Click on words to see what they mean.

जनमेजय उवाच ।श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः ।नरेन्द्रः किंचिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥ १ ॥
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् ।तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥ २ ॥
वैशंपायन उवाच ।श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् ।भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ॥ ३ ॥
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः ।पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥ ४ ॥
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः ।संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥ ५ ॥
महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् ।कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥ ६ ॥
संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः ।नेदमस्तीति संचिन्त्य कर्णस्य निधनं प्रति ॥ ७ ॥
प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् ।शोकाग्निना दह्यमानो धम्यमान इवाशयः ॥ ८ ॥
विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः ।विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥ ९ ॥
धृतराष्ट्र उवाच ।संजयाधिरथो वीरः सिंहद्विरदविक्रमः ।वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ॥ १० ॥
वृषभो वृषभस्येव यो युद्धे न निवर्तते ।शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥ ११ ॥
यस्य ज्यातलशब्देन शरवृष्टिरवेण च ।रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ १२ ॥
यमाश्रित्य महाबाहुं द्विषत्संघघ्नमच्युतम् ।दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ॥ १३ ॥
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे ।निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥ १४ ॥
यो नामन्यत वै नित्यमच्युतं न धनंजयम् ।न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ॥ १५ ॥
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ ।अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥ १६ ॥
इति यः सततं मन्दमवोचल्लोभमोहितम् ।दुर्योधनमपादीनं राज्यकामुकमातुरम् ॥ १७ ॥
यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् ।गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ॥ १८ ॥
पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् ।सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ॥ १९ ॥
वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा ।यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ॥ २० ॥
उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः ।वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥ २१ ॥
यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः ।अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् ॥ २२ ॥
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना ।शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ॥ २३ ॥
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि संजय ।वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥ २४ ॥
ज्ञातिसंबन्धिमित्राणामिमं श्रुत्वा पराजयम् ।को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ॥ २५ ॥
विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे ।न हि शक्ष्यामि दुःखानि सोढुं कष्टानि संजय ॥ २६ ॥
संजय उवाच ।श्रिया कुलेन यशसा तपसा च श्रुतेन च ।त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥ २७ ॥
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव ।पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥ २८ ॥
धृतराष्ट्र उवाच ।दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ॥ २९ ॥
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् ।प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥ ३० ॥
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् ।स कथं निहतः शेते वातरुग्ण इव द्रुमः ॥ ३१ ॥
शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः ।चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ॥ ३२ ॥
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च ।अश्रद्धेयमहं मन्ये वधं कर्णस्य संजय ॥ ३३ ॥
वज्रसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ ३४ ॥
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा ।यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥ ३५ ॥
धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य संजय ।अद्य चाहं दशामेतां गतः संजय गर्हिताम् ।कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥ ३६ ॥
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः ।परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ।दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि संजय ॥ ३७ ॥
तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः ।नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ॥ ३८ ॥
स हि पारं महानासीत्पुत्राणां मम संजय ।युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ॥ ३९ ॥
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।रथादतिरथो नूनमपतत्सायकार्दितः ॥ ४० ॥
पर्वतस्येव शिखरं वज्रपातविदारितम् ।शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ।मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥ ४१ ॥
यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् ।सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥ ४२ ॥
स हि वीरो महेष्वासः पुत्राणामभयंकरः ।शेते विनिहतो वीरः शक्रेणेव यथा बलः ॥ ४३ ॥
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् ।दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ॥ ४४ ॥
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते ।अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥ ४५ ॥
पलायमानः कृपणं दीनात्मा दीनपौरुषः ।कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ॥ ४६ ॥
कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे ।कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ॥ ४७ ॥
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा ।दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥ ४८ ॥
शरतल्पे शयानेन भीष्मेण सुमहात्मना ।पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ॥ ४९ ॥
जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह ।अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥ ५० ॥
प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च ।भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ ५१ ॥
अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः ।तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ॥ ५२ ॥
अहं तु निहतामात्यो हतपुत्रश्च संजय ।द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥ ५३ ॥
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च संजय ।विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥ ५४ ॥
छिन्नपक्षतया तस्य गमनं नोपपद्यते ।तथाहमपि संप्राप्तो लूनपक्ष इव द्विजः ॥ ५५ ॥
क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः ।कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥ ५६ ॥
दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः ।स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ॥ ५७ ॥
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना ।के वीराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥ ५८ ॥
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे ।उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ॥ ५९ ॥
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः ।पातयामास समरे सर्वशस्त्रभृतां वरम् ॥ ६० ॥
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि ।युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ।निहतः खड्गमुद्यम्य धृष्टद्युम्नेन संजय ॥ ६१ ॥
अन्तरेण हतावेतौ छलेन च विशेषतः ।अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥ ६२ ॥
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् ।न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ॥ ६३ ॥
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च ।कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ॥ ६४ ॥
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् ।प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ॥ ६५ ॥
यस्य सर्पमुखो दिव्यः शरः कनकभूषणः ।अशेत निहतः पत्री चन्दनेष्वरिसूदनः ॥ ६६ ॥
भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् ।जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥ ६७ ॥
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः ।सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ॥ ६८ ॥
यश्च नागायुतप्राणं वातरंहसमच्युतम् ।विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ॥ ६९ ॥
सहदेवं च निर्जित्य शरैः संनतपर्वभिः ।कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ॥ ७० ॥
यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् ।घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ॥ ७१ ॥
एतानि दिवसान्यस्य युद्धे भीतो धनंजयः ।नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥ ७२ ॥
रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत ।न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ॥ ७३ ॥
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः ।विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ।जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ॥ ७४ ॥
ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् ।अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ।न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ॥ ७५ ॥
न हन्यामर्जुनं यावत्तावत्पादौ न धावये ।इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥ ७६ ॥
यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः ।त्रयोदश समा निद्रां न लेभे पुरुषर्षभः ॥ ७७ ॥
यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः ।मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥ ७८ ॥
तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् ।दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ॥ ७९ ॥
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् ।अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥ ८० ॥
यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः ।स्वबाहुबलमाश्रित्य मुहूर्तमपि संजय ॥ ८१ ॥
तस्य नाहं वधं मन्ये देवैरपि सवासवैः ।प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ॥ ८२ ॥
न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः ।पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति ॥ ८३ ॥
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः ।न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ॥ ८४ ॥
यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च ।वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् ॥ ८५ ॥
स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् ।दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥ ८६ ॥
हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना ।जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥ ८७ ॥
दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे ।प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ ८८ ॥
पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् ।विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥ ८९ ॥
अनेयश्चाभिमानेन बालबुद्धिरमर्षणः ।हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ॥ ९० ॥
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे ।रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ॥ ९१ ॥
सह गान्धारराजेन सभायां यदभाषत ।कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥ ९२ ॥
द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् ।शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥ ९३ ॥
कृतवर्मा महेष्वासः सात्वतानां महारथः ।कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ॥ ९४ ॥
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते ।धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥ ९५ ॥
युवा रूपेण संपन्नो दर्शनीयो महायशाः ।अश्वत्थामा हते कर्णे किमभाषत संजय ॥ ९६ ॥
आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् ।कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥ ९७ ॥
मद्रराजो महेष्वासः शल्यः समितिशोभनः ।दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ॥ ९८ ॥
ये च केचन राजानः पृथिव्यां योद्धुमागताः ।वैकर्तनं हतं दृष्ट्वा किमभाषन्त संजय ॥ ९९ ॥
कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे ।किं वो मुखमनीकानामासीत्संजय भागशः ॥ १०० ॥
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः ।वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व संजय ॥ १०१ ॥
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे ।वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥ १०२ ॥
के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् ।कथं च वः समेतानां हतः कर्णो महारथः ॥ १०३ ॥
पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् ।सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ॥ १०४ ॥
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा ।व्यर्थः कथं समभवत्तन्ममाचक्ष्व संजय ॥ १०५ ॥
मामकस्यास्य सैन्यस्य हृतोत्सेधस्य संजय ।अवशेषं न पश्यामि ककुदे मृदिते सति ॥ १०६ ॥
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ ।भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥ १०७ ॥
न मृष्यामि च राधेयं हतमाहवशोभिनम् ।यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ १०८ ॥
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह ।संग्रामे नरवीराणां तन्ममाचक्ष्व संजय ॥ १०९ ॥
यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् ।यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ ११० ॥
« »