Click on words to see what they mean.

धृतराष्ट्र उवाच ।सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥ १ ॥
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा ।अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ ।योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥ ३ ॥
महत्यपररात्रे तु तव पुत्रस्य मारिष ।योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥ ४ ॥
नागानां कल्पमानानां रथानां च वरूथिनाम् ।संनह्यतां पदातीनां वाजिनां च विशां पते ॥ ५ ॥
क्रोशतां चापि योधानां त्वरितानां परस्परम् ।बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥ ६ ॥
ततः श्वेतपताकेन बालार्काकारवाजिना ।हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥ ७ ॥
तूणेन शरपूर्णेन साङ्गदेन वरूथिना ।शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥ ८ ॥
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा ।रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥ ९ ॥
धमन्तं वारिजं तात हेमजालविभूषितम् ।विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥ १० ॥
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥ ११ ॥
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥ १२ ॥
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥ १३ ॥
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः ।प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥ १४ ॥
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥ १५ ॥
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।मध्ये दुर्योधनो राजा बलेन महता वृतः ॥ १६ ॥
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥ १७ ॥
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥ १८ ॥
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः ।महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥ १९ ॥
दक्षिणे तु महाराज सुषेणः सत्यसंगरः ।वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥ २० ॥
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा ।चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥ २१ ॥
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥ २२ ॥
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे ।कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥ २३ ॥
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥ २४ ॥
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः ।सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ।चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥ २५ ॥
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन ।उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥ २६ ॥
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः ।अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥ २७ ॥
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः ।दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥ २८ ॥
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः ।नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥ २९ ॥
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥ ३० ॥
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥ ३१ ॥
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥ ३२ ॥
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥ ३३ ॥
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥ ३४ ॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥ ३५ ॥
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् ॥ ३६ ॥
हयहेषितशब्दाश्च वारणानां च बृंहितम् ।रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥ ३७ ॥
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ ।दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥ ३८ ॥
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे ।योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥ ३९ ॥
तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ ।अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥ ४० ॥
नृत्यमाने तु ते सेने समेयातां परस्परम् ।तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥ ४१ ॥
ततः प्रववृते युद्धं नरवारणवाजिनाम् ।रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥ ४२ ॥
« »