Click on words to see what they mean.

संजय उवाच ।पीडिते धर्मराजे तु मद्रराजेन मारिष ।सात्यकिर्भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।परिवार्य रथैः शल्यं पीडयामासुराहवे ॥ १ ॥
तमेकं बहुभिर्दृष्ट्वा पीड्यमानं महारथैः ।साधुवादो महाञ्जज्ञे सिद्धाश्चासन्प्रहर्षिताः ।आश्चर्यमित्यभाषन्त मुनयश्चापि संगताः ॥ २ ॥
भीमसेनो रणे शल्यं शल्यभूतं पराक्रमे ।एकेन विद्ध्वा बाणेन पुनर्विव्याध सप्तभिः ॥ ३ ॥
सात्यकिश्च शतेनैनं धर्मपुत्रपरीप्सया ।मद्रेश्वरमवाकीर्य सिंहनादमथानदत् ॥ ४ ॥
नकुलः पञ्चभिश्चैनं सहदेवश्च सप्तभिः ।विद्ध्वा तं तु ततस्तूर्णं पुनर्विव्याध सप्तभिः ॥ ५ ॥
स तु शूरो रणे यत्तः पीडितस्तैर्महारथैः ।विकृष्य कार्मुकं घोरं वेगघ्नं भारसाधनम् ॥ ६ ॥
सात्यकिं पञ्चविंशत्या शल्यो विव्याध मारिष ।भीमसेनं त्रिसप्तत्या नकुलं सप्तभिस्तथा ॥ ७ ॥
ततः सविशिखं चापं सहदेवस्य धन्विनः ।छित्त्वा भल्लेन समरे विव्याधैनं त्रिसप्तभिः ॥ ८ ॥
सहदेवस्तु समरे मातुलं भूरिवर्चसम् ।सज्यमन्यद्धनुः कृत्वा पञ्चभिः समताडयत् ।शरैराशीविषाकारैर्ज्वलज्ज्वलनसंनिभैः ॥ ९ ॥
सारथिं चास्य समरे शरेणानतपर्वणा ।विव्याध भृशसंक्रुद्धस्तं च भूयस्त्रिभिः शरैः ॥ १० ॥
भीमसेनस्त्रिसप्तत्या सात्यकिर्नवभिः शरैः ।धर्मराजस्तथा षष्ट्या गात्रे शल्यं समर्पयत् ॥ ११ ॥
ततः शल्यो महाराज निर्विद्धस्तैर्महारथैः ।सुस्राव रुधिरं गात्रैर्गैरिकं पर्वतो यथा ॥ १२ ॥
तांश्च सर्वान्महेष्वासान्पञ्चभिः पञ्चभिः शरैः ।विव्याध तरसा राजंस्तदद्भुतमिवाभवत् ॥ १३ ॥
ततोऽपरेण भल्लेन धर्मपुत्रस्य मारिष ।धनुश्चिच्छेद समरे सज्यं स सुमहारथः ॥ १४ ॥
अथान्यद्धनुरादाय धर्मपुत्रो महारथः ।साश्वसूतध्वजरथं शल्यं प्राच्छादयच्छरैः ॥ १५ ॥
स च्छाद्यमानः समरे धर्मपुत्रस्य सायकैः ।युधिष्ठिरमथाविध्यद्दशभिर्निशितैः शरैः ॥ १६ ॥
सात्यकिस्तु ततः क्रुद्धो धर्मपुत्रे शरार्दिते ।मद्राणामधिपं शूरं शरौघैः समवारयत् ॥ १७ ॥
स सात्यकेः प्रचिच्छेद क्षुरप्रेण महद्धनुः ।भीमसेनमुखांस्तांश्च त्रिभिस्त्रिभिरताडयत् ॥ १८ ॥
तस्य क्रुद्धो महाराज सात्यकिः सत्यविक्रमः ।तोमरं प्रेषयामास स्वर्णदण्डं महाधनम् ॥ १९ ॥
भीमसेनोऽथ नाराचं ज्वलन्तमिव पन्नगम् ।नकुलः समरे शक्तिं सहदेवो गदां शुभाम् ।धर्मराजः शतघ्नीं तु जिघांसुः शल्यमाहवे ॥ २० ॥
तानापतत एवाशु पञ्चानां वै भुजच्युतान् ।सात्यकिप्रहितं शल्यो भल्लैश्चिच्छेद तोमरम् ॥ २१ ॥
भीमेन प्रहितं चापि शरं कनकभूषणम् ।द्विधा चिच्छेद समरे कृतहस्तः प्रतापवान् ॥ २२ ॥
नकुलप्रेषितां शक्तिं हेमदण्डां भयावहाम् ।गदां च सहदेवेन शरौघैः समवारयत् ॥ २३ ॥
शराभ्यां च शतघ्नीं तां राज्ञश्चिच्छेद भारत ।पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च ।नामृष्यत्तं तु शैनेयः शत्रोर्विजयमाहवे ॥ २४ ॥
अथान्यद्धनुरादाय सात्यकिः क्रोधमूर्छितः ।द्वाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च त्रिभिः शरैः ॥ २५ ॥
ततः शल्यो महाराज सर्वांस्तान्दशभिः शरैः ।विव्याध सुभृशं क्रुद्धस्तोत्त्रैरिव महाद्विपान् ॥ २६ ॥
ते वार्यमाणाः समरे मद्रराज्ञा महारथाः ।न शेकुः प्रमुखे स्थातुं तस्य शत्रुनिषूदनाः ॥ २७ ॥
ततो दुर्योधनो राजा दृष्ट्वा शल्यस्य विक्रमम् ।निहतान्पाण्डवान्मेने पाञ्चालानथ सृञ्जयान् ॥ २८ ॥
ततो राजन्महाबाहुर्भीमसेनः प्रतापवान् ।संत्यज्य मनसा प्राणान्मद्राधिपमयोधयत् ॥ २९ ॥
नकुलः सहदेवश्च सात्यकिश्च महारथः ।परिवार्य तदा शल्यं समन्ताद्व्यकिरञ्शरैः ॥ ३० ॥
स चतुर्भिर्महेष्वासैः पाण्डवानां महारथैः ।वृतस्तान्योधयामास मद्रराजः प्रतापवान् ॥ ३१ ॥
तस्य धर्मसुतो राजन्क्षुरप्रेण महाहवे ।चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव ॥ ३२ ॥
तस्मिंस्तु निहते शूरे चक्ररक्षे महारथे ।मद्रराजोऽतिबलवान्सैनिकानास्तृणोच्छरैः ॥ ३३ ॥
समाच्छन्नांस्ततस्तांस्तु राजन्वीक्ष्य स सैनिकान् ।चिन्तयामास समरे धर्मराजो युधिष्ठिरः ॥ ३४ ॥
कथं नु न भवेत्सत्यं तन्माधववचो महत् ।न हि क्रुद्धो रणे राजा क्षपयेत बलं मम ॥ ३५ ॥
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज ।मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः ॥ ३६ ॥
नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम् ।व्यधमत्समरे राजन्महाभ्राणीव मारुतः ॥ ३७ ॥
ततः कनकपुङ्खां तां शल्यक्षिप्तां वियद्गताम् ।शरवृष्टिमपश्याम शलभानामिवाततिम् ॥ ३८ ॥
ते शरा मद्रराजेन प्रेषिता रणमूर्धनि ।संपतन्तः स्म दृश्यन्ते शलभानां व्रजा इव ॥ ३९ ॥
मद्रराजधनुर्मुक्तैः शरैः कनकभूषणैः ।निरन्तरमिवाकाशं संबभूव जनाधिप ॥ ४० ॥
न पाण्डवानां नास्माकं तत्र कश्चिद्व्यदृश्यत ।बाणान्धकारे महति कृते तत्र महाभये ॥ ४१ ॥
मद्रराजेन बलिना लाघवाच्छरवृष्टिभिः ।लोड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम् ।विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः ॥ ४२ ॥
स तु तान्सर्वतो यत्ताञ्शरैः संपीड्य मारिष ।धर्मराजमवच्छाद्य सिंहवद्व्यनदन्मुहुः ॥ ४३ ॥
ते छन्नाः समरे तेन पाण्डवानां महारथाः ।न शेकुस्तं तदा युद्धे प्रत्युद्यातुं महारथम् ॥ ४४ ॥
धर्मराजपुरोगास्तु भीमसेनमुखा रथाः ।न जहुः समरे शूरं शल्यमाहवशोभिनम् ॥ ४५ ॥
« »