Click on words to see what they mean.

संजय उवाच ।राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् ।मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनंजयः ॥ १ ॥
विमृद्य सूतपुत्रस्य सेनां भारत सायकैः ।प्राहिणोन्मृत्युलोकाय परवीरान्धनंजयः ॥ २ ॥
ततोऽस्याम्बरमावृत्य शरजालानि भागशः ।अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ॥ ३ ॥
स पक्षिसंघाचरितमाकाशं पूरयञ्शरैः ।धनंजयो महाराज कुरूणामन्तकोऽभवत् ॥ ४ ॥
ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि ।गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ॥ ५ ॥
छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः ।पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ॥ ६ ॥
धनंजयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः ।रणभूमिरभूद्राजन्महावैतरणी यथा ॥ ७ ॥
ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् ।ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ॥ ८ ॥
सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः ।आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ।क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ॥ ९ ॥
चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना ।पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ॥ १० ॥
धनंजयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः ।अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ॥ ११ ॥
हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः ।विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ।अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ॥ १२ ॥
व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् ।घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ॥ १३ ॥
ततः प्रादीर्यत चमूर्धनंजयशराहता ।महावातसमाविद्धा महानौरिव सागरे ॥ १४ ॥
नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः ।अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ॥ १५ ॥
महागिरौ वेणुवनं निशि प्रज्वलितं यथा ।तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ॥ १६ ॥
संपिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना ।हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ॥ १७ ॥
महावने मृगगणा दावाग्निग्रसिता यथा ।कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ॥ १८ ॥
उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे ।बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ॥ १९ ॥
ततः कुरुषु भग्नेषु बीभत्सुरपराजितः ।भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ॥ २० ॥
समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः ।विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ॥ २१ ॥
भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनंजयः ।नादयन्रथघोषेण पृथिवीं द्यां च भारत ॥ २२ ॥
ततः परिवृतो भीमैर्दशभिः शत्रुपुंगवैः ।दुःशासनादवरजैस्तव पुत्रैर्धनंजयः ॥ २३ ॥
ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् ।आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ॥ २४ ॥
अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः ।ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ॥ २५ ॥
तेषामापततां केतून्रथांश्चापानि सायकान् ।नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ॥ २६ ॥
अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् ।रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ।तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ॥ २७ ॥
तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् ।रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा ॥ २८ ॥
« »