Click on words to see what they mean.

संजय उवाच ।अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् ।सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ॥ १ ॥
शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् ।वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ ॥ २ ॥
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते ।भीमसेनादयश्चैते योधयन्ति महारथान् ।एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ॥ ३ ॥
एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता ।कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ॥ ४ ॥
कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः ।एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ।अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ॥ ५ ॥
एष शल्यो रथोपस्थे रश्मिसंचारकोविदः ।सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ॥ ६ ॥
तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् ।नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन ॥ ७ ॥
राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् ।निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ॥ ८ ॥
ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् ।कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ॥ ९ ॥
प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः ।आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ॥ १० ॥
रथघोषः स संग्रामे पाण्डवेयस्य संबभौ ।वासवाशनितुल्यस्य महौघस्येव मारिष ॥ ११ ॥
महता रथघोषेण पाण्डवः सत्यविक्रमः ।अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ॥ १२ ॥
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् ।मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ॥ १३ ॥
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ॥ १४ ॥
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः ।तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ॥ १५ ॥
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः ।अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ॥ १६ ॥
वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः ।त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ॥ १७ ॥
न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह ।त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ॥ १८ ॥
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् ।शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ॥ १९ ॥
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च ।नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ॥ २० ॥
सहसैकरथः पार्थस्त्वामभ्येति परंतप ।क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ॥ २१ ॥
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् ।त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ॥ २२ ॥
न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् ।अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ॥ २३ ॥
न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः ।एक एवाभियाति त्वां पश्य साफल्यमात्मनः ॥ २४ ॥
त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे ।तवैष भारो राधेय प्रत्युद्याहि धनंजयम् ॥ २५ ॥
त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि ।सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ॥ २६ ॥
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा ।लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम् ॥ २७ ॥
एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः ।अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ॥ २८ ॥
द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः ।भयहा यो भवेद्वीर त्वामृते सूतनन्दन ॥ २९ ॥
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे ।विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ॥ ३० ॥
वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया ।गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः ॥ ३१ ॥
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् ।वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ॥ ३२ ॥
कर्ण उवाच ।प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा ।प्रतिभासि महाबाहो विभीश्चैव धनंजयात् ॥ ३३ ॥
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे ।एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ॥ ३४ ॥
कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते ।नाहत्वा युधि तौ वीरावपयास्ये कथंचन ॥ ३५ ॥
स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः ।कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ॥ ३६ ॥
नैतादृशो जातु बभूव लोके रथोत्तमो यावदनुश्रुतं नः ।तमीदृशं प्रतियोत्स्यामि पार्थं महाहवे पश्य च पौरुषं मे ॥ ३७ ॥
रथे चरत्येष रथप्रवीरः शीघ्रैर्हयैः कौरवराजपुत्रः ।स वाद्य मां नेष्यति कृच्छ्रमेतत्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ॥ ३८ ॥
अस्वेदिनौ राजपुत्रस्य हस्ताववेपिनौ जातकिणौ बृहन्तौ ।दृढायुधः कृतिमान्क्षिप्रहस्तो न पाण्डवेयेन समोऽस्ति योधः ॥ ३९ ॥
गृह्णात्यनेकानपि कङ्कपत्रानेकं यथा तान्क्षितिपान्प्रमथ्य ।ते क्रोशमात्रं निपतन्त्यमोघाः कस्तेन योधोऽस्ति समः पृथिव्याम् ॥ ४० ॥
अतोषयत्पाण्डवेयो हुताशं कृष्णद्वितीयोऽतिरथस्तरस्वी ।लेभे चक्रं यत्र कृष्णो महात्मा धनुर्गाण्डीवं पाण्डवः सव्यसाची ॥ ४१ ॥
श्वेताश्वयुक्तं च सुघोषमग्र्यं रथं महाबाहुरदीनसत्त्वः ।महेषुधी चाक्षयौ दिव्यरूपौ शस्त्राणि दिव्यानि च हव्यवाहात् ॥ ४२ ॥
तथेन्द्रलोके निजघान दैत्यानसंख्येयान्कालकेयांश्च सर्वान् ।लेभे शङ्खं देवदत्तं स्म तत्र को नाम तेनाभ्यधिकः पृथिव्याम् ॥ ४३ ॥
महादेवं तोषयामास चैव साक्षात्सुयुद्धेन महानुभावः ।लेभे ततः पाशुपतं सुघोरं त्रैलोक्यसंहारकरं महास्त्रम् ॥ ४४ ॥
पृथक्पृथग्लोकपालाः समेता ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य ।यैस्ताञ्जघानाशु रणे नृसिंहान्स कालखञ्जानसुरान्समेतान् ॥ ४५ ॥
तथा विराटस्य पुरे समेतान्सर्वानस्मानेकरथेन जित्वा ।जहार तद्गोधनमाजिमध्ये वस्त्राणि चादत्त महारथेभ्यः ॥ ४६ ॥
तमीदृशं वीर्यगुणोपपन्नं कृष्णद्वितीयं वरये रणाय ।अनन्तवीर्येण च केशवेन नारायणेनाप्रतिमेन गुप्तम् ॥ ४७ ॥
वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वलोकैः ।महात्मनः शङ्खचक्रासिपाणेर्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ।भयं मे वै जायते साध्वसं च दृष्ट्वा कृष्णावेकरथे समेतौ ॥ ४८ ॥
उभौ हि शूरौ कृतिनौ दृढास्त्रौ महारथौ संहननोपपन्नौ ।एतादृशौ फल्गुनवासुदेवौ कोऽन्यः प्रतीयान्मदृते नु शल्य ॥ ४९ ॥
एतावहं युधि वा पातयिष्ये मां वा कृष्णौ निहनिष्यतोऽद्य ।इति ब्रुवञ्शल्यममित्रहन्ता कर्णो रणे मेघ इवोन्ननाद ॥ ५० ॥
अभ्येत्य पुत्रेण तवाभिनन्दितः समेत्य चोवाच कुरुप्रवीरान् ।कृपं च भोजं च महाभुजावुभौ तथैव गान्धारनृपं सहानुजम् ।गुरोः सुतं चावरजं तथात्मनः पदातिनोऽथ द्विपसादिनोऽन्यान् ॥ ५१ ॥
निरुन्धताभिद्रवताच्युतार्जुनौ श्रमेण संयोजयताशु सर्वतः ।यथा भवद्भिर्भृशविक्षतावुभौ सुखेन हन्यामहमद्य भूमिपाः ॥ ५२ ॥
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं जिघांसवो वीरतमाः समभ्ययुः ।नदीनदान्भूरिजलो महार्णवो यथा तथा तान्समरेऽर्जुनोऽग्रसत् ॥ ५३ ॥
न संदधानो न तथा शरोत्तमान्प्रमुञ्चमानो रिपुभिः प्रदृश्यते ।धनंजयस्तस्य शरैश्च दारिता हताश्च पेतुर्नरवाजिकुञ्जराः ॥ ५४ ॥
शरार्चिषं गाण्डिवचारुमण्डलं युगान्तसूर्यप्रतिमानतेजसम् ।न कौरवाः शेकुरुदीक्षितुं जयं यथा रविं व्याधितचक्षुषो जनाः ॥ ५५ ॥
तमभ्यधावद्विसृजञ्शरान्कृपस्तथैव भोजस्तव चात्मजः स्वयम् ।जिघांसुभिस्तान्कुशलैः शरोत्तमान्महाहवे संजवितान्प्रयत्नतः ।शरैः प्रचिच्छेद च पाण्डवस्त्वरन्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ॥ ५६ ॥
स गाण्डिवाभ्यायतपूर्णमण्डलस्तपन्रिपूनर्जुनभास्करो बभौ ।शरोग्ररश्मिः शुचिशुक्रमध्यगो यथैव सूर्यः परिवेषगस्तथा ॥ ५७ ॥
अथाग्र्यबाणैर्दशभिर्धनंजयं पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः ।चतुर्भिरश्वांश्चतुरः कपिं तथा शरैः स नाराचवरैरवाकिरत् ॥ ५८ ॥
तथा तु तत्तत्स्फुरदात्तकार्मुकं त्रिभिः शरैर्यन्तृशिरः क्षुरेण ।हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं धनंजयो द्रौणिरथान्न्यपातयत् ॥ ५९ ॥
स रोषपूर्णोऽशनिवज्रहाटकैरलंकृतं तक्षकभोगवर्चसम् ।सुबन्धनं कार्मुकमन्यदाददे यथा महाहिप्रवरं गिरेस्तथा ॥ ६० ॥
स्वमायुधं चोपविकीर्य भूतले धनुश्च कृत्वा सगुणं गुणाधिकः ।समानयानावजितौ नरोत्तमौ शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ॥ ६१ ॥
कृपश्च भोजश्च तथात्मजश्च ते तमोनुदं वारिधरा इवापतन् ।कृपस्य पार्थः सशरं शरासनं हयान्ध्वजं सारथिमेव पत्रिभिः ॥ ६२ ॥
शरैः प्रचिच्छेद तवात्मजस्य ध्वजं धनुश्च प्रचकर्त नर्दतः ।जघान चाश्वान्कृतवर्मणः शुभान्ध्वजं च चिच्छेद ततः प्रतापवान् ॥ ६३ ॥
सवाजिसूतेष्वसनान्सकेतनाञ्जघान नागाश्वरथांस्त्वरंश्च सः ।ततः प्रकीर्णं सुमहद्बलं तव प्रदारितं सेतुरिवाम्भसा यथा ।ततोऽर्जुनस्याशु रथेन केशवश्चकार शत्रूनपसव्यमातुरान् ॥ ६४ ॥
ततः प्रयान्तं त्वरितं धनंजयं शतक्रतुं वृत्रनिजघ्नुषं यथा ।समन्वधावन्पुनरुच्छ्रितैर्ध्वजै रथैः सुयुक्तैरपरे युयुत्सवः ॥ ६५ ॥
अथाभिसृत्य प्रतिवार्य तानरीन्धनंजयस्याभि रथं महारथाः ।शिखण्डिशैनेययमाः शितैः शरैर्विदारयन्तो व्यनदन्सुभैरवम् ॥ ६६ ॥
ततोऽभिजघ्नुः कुपिताः परस्परं शरैस्तदाञ्जोगतिभिः सुतेजनैः ।कुरुप्रवीराः सह सृञ्जयैर्यथासुराः पुरा देववरैरयोधयन् ॥ ६७ ॥
जयेप्सवः स्वर्गमनाय चोत्सुकाः पतन्ति नागाश्वरथाः परंतप ।जगर्जुरुच्चैर्बलवच्च विव्यधुः शरैः सुमुक्तैरितरेतरं पृथक् ॥ ६८ ॥
शरान्धकारे तु महात्मभिः कृते महामृधे योधवरैः परस्परम् ।बभुर्दशाशा न दिवं च पार्थिव प्रभा च सूर्यस्य तमोवृताभवत् ॥ ६९ ॥
« »