Click on words to see what they mean.

संजय उवाच ।ततोऽपयाताः शरपातमात्रमवस्थिताः कुरवो भिन्नसेनाः ।विद्युत्प्रकाशं ददृशुः समन्ताद्धनंजयास्त्रं समुदीर्यमाणम् ॥ १ ॥
तदर्जुनास्त्रं ग्रसते स्म वीरान्वियत्तथाकाशमनन्तघोषम् ।क्रुद्धेन पार्थेन तदाशु सृष्टं वधाय कर्णस्य महाविमर्दे ॥ २ ॥
रामादुपात्तेन महामहिम्ना आथर्वणेनारिविनाशनेन ।तदर्जुनास्त्रं व्यधमद्दहन्तं पार्थं च बाणैर्निशितैर्निजघ्ने ॥ ३ ॥
ततो विमर्दः सुमहान्बभूव तस्यार्जुनस्याधिरथेश्च राजन् ।अन्योन्यमासादयतोः पृषत्कैर्विषाणघातैर्द्विपयोरिवोग्रैः ॥ ४ ॥
ततो रिपुघ्नं समधत्त कर्णः सुसंशितं सर्पमुखं ज्वलन्तम् ।रौद्रं शरं संयति सुप्रधौतं पार्थार्थमत्यर्थचिराय गुप्तम् ॥ ५ ॥
सदार्चितं चन्दनचूर्णशायिनं सुवर्णनालीशयनं महाविषम् ।प्रदीप्तमैरावतवंशसंभवं शिरो जिहीर्षुर्युधि फल्गुनस्य ॥ ६ ॥
तमब्रवीन्मद्रराजो महात्मा वैकर्तनं प्रेक्ष्य हि संहितेषुम् ।न कर्ण ग्रीवामिषुरेष प्राप्स्यते संलक्ष्य संधत्स्व शरं शिरोघ्नम् ॥ ७ ॥
अथाब्रवीत्क्रोधसंरक्तनेत्रः कर्णः शल्यं संधितेषुः प्रसह्य ।न संधत्ते द्विः शरं शल्य कर्णो न मादृशाः शाठ्ययुक्ता भवन्ति ॥ ८ ॥
तथैवमुक्त्वा विससर्ज तं शरं बलाहकं वर्षघनाभिपूजितम् ।हतोऽसि वै फल्गुन इत्यवोचत्ततस्त्वरन्नूर्जितमुत्ससर्ज ॥ ९ ॥
संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः ।आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ॥ १० ॥
अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः ।ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ॥ ११ ॥
अथार्जुनस्योत्तमगात्रभूषणं धरावियद्द्योसलिलेषु विश्रुतम् ।बलास्त्रसर्गोत्तमयत्नमन्युभिः शरेण मूर्ध्नः स जहार सूतजः ॥ १२ ॥
दिवाकरेन्दुज्वलनग्रहत्विषं सुवर्णमुक्तामणिजालभूषितम् ।पुरंदरार्थं तपसा प्रयत्नतः स्वयं कृतं यद्भुवनस्य सूनुना ॥ १३ ॥
महार्हरूपं द्विषतां भयंकरं विभाति चात्यर्थसुखं सुगन्धि तत् ।निजघ्नुषे देवरिपून्सुरेश्वरः स्वयं ददौ यत्सुमनाः किरीटिने ॥ १४ ॥
हराम्बुपाखण्डलवित्तगोप्तृभिः पिनाकपाशाशनिसायकोत्तमैः ।सुरोत्तमैरप्यविषह्यमर्दितुं प्रसह्य नागेन जहार यद्वृषः ॥ १५ ॥
तदुत्तमेषून्मथितं विषाग्निना प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् ।पपात पार्थस्य किरीटमुत्तमं दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ॥ १६ ॥
ततः किरीटं बहुरत्नमण्डितं जहार नागोऽर्जुनमूर्धतो बलात् ।गिरेः सुजाताङ्कुरपुष्पितद्रुमं महेन्द्रवज्रः शिखरं यथोत्तमम् ॥ १७ ॥
मही वियद्द्यौः सलिलानि वायुना यथा विभिन्नानि विभान्ति भारत ।तथैव शब्दो भुवनेष्वभूत्तदा जना व्यवस्यन्व्यथिताश्च चस्खलुः ॥ १८ ॥
ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितः स्थितोऽर्जुनः ।विभाति संपूर्णमरीचिभास्वता शिरोगतेनोदयपर्वतो यथा ॥ १९ ॥
बलाहकः कर्णभुजेरितस्ततो हुताशनार्कप्रतिमद्युतिर्महान् ।महोरगः कृतवैरोऽर्जुनेन किरीटमासाद्य समुत्पपात ॥ २० ॥
तमब्रवीद्विद्धि कृतागसं मे कृष्णाद्य मातुर्वधजातवैरम् ।ततः कृष्णः पार्थमुवाच संख्ये महोरगं कृतवैरं जहि त्वम् ॥ २१ ॥
स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुषूग्रधन्वा ।उवाच को न्वेष ममाद्य नागः स्वयं य आगाद्गरुडस्य वक्त्रम् ॥ २२ ॥
कृष्ण उवाच ।योऽसौ त्वया खाण्डवे चित्रभानुं संतर्पयानेन धनुर्धरेण ।वियद्गतो बाणनिकृत्तदेहो ह्यनेकरूपो निहतास्य माता ॥ २३ ॥
ततस्तु जिष्णुः परिहृत्य शेषांश्चिच्छेद षड्भिर्निशितैः सुधारैः ।नागं वियत्तिर्यगिवोत्पतन्तं स छिन्नगात्रो निपपात भूमौ ॥ २४ ॥
तस्मिन्मुहूर्ते दशभिः पृषत्कैः शिलाशितैर्बर्हिणवाजितैश्च ।विव्याध कर्णः पुरुषप्रवीरं धनंजयं तिर्यगवेक्षमाणम् ॥ २५ ॥
ततोऽर्जुनो द्वादशभिर्विमुक्तैराकर्णमुक्तैर्निशितैः समर्प्य ।नाराचमाशीविषतुल्यवेगमाकर्णपूर्णायतमुत्ससर्ज ॥ २६ ॥
स चित्रवर्मेषुवरो विदार्य प्राणान्निरस्यन्निव साधु मुक्तः ।कर्णस्य पीत्वा रुधिरं विवेश वसुंधरां शोणितवाजदिग्धः ॥ २७ ॥
ततो वृषो बाणनिपातकोपितो महोरगो दण्डविघट्टितो यथा ।तथाशुकारी व्यसृजच्छरोत्तमान्महाविषः सर्प इवोत्तमं विषम् ॥ २८ ॥
जनार्दनं द्वादशभिः पराभिनन्नवैर्नवत्या च शरैस्तथार्जुनम् ।शरेण घोरेण पुनश्च पाण्डवं विभिद्य कर्णोऽभ्यनदज्जहास च ॥ २९ ॥
तमस्य हर्षं ममृषे न पाण्डवो बिभेद मर्माणि ततोऽस्य मर्मवित् ।परं शरैः पत्रिभिरिन्द्रविक्रमस्तथा यथेन्द्रो बलमोजसाहनत् ॥ ३० ॥
ततः शराणां नवतीर्नवार्जुनः ससर्ज कर्णेऽन्तकदण्डसंनिभाः ।शरैर्भृशायस्ततनुः प्रविव्यथे तथा यथा वज्रविदारितोऽचलः ॥ ३१ ॥
मणिप्रवेकोत्तमवज्रहाटकैरलंकृतं चास्य वराङ्गभूषणम् ।प्रविद्धमुर्व्यां निपपात पत्रिभिर्धनंजयेनोत्तमकुण्डलेऽपि च ॥ ३२ ॥
महाधनं शिल्पिवरैः प्रयत्नतः कृतं यदस्योत्तमवर्म भास्वरम् ।सुदीर्घकालेन तदस्य पाण्डवः क्षणेन बाणैर्बहुधा व्यशातयत् ॥ ३३ ॥
स तं विवर्माणमथोत्तमेषुभिः शरैश्चतुर्भिः कुपितः पराभिनत् ।स विव्यथेऽत्यर्थमरिप्रहारितो यथातुरः पित्तकफानिलव्रणैः ॥ ३४ ॥
महाधनुर्मण्डलनिःसृतैः शितैः क्रियाप्रयत्नप्रहितैर्बलेन च ।ततक्ष कर्णं बहुभिः शरोत्तमैर्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ॥ ३५ ॥
दृढाहतः पत्रिभिरुग्रवेगैः पार्थेन कर्णो विविधैः शिताग्रैः ।बभौ गिरिर्गैरिकधातुरक्तः क्षरन्प्रपातैरिव रक्तमम्भः ॥ ३६ ॥
साश्वं तु कर्णं सरथं किरीटी समाचिनोद्भारत वत्सदन्तैः ।प्रच्छादयामास दिशश्च बाणैः सर्वप्रयत्नात्तपनीयपुङ्खैः ॥ ३७ ॥
स वत्सदन्तैः पृथुपीनवक्षाः समाचितः स्माधिरथिर्विभाति ।सुपुष्पिताशोकपलाशशाल्मलिर्यथाचलः स्पन्दनचन्दनायुतः ॥ ३८ ॥
शरैः शरीरे बहुधा समर्पितैर्विभाति कर्णः समरे विशां पते ।महीरुहैराचितसानुकन्दरो यथा महेन्द्रः शुभकर्णिकारवान् ॥ ३९ ॥
स बाणसंघान्धनुषा व्यवासृजन्विभाति कर्णः शरजालरश्मिवान् ।सलोहितो रक्तगभस्तिमण्डलो दिवाकरोऽस्ताभिमुखो यथा तथा ॥ ४० ॥
बाह्वन्तरादाधिरथेर्विमुक्तान्बाणान्महाहीनिव दीप्यमानान् ।व्यध्वंसयन्नर्जुनबाहुमुक्ताः शराः समासाद्य दिशः शिताग्राः ॥ ४१ ॥
ततश्चक्रमपतत्तस्य भूमौ स विह्वलः समरे सूतपुत्रः ।घूर्णे रथे ब्राह्मणस्याभिशापाद्रामादुपात्तेऽप्रतिभाति चास्त्रे ॥ ४२ ॥
अमृष्यमाणो व्यसनानि तानि हस्तौ विधुन्वन्स विगर्हमाणः ।धर्मप्रधानानभिपाति धर्म इत्यब्रुवन्धर्मविदः सदैव ।ममापि निम्नोऽद्य न पाति भक्तान्मन्ये न नित्यं परिपाति धर्मः ॥ ४३ ॥
एवं ब्रुवन्प्रस्खलिताश्वसूतो विचाल्यमानोऽर्जुनशस्त्रपातैः ।मर्माभिघाताच्छलितः क्रियासु पुनः पुनर्धर्ममगर्हदाजौ ॥ ४४ ॥
ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे ।हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ॥ ४५ ॥
ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् ।इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ॥ ४६ ॥
निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले ।कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ॥ ४७ ॥
बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् ।ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ॥ ४८ ॥
गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनंजयः ।असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ॥ ४९ ॥
ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः ।प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ॥ ५० ॥
तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः ।ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ॥ ५१ ॥
विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् ।ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् ॥ ५२ ॥
छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः ।तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः ॥ ५३ ॥
ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः ।शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ॥ ५४ ॥
तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे ।नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ॥ ५५ ॥
अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः ।चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ॥ ५६ ॥
ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् ।अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ॥ ५७ ॥
ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् ।अश्मसारमयं दिव्यमनुमन्त्र्य धनंजयः ॥ ५८ ॥
रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् ।ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ॥ ५९ ॥
ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् ।सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ॥ ६० ॥
मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम ।पार्थ कापुरुषाचीर्णमभिसंधिं विवर्जय ॥ ६१ ॥
प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ ।शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन ॥ ६२ ॥
अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा ।न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा ।त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् ॥ ६३ ॥
यावच्चक्रमिदं भूमेरुद्धरामि धनंजय ।न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि ।न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ॥ ६४ ॥
त्वं हि क्षत्रियदायादो महाकुलविवर्धनः ।स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ॥ ६५ ॥
« »