Click on words to see what they mean.

संजय उवाच ।हते द्रोणे महेष्वासे तस्मिन्नहनि भारत ।कृते च मोघसंकल्पे द्रोणपुत्रे महारथे ॥ १ ॥
द्रवमाणे महाराज कौरवाणां बले तथा ।व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ॥ २ ॥
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ ।द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥ ३ ॥
स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः ।युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ॥ ४ ॥
लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा ।संध्याकालं समासाद्य प्रत्याहारमकारयत् ॥ ५ ॥
कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् ।कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा ॥ ६ ॥
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च ।वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥ ७ ॥
ततो दुर्योधनो राजा साम्ना परमवल्गुना ।तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥ ८ ॥
मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् ।एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ॥ ९ ॥
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः ।चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥ १० ॥
तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् ।समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ।आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥ ११ ॥
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः ।उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ॥ १२ ॥
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः ।नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥ १३ ॥
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति ।सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥ १४ ॥
ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् ।कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥ १५ ॥
ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा ।प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ॥ १६ ॥
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ।दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ १७ ॥
कर्ण जानामि ते वीर्यं सौहृदं च परं मयि ।तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥ १८ ॥
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते ।भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥ १९ ॥
भीष्मद्रोणावतिरथौ हतौ सेनापती मम ।सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥ २० ॥
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये ।मानितौ च मया वीरौ राधेय वचनात्तव ॥ २१ ॥
पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे ।रक्षितास्तात भीष्मेण दिवसानि दशैव ह ॥ २२ ॥
न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः ।शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ॥ २३ ॥
हते तस्मिन्महाभागे शरतल्पगते तदा ।त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥ २४ ॥
तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे ।स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥ २५ ॥
निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम ।त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥ २६ ॥
भवानेव तु नः शक्तो विजयाय न संशयः ।पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ॥ २७ ॥
स भवान्धुर्यवत्संख्ये धुरमुद्वोढुमर्हसि ।अभिषेचय सेनान्ये स्वयमात्मानमात्मना ॥ २८ ॥
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः ।तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ।जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ॥ २९ ॥
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् ।द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ।तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ॥ ३० ॥
भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः ।भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ॥ ३१ ॥
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा ।व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ॥ ३२ ॥
कर्ण उवाच ।उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ ।जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ॥ ३३ ॥
सेनापतिर्भविष्यामि तवाहं नात्र संशयः ।स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ॥ ३४ ॥
संजय उवाच ।एवमुक्तो महातेजास्ततो दुर्योधनो नृपः ।उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ।सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ॥ ३५ ॥
ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा ।दुर्योधनमुखा राजन्राजानो विजयैषिणः ।शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ॥ ३६ ॥
तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः ।मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥ ३७ ॥
औदुम्बरे समासीनमासने क्षौमसंवृतम् ।शास्त्रदृष्टेन विधिना संभारैश्च सुसंभृतैः ॥ ३८ ॥
जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे ।इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ॥ ३९ ॥
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः ।उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥ ४० ॥
न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः ।कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥ ४१ ॥
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः ।आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ॥ ४२ ॥
अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः ।व्यत्यरिच्यत रूपेण दिवाकर इवापरः ॥ ४३ ॥
सेनापत्येन राधेयमभिषिच्य सुतस्तव ।अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥ ४४ ॥
कर्णोऽपि राजन्संप्राप्य सेनापत्यमरिंदमः ।योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥ ४५ ॥
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत ।देवैरिव यथा स्कन्दः संग्रामे तारकामये ॥ ४६ ॥
« »