Click on words to see what they mean.

संजय उवाच ।अथाब्रवीद्वासुदेवो रथस्थो राधेय दिष्ट्या स्मरसीह धर्मम् ।प्रायेण नीचा व्यसनेषु मग्ना निन्दन्ति दैवं कुकृतं न तत्तत् ॥ १ ॥
यद्द्रौपदीमेकवस्त्रां सभायामानाय्य त्वं चैव सुयोधनश्च ।दुःशासनः शकुनिः सौबलश्च न ते कर्ण प्रत्यभात्तत्र धर्मः ॥ २ ॥
यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् ।अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ॥ ३ ॥
यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् ।सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥ ४ ॥
राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् ।गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ॥ ५ ॥
एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् ।मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनंजयम् ॥ ६ ॥
तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः ।प्रादुरासन्महाराज तदद्भुतमिवाभवत् ॥ ७ ॥
तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम् ।अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ।तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ॥ ८ ॥
ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः ।मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ॥ ९ ॥
वारुणेन ततः कर्णः शमयामास पावकम् ।जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ॥ १० ॥
पाण्डवेयस्त्वसंभ्रान्तो वायव्यास्त्रेण वीर्यवान् ।अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः ॥ ११ ॥
तं हस्तिकक्ष्याप्रवरं च बाणैः सुवर्णमुक्तामणिवज्रमृष्टम् ।कालप्रयत्नोत्तमशिल्पियत्नैः कृतं सुरूपं वितमस्कमुच्चैः ॥ १२ ॥
ऊर्जस्करं तव सैन्यस्य नित्यममित्रवित्रासनमीड्यरूपम् ।विख्यातमादित्यसमस्य लोके त्विषा समं पावकभानुचन्द्रैः ॥ १३ ॥
ततः क्षुरेणाधिरथेः किरीटी सुवर्णपुङ्खेन शितेन यत्तः ।श्रिया ज्वलन्तं ध्वजमुन्ममाथ महारथस्याधिरथेर्महात्मा ॥ १४ ॥
यशश्च धर्मश्च जयश्च मारिष प्रियाणि सर्वाणि च तेन केतुना ।तदा कुरूणां हृदयानि चापतन्बभूव हाहेति च निस्वनो महान् ॥ १५ ॥
अथ त्वरन्कर्णवधाय पाण्डवो महेन्द्रवज्रानलदण्डसंनिभम् ।आदत्त पार्थोऽञ्जलिकं निषङ्गात्सहस्ररश्मेरिव रश्मिमुत्तमम् ॥ १६ ॥
मर्मच्छिदं शोणितमांसदिग्धं वैश्वानरार्कप्रतिमं महार्हम् ।नराश्वनागासुहरं त्र्यरत्निं षड्वाजमञ्जोगतिमुग्रवेगम् ॥ १७ ॥
सहस्रनेत्राशनितुल्यतेजसं समानक्रव्यादमिवातिदुःसहम् ।पिनाकनारायणचक्रसंनिभं भयंकरं प्राणभृतां विनाशनम् ॥ १८ ॥
युक्त्वा महास्त्रेण परेण मन्त्रविद्विकृष्य गाण्डीवमुवाच सस्वनम् ।अयं महास्त्रोऽप्रतिमो धृतः शरः शरीरभिच्चासुहरश्च दुर्हृदः ॥ १९ ॥
तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदिष्टं सुहृदां तथा श्रुतम् ।अनेन सत्येन निहन्त्वयं शरः सुदंशितः कर्णमरिं ममाजितः ॥ २० ॥
इत्यूचिवांस्तं स मुमोच बाणं धनंजयः कर्णवधाय घोरम् ।कृत्यामथर्वाङ्गिरसीमिवोग्रां दीप्तामसह्यां युधि मृत्युनापि ॥ २१ ॥
ब्रुवन्किरीटी तमतिप्रहृष्टो अयं शरो मे विजयावहोऽस्तु ।जिघांसुरर्केन्दुसमप्रभावः कर्णं समाप्तिं नयतां यमाय ॥ २२ ॥
तेनेषुवर्येण किरीटमाली प्रहृष्टरूपो विजयावहेन ।जिघांसुरर्केन्दुसमप्रभेण चक्रे विषक्तं रिपुमाततायी ॥ २३ ॥
तदुद्यतादित्यसमानवर्चसं शरन्नभोमध्यगभास्करोपमम् ।वराङ्गमुर्व्यामपतच्चमूपतेर्दिवाकरोऽस्तादिव रक्तमण्डलः ॥ २४ ॥
तदस्य देही सततं सुखोदितं स्वरूपमत्यर्थमुदारकर्मणः ।परेण कृच्छ्रेण शरीरमत्यजद्गृहं महर्द्धीव ससङ्गमीश्वरः ॥ २५ ॥
शरैर्विभुग्नं व्यसु तद्विवर्मणः पपात कर्णस्य शरीरमुच्छ्रितम् ।स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं शिरस्तथा ॥ २६ ॥
देहात्तु कर्णस्य निपातितस्य तेजो दीप्तं खं विगाह्याचिरेण ।तदद्भुतं सर्वमनुष्ययोधाः पश्यन्ति राजन्निहते स्म कर्णे ॥ २७ ॥
तं सोमकाः प्रेक्ष्य हतं शयानं प्रीता नादं सह सैन्यैरकुर्वन् ।तूर्याणि चाजघ्नुरतीव हृष्टा वासांसि चैवादुधुवुर्भुजांश्च ।बलान्विताश्चाप्यपरे ह्यनृत्यन्नन्योन्यमाश्लिष्य नदन्त ऊचुः ॥ २८ ॥
दृष्ट्वा तु कर्णं भुवि निष्टनन्तं हतं रथात्सायकेनावभिन्नम् ।महानिलेनाग्निमिवापविद्धं यज्ञावसाने शयने निशान्ते ॥ २९ ॥
शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः ।विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥ ३० ॥
प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः ।बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥ ३१ ॥
अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति ।एवं जीवितमादाय कर्णस्येषुर्जगाम ह ॥ ३२ ॥
अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष ।छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ ३३ ॥
उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा ।शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ॥ ३४ ॥
संजय उवाच ।कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।दृष्ट्वा शयानं भुवि मद्रराजश्छिन्नध्वजेनापययौ रथेन ॥ ३५ ॥
कर्णे हते कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च संख्ये ।अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम् ॥ ३६ ॥
सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम् ।सहस्ररश्मिर्दिनसंक्षये यथा तथापतत्तस्य शिरो वसुंधराम् ॥ ३७ ॥
« »