Click on words to see what they mean.

संजय उवाच ।शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः ।दुर्योधनं यान्तमवेक्षमाणो संदर्शयद्भारत युद्धभूमिम् ॥ १ ॥
निपातितस्यन्दनवाजिनागं दृष्ट्वा बलं तद्धतसूतपुत्रम् ।दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्न्यश्वसदार्तरूपः ॥ २ ॥
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।यदृच्छया सूर्यमिवावनिस्थं दिदृक्षवः संपरिवार्य तस्थुः ॥ ३ ॥
प्रहृष्टवित्रस्तविषण्णविस्मृतास्तथापरे शोकगता इवाभवन् ।परे त्वदीयाश्च परस्परेण यथा यथैषां प्रकृतिस्तथाभवन् ॥ ४ ॥
प्रविद्धवर्माभरणाम्बरायुधं धनंजयेनाभिहतं हतौजसम् ।निशम्य कर्णं कुरवः प्रदुद्रुवुर्हतर्षभा गाव इवाकुलाकुलाः ॥ ५ ॥
कृत्वा विमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् ।दृष्ट्वा शयानं भुवि मद्रराजो भीतोऽपसर्पत्सरथः सुशीघ्रम् ॥ ६ ॥
मद्राधिपश्चापि विमूढचेतास्तूर्णं रथेनापहृतध्वजेन ।दुर्योधनस्यान्तिकमेत्य शीघ्रं संभाष्य दुःखार्तमुवाच वाक्यम् ॥ ७ ॥
विशीर्णनागाश्वरथप्रवीरं बलं त्वदियं यमराष्ट्रकल्पम् ।अन्योन्यमासाद्य हतं महद्भिर्नराश्वनागैर्गिरिकूटकल्पैः ॥ ८ ॥
नैतादृशं भारत युद्धमासीद्यथाद्य कर्णार्जुनयोर्बभूव ।ग्रस्तौ हि कर्णेन समेत्य कृष्णावन्ये च सर्वे तव शत्रवो ये ॥ ९ ॥
दैवं तु यत्तत्स्ववशं प्रवृत्तं तत्पाण्डवान्पाति हिनस्ति चास्मान् ।तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥ १० ॥
कुबेरवैवस्वतवासवानां तुल्यप्रभावाम्बुपतेश्च वीराः ।वीर्येण शौर्येण बलेन चैव तैस्तैश्च युक्ता विपुलैर्गुणौघैः ॥ ११ ॥
अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः ।तन्मा शुचो भारत दिष्टमेतत्पर्यायसिद्धिर्न सदास्ति सिद्धिः ॥ १२ ॥
एतद्वचो मद्रपतेर्निशम्य स्वं चापनीतं मनसा निरीक्ष्य ।दुर्योधनो दीनमना विसंज्ञः पुनः पुनर्न्यश्वसदार्तरूपः ॥ १३ ॥
तं ध्यानमूकं कृपणं भृशार्तमार्तायनिर्दीनमुवाच वाक्यम् ।पश्येदमुग्रं नरवाजिनागैरायोधनं वीरहतैः प्रपन्नम् ॥ १४ ॥
महीधराभैः पतितैर्महागजैः सकृत्प्रविद्धैः शरविद्धमर्मभिः ।तैर्विह्वलद्भिश्च गतासुभिश्च प्रध्वस्तयन्त्रायुधवर्मयोधैः ॥ १५ ॥
वज्रापविद्धैरिव चाचलेन्द्रैर्विभिन्नपाषाणमृगद्रुमौषधैः ।प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेममालै रुधिरौघसंप्लुतैः ॥ १६ ॥
शरावभिन्नैः पतितैश्च वाजिभिः श्वसद्भिरन्यैः क्षतजं वमद्भिः ।दीनैः स्तनद्भिः परिवृत्तनेत्रैर्महीं दशद्भिः कृपणं नदद्भिः ॥ १७ ॥
तथापविद्धैर्गजवाजियोधैर्मन्दासुभिश्चैव गतासुभिश्च ।नराश्वनागैश्च रथैश्च मर्दितैर्मही महावैतरणीव दुर्दृशा ॥ १८ ॥
गजैर्निकृत्तापरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम् ।यशस्विभिर्नागरथाश्वयोधिभिः पदातिभिश्चाभिमुखैर्हतैः परैः ।विशीर्णवर्माभरणाम्बरायुधैर्वृता निशान्तैरिव पावकैर्मही ॥ १९ ॥
शरप्रहाराभिहतैर्महाबलैरवेक्ष्यमाणैः पतितैः सहस्रशः ।प्रनष्टसंज्ञैः पुनरुच्छ्वसद्भिर्मही बभूवानुगतैरिवाग्निभिः ।दिवश्च्युतैर्भूरतिदीप्तिमद्भिर्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ॥ २० ॥
शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागाश्वमनुष्यदेहान् ।प्राणान्निरस्याशु महीमतीयुर्महोरगा वासमिवाभितोऽस्त्रैः ॥ २१ ॥
हतैर्मनुष्याश्वगजैश्च संख्ये शरावभिन्नैश्च रथैर्बभूव ।धनंजयस्याधिरथेश्च मार्गे गजैरगम्या वसुधातिदुर्गा ॥ २२ ॥
रथैर्वरेषून्मथितैश्च योधैः संस्यूतसूताश्ववरायुधध्वजैः ।विशीर्णशस्त्रैर्विनिकृत्तबन्धुरैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥ २३ ॥
विमुक्तयन्त्रैर्निहतैरयस्मयैर्हतानुषङ्गैर्विनिषङ्गबन्धुरैः ।प्रभग्ननीडैर्मणिहेममण्डितैः स्तृता मही द्यौरिव शारदैर्घनैः ॥ २४ ॥
विकृष्यमणैर्जवनैरलंकृतैर्हतेश्वरैराजिरथैः सुकल्पितैः ।मनुष्यमातङ्गरथाश्वराशिभिर्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ॥ २५ ॥
सहेमपट्टाः परिघाः परश्वधाः कडङ्गरायोमुसलानि पट्टिशाः ।पेतुश्च खड्गा विमला विकोशा गदाश्च जाम्बूनदपट्टबद्धाः ॥ २६ ॥
चापानि रुक्माङ्गदभूषणानि शराश्च कार्तस्वरचित्रपुङ्खाः ।ऋष्ट्यश्च पीता विमला विकोशाः प्रासाः सखड्गाः कनकावभासाः ॥ २७ ॥
छत्राणि वालव्यजनानि शङ्खाः स्रजश्च पुष्पोत्तमहेमचित्राः ।कुथाः पताकाम्बरवेष्टिताश्च किरीटमाला मुकुटाश्च शुभ्राः ॥ २८ ॥
प्रकीर्णका विप्रकीर्णाः कुथाश्च प्रधानमुक्तातरलाश्च हाराः ।आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥ २९ ॥
मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोच्चावचमङ्गलानि ।गात्राणि चात्यन्तसुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥ ३० ॥
देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञानि सुखानि चापि ।स्वधर्मनिष्ठां महतीमवाप्य व्याप्तांश्च लोकान्यशसा समीयुः ॥ ३१ ॥
इत्येवमुक्त्वा विरराम शल्यो दुर्योधनः शोकपरीतचेताः ।हा कर्ण हा कर्ण इति ब्रुवाण आर्तो विसंज्ञो भृशमश्रुनेत्रः ॥ ३२ ॥
तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य सह प्रयान्ति ।निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम् ॥ ३३ ॥
नराश्वमातङ्गशरीरजेन रक्तेन सिक्ता रुधिरेण भूमिः ।रक्ताम्बरस्रक्तपनीययोगान्नारी प्रकाशा इव सर्वगम्या ॥ ३४ ॥
प्रच्छन्नरूपा रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमानाः ।नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाश्च सर्वे ॥ ३५ ॥
वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः ।द्रुतं प्रयाताः शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः ॥ ३६ ॥
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शितैः शरैः शोणितदिग्धवाजैः ।शरैश्चिताङ्गो भुवि भाति कर्णो हतोऽपि सन्सूर्य इवांशुमाली ॥ ३७ ॥
कर्णस्य देहं रुधिरावसिक्तं भक्तानुकम्पी भगवान्विवस्वान् ।स्पृष्ट्वा करैर्लोहितरक्तरूपः सिष्णासुरभ्येति परं समुद्रम् ॥ ३८ ॥
इतीव संचिन्त्य सुरर्षिसंघाः संप्रस्थिता यान्ति यथानिकेतम् ।संचिन्तयित्वा च जना विसस्रुर्यथासुखं खं च महीतलं च ॥ ३९ ॥
तदद्भुतं प्राणभृतां भयंकरं निशम्य युद्धं कुरुवीरमुख्ययोः ।धनंजयस्याधिरथेश्च विस्मिताः प्रशंसमानाः प्रययुस्तदा जनाः ॥ ४० ॥
शरैः संकृत्तवर्माणं वीरं विशसने हतम् ।गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ॥ ४१ ॥
नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः ।हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ॥ ४२ ॥
कनकोत्तमसंकाशः प्रदीप्त इव पावकः ।सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ।प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ॥ ४३ ॥
ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः ।सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ॥ ४४ ॥
यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः ।नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥ ४५ ॥
सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः ।आदाय तव पुत्राणां जयाशां शर्म वर्म च ॥ ४६ ॥
हते स्म कर्णे सरितो न स्रवन्ति जगाम चास्तं कलुषो दिवाकरः ।ग्रहश्च तिर्यग्ज्वलितार्कवर्णो यमस्य पुत्रोऽभ्युदियाय राजन् ॥ ४७ ॥
नभः पफालाथ ननाद चोर्वी ववुश्च वाताः परुषातिवेलम् ।दिशः सधूमाश्च भृशं प्रजज्वलुर्महार्णवाश्चुक्षुभिरे च सस्वनाः ॥ ४८ ॥
सकाननाः साद्रिचयाश्चकम्पुः प्रविव्यथुर्भूतगणाश्च मारिष ।बृहस्पती रोहिणीं संप्रपीड्य बभूव चन्द्रार्कसमानवर्णः ॥ ४९ ॥
हते कर्णे न दिशो विप्रजज्ञुस्तमोवृता द्यौर्विचचाल भूमिः ।पपात चोल्का ज्वलनप्रकाशा निशाचराश्चाप्यभवन्प्रहृष्टाः ॥ ५० ॥
शशिप्रकाशाननमर्जुनो यदा क्षुरेण कर्णस्य शिरो न्यपातयत् ।अथान्तरिक्षे दिवि चेह चासकृद्बभूव हाहेति जनस्य निस्वनः ॥ ५१ ॥
स देवगन्धर्वमनुष्यपूजितं निहत्य कर्णं रिपुमाहवेऽर्जुनः ।रराज पार्थः परमेण तेजसा वृत्रं निहत्येव सहस्रलोचनः ॥ ५२ ॥
ततो रथेनाम्बुदवृन्दनादिना शरन्नभोमध्यगभास्करत्विषा ।पताकिना भीमनिनादकेतुना हिमेन्दुशङ्खस्फटिकावभासिना ।सुवर्णमुक्तामणिवज्रविद्रुमैरलंकृतेनाप्रतिमानरंहसा ॥ ५३ ॥
नरोत्तमौ पाण्डवकेशिमर्दनावुदाहितावग्निदिवाकरोपमौ ।रणाजिरे वीतभयौ विरेजतुः समानयानाविव विष्णुवासवौ ॥ ५४ ॥
ततो धनुर्ज्यातलनेमिनिस्वनैः प्रसह्य कृत्वा च रिपून्हतप्रभान् ।संसाधयित्वैव कुरूञ्शरौघैः कपिध्वजः पक्षिवरध्वजश्च ।प्रसह्य शङ्खौ धमतुः सुघोषौ मनांस्यरीणामवसादयन्तौ ॥ ५५ ॥
सुवर्णजालावततौ महास्वनौ हिमावदातौ परिगृह्य पाणिभिः ।चुचुम्बतुः शङ्खवरौ नृणां वरौ वराननाभ्यां युगपच्च दध्मतुः ॥ ५६ ॥
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः ।पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् ॥ ५७ ॥
तौ शङ्खशब्देन निनादयन्तौ वनानि शैलान्सरितो दिशश्च ।वित्रासयन्तौ तव पुत्रसेनां युधिष्ठिरं नन्दयतः स्म वीरौ ॥ ५८ ॥
ततः प्रयाताः कुरवो जवेन श्रुत्वैव शङ्खस्वनमीर्यमाणम् ।विहाय मद्राधिपतिं पतिं च दुर्योधनं भारत भारतानाम् ॥ ५९ ॥
महाहवे तं बहु शोभमानं धनंजयं भूतगणाः समेताः ।तदान्वमोदन्त जनार्दनं च प्रभाकरावभ्युदितौ यथैव ॥ ६० ॥
समाचितौ कर्णशरैः परंतपावुभौ व्यभातां समरेऽच्युतार्जुनौ ।तमो निहत्याभ्युदितौ यथामलौ शशाङ्कसूर्याविव रश्मिमालिनौ ॥ ६१ ॥
विहाय तान्बाणगणानथागतौ सुहृद्वृतावप्रतिमानविक्रमौ ।सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ सदस्यहूताविव वासवाच्युतौ ॥ ६२ ॥
सदेवगन्धर्वमनुष्यचारणैर्महर्षिभिर्यक्षमहोरगैरपि ।जयाभिवृद्ध्या परयाभिपूजितौ निहत्य कर्णं परमाहवे तदा ॥ ६३ ॥
« »