ ॥
तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् ।सशृङ्गमिव कैलासं सवज्रमिव वासवम् ॥ २ ॥
सशूलमिव हर्यक्षं वने मत्तमिव द्विपम् ।जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ ३ ॥
ततः शङ्खप्रणादश्च तूर्याणां च सहस्रशः ।सिंहनादश्च संजज्ञे शूराणां हर्षवर्धनः ॥ ४ ॥
प्रेक्षन्तः सर्वतस्तौ हि योधा योधमहाद्विपौ ।तावकाश्च परे चैव साधु साध्वित्यथाब्रुवन् ॥ ५ ॥
न हि मद्राधिपादन्यो रामाद्वा यदुनन्दनात् ।सोढुमुत्सहते वेगं भीमसेनस्य संयुगे ॥ ६ ॥
तथा मद्राधिपस्यापि गदावेगं महात्मनः ।सोढुमुत्सहते नान्यो योधो युधि वृकोदरात् ॥ ७ ॥
तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः ।आवल्गितौ गदाहस्तौ मद्रराजवृकोदरौ ॥ ८ ॥
मण्डलावर्तमार्गेषु गदाविहरणेषु च ।निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः ॥ ९ ॥
तप्तहेममयैः शुभ्रैर्बभूव भयवर्धनी ।अग्निज्वालैरिवाविद्धा पट्टैः शल्यस्य सा गदा ॥ १० ॥
तथैव चरतो मार्गान्मण्डलेषु महात्मनः ।विद्युदभ्रप्रतीकाशा भीमस्य शुशुभे गदा ॥ ११ ॥
ताडिता मद्रराजेन भीमस्य गदया गदा ।दीप्यमानेव वै राजन्ससृजे पावकार्चिषः ॥ १२ ॥
तथा भीमेन शल्यस्य ताडिता गदया गदा ।अङ्गारवर्षं मुमुचे तदद्भुतमिवाभवत् ॥ १३ ॥
दन्तैरिव महानागौ शृङ्गैरिव महर्षभौ ।तोत्त्रैरिव तदान्योन्यं गदाग्राभ्यां निजघ्नतुः ॥ १४ ॥
तौ गदानिहतैर्गात्रैः क्षणेन रुधिरोक्षितौ ।प्रेक्षणीयतरावास्तां पुष्पिताविव किंशुकौ ॥ १५ ॥
गदया मद्रराजेन सव्यदक्षिणमाहतः ।भीमसेनो महाबाहुर्न चचालाचलो यथा ॥ १६ ॥
तथा भीमगदावेगैस्ताड्यमानो मुहुर्मुहुः ।शल्यो न विव्यथे राजन्दन्तिनेवाहतो गिरिः ॥ १७ ॥
शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।गदानिपातसंह्रादो वज्रयोरिव निस्वनः ॥ १८ ॥
निवृत्य तु महावीर्यौ समुच्छ्रितगदावुभौ ।पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ १९ ॥
अथाभ्येत्य पदान्यष्टौ संनिपातोऽभवत्तयोः ।उद्यम्य लोहदण्डाभ्यामतिमानुषकर्मणोः ॥ २० ॥
प्रार्थयानौ तदान्योऽन्यं मण्डलानि विचेरतुः ।क्रियाविशेषं कृतिनौ दर्शयामासतुस्तदा ॥ २१ ॥
अथोद्यम्य गदे घोरे सशृङ्गाविव पर्वतौ ।तावाजघ्नतुरन्योन्यं यथा भूमिचलेऽचलौ ॥ २२ ॥
तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ ।युगपत्पेततुर्वीरावुभाविन्द्रध्वजाविव ॥ २३ ॥
उभयोः सेनयोर्वीरास्तदा हाहाकृतोऽभवन् ।भृशं मर्मण्यभिहतावुभावास्तां सुविह्वलौ ॥ २४ ॥
ततः सगदमारोप्य मद्राणामृषभं रथे ।अपोवाह कृपः शल्यं तूर्णमायोधनादपि ॥ २५ ॥
क्षीबवद्विह्वलत्वात्तु निमेषात्पुनरुत्थितः ।भीमसेनो गदापाणिः समाह्वयत मद्रपम् ॥ २६ ॥
ततस्तु तावकाः शूरा नानाशस्त्रसमायुताः ।नानावादित्रशब्देन पाण्डुसेनामयोधयन् ॥ २७ ॥
भुजावुच्छ्रित्य शस्त्रं च शब्देन महता ततः ।अभ्यद्रवन्महाराज दुर्योधनपुरोगमाः ॥ २८ ॥
तदनीकमभिप्रेक्ष्य ततस्ते पाण्डुनन्दनाः ।प्रययुः सिंहनादेन दुर्योधनवधेप्सया ॥ २९ ॥
तेषामापततां तूर्णं पुत्रस्ते भरतर्षभ ।प्रासेन चेकितानं वै विव्याध हृदये भृशम् ॥ ३० ॥
स पपात रथोपस्थे तव पुत्रेण ताडितः ।रुधिरौघपरिक्लिन्नः प्रविश्य विपुलं तमः ॥ ३१ ॥
चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः ।प्रसक्तमभ्यवर्षन्त शरवर्षाणि भागशः ॥ ३२ ॥
तावकानामनीकेषु पाण्डवा जितकाशिनः ।व्यचरन्त महाराज प्रेक्षणीयाः समन्ततः ॥ ३३ ॥
कृपश्च कृतवर्मा च सौबलश्च महाबलः ।अयोधयन्धर्मराजं मद्रराजपुरस्कृताः ॥ ३४ ॥
भारद्वाजस्य हन्तारं भूरिवीर्यपराक्रमम् ।दुर्योधनो महाराज धृष्टद्युम्नमयोधयत् ॥ ३५ ॥
त्रिसाहस्रा रथा राजंस्तव पुत्रेण चोदिताः ।अयोधयन्त विजयं द्रोणपुत्रपुरस्कृताः ॥ ३६ ॥
विजये धृतसंकल्पाः समभित्यक्तजीविताः ।प्राविशंस्तावका राजन्हंसा इव महत्सरः ॥ ३७ ॥
ततो युद्धमभूद्घोरं परस्परवधैषिणाम् ।अन्योन्यवधसंयुक्तमन्योन्यप्रीतिवर्धनम् ॥ ३८ ॥
तस्मिन्प्रवृत्ते संग्रामे राजन्वीरवरक्षये ।अनिलेनेरितं घोरमुत्तस्थौ पार्थिवं रजः ॥ ३९ ॥
श्रवणान्नामधेयानां पाण्डवानां च कीर्तनात् ।परस्परं विजानीमो ये चायुध्यन्नभीतवत् ॥ ४० ॥
तद्रजः पुरुषव्याघ्र शोणितेन प्रशामितम् ।दिशश्च विमला जज्ञुस्तस्मिन्रजसि शामिते ॥ ४१ ॥
तथा प्रवृत्ते संग्रामे घोररूपे भयानके ।तावकानां परेषां च नासीत्कश्चित्पराङ्मुखः ॥ ४२ ॥
ब्रह्मलोकपरा भूत्वा प्रार्थयन्तो जयं युधि ।सुयुद्धेन पराक्रान्ता नराः स्वर्गमभीप्सवः ॥ ४३ ॥
भर्तृपिण्डविमोक्षार्थं भर्तृकार्यविनिश्चिताः ।स्वर्गसंसक्तमनसो योधा युयुधिरे तदा ॥ ४४ ॥
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।अन्योन्यमभिगर्जन्तः प्रहरन्तः परस्परम् ॥ ४५ ॥
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत ।इति स्म वाचः श्रूयन्ते तव तेषां च वै बले ॥ ४६ ॥
ततः शल्यो महाराज धर्मराजं युधिष्ठिरम् ।विव्याध निशितैर्बाणैर्हन्तुकामो महारथम् ॥ ४७ ॥
तस्य पार्थो महाराज नाराचान्वै चतुर्दश ।मर्माण्युद्दिश्य मर्मज्ञो निचखान हसन्निव ॥ ४८ ॥
तं वार्य पाण्डवं बाणैर्हन्तुकामो महायशाः ।विव्याध समरे क्रुद्धो बहुभिः कङ्कपत्रिभिः ॥ ४९ ॥
अथ भूयो महाराज शरेण नतपर्वणा ।युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः ॥ ५० ॥
धर्मराजोऽपि संक्रुद्धो मद्रराजं महायशाः ।विव्याध निशितैर्बाणैः कङ्कबर्हिणवाजितैः ॥ ५१ ॥
चन्द्रसेनं च सप्तत्या सूतं च नवभिः शरैः ।द्रुमसेनं चतुःषष्ट्या निजघान महारथः ॥ ५२ ॥
चक्ररक्षे हते शल्यः पाण्डवेन महात्मना ।निजघान ततो राजंश्चेदीन्वै पञ्चविंशतिम् ॥ ५३ ॥
सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः ।माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः ॥ ५४ ॥
एवं विचरतस्तस्य संग्रामे राजसत्तम ।संप्रेषयच्छितान्पार्थः शरानाशीविषोपमान् ॥ ५५ ॥
ध्वजाग्रं चास्य समरे कुन्तीपुत्रो युधिष्ठिरः ।प्रमुखे वर्तमानस्य भल्लेनापहरद्रथात् ॥ ५६ ॥
पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना ।निपतन्तमपश्याम गिरिशृङ्गमिवाहतम् ॥ ५७ ॥
ध्वजं निपतितं दृष्ट्वा पाण्डवं च व्यवस्थितम् ।संक्रुद्धो मद्रराजोऽभूच्छरवर्षं मुमोच ह ॥ ५८ ॥
शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।अभ्यवर्षदमेयात्मा क्षत्रियं क्षत्रियर्षभः ॥ ५९ ॥
सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ ।एकैकं पञ्चभिर्विद्ध्वा युधिष्ठिरमपीडयत् ॥ ६० ॥
ततो बाणमयं जालं विततं पाण्डवोरसि ।अपश्याम महाराज मेघजालमिवोद्गतम् ॥ ६१ ॥
तस्य शल्यो रणे क्रुद्धो बाणैः संनतपर्वभिः ।दिशः प्रच्छादयामास प्रदिशश्च महारथः ॥ ६२ ॥
ततो युधिष्ठिरो राजा बाणजालेन पीडितः ।बभूव हृतविक्रान्तो जम्भो वृत्रहणा यथा ॥ ६३ ॥
« »