Click on words to see what they mean.

धृतराष्ट्र उवाच ।ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।दुर्योधनोऽब्रवीत्किं नु सौबलो वापि संजय ॥ १ ॥
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ॥ २ ॥
अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् ।यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ॥ ३ ॥
कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः ।शर्म वर्म प्रतिष्ठा च जीविताशा च संजय ॥ ४ ॥
तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा ।राधेयानामधिरथः कर्णः किमकरोद्युधि ॥ ५ ॥
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि संजय ॥ ६ ॥
संजय उवाच ।अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ।भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥ ७ ॥
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ॥ ८ ॥
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ॥ ९ ॥
प्रविश्य च स तां सेनां शल्यः परबलार्दनः ।न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ॥ १० ॥
तं रथं मेघसंकाशं वैयाघ्रपरिवारणम् ।संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ॥ ११ ॥
ततो रथस्य निनदः प्रादुरासीन्महारणे ।पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥ १२ ॥
ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः ।जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥ १३ ॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥ १४ ॥
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ।परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ॥ १५ ॥
सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः ।अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ॥ १६ ॥
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः ।द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥ १७ ॥
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥ १८ ॥
ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् ।मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ।तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ॥ १९ ॥
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः ।अथैनं नवभिर्बाणैराजघान स्तनान्तरे ॥ २० ॥
भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः ।सारथिं च त्रिभिर्बाणैराजघान परंतपः ॥ २१ ॥
विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः ।अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥ २२ ॥
विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः ।पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ॥ २३ ॥
ते वध्यमानाः समरे चेदिमत्स्या विशां पते ।कर्णमेकमभिद्रुत्य शरसंघैः समार्दयन् ।ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ॥ २४ ॥
एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत ।यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥ २५ ॥
यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः ।पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥ २६ ॥
तत्र भारत कर्णस्य लाघवेन महात्मनः ।तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ॥ २७ ॥
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥ २८ ॥
ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ॥ २९ ॥
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ॥ ३० ॥
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥ ३१ ॥
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥ ३२ ॥
तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः ।यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥ ३३ ॥
यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते ।तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥ ३४ ॥
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् ।दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥ ३५ ॥
शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् ।बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥ ३६ ॥
हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् ।रथांश्च विविधान्राजन्पताका व्यजनानि च ॥ ३७ ॥
अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च ।चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ॥ ३८ ॥
तत्र भारत कर्णेन निहतैर्गजवाजिभिः ।अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ३९ ॥
विषमं च समं चैव हतैरश्वपदातिभिः ।रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किंचन ॥ ४० ॥
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ।घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥ ४१ ॥
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः ।संछादिता महाराज यतमाना महारथाः ॥ ४२ ॥
ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः ।अभज्यन्त महाराज यतमाना महारथाः ॥ ४३ ॥
मृगसंघान्यथा क्रुद्धः सिंहो द्रावयते वने ।कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ।कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥ ४४ ॥
दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् ।अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ॥ ४५ ॥
दुर्योधनो हि राजेन्द्र मुदा परमया युतः ।वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥ ४६ ॥
पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः ।न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ॥ ४७ ॥
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥ ४८ ॥
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।निहताः सादयः क्रोधाच्चेदयश्च परःशताः ॥ ४९ ॥
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥ ५० ॥
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतपः ।कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ॥ ५१ ॥
एवमेतान्महाराज नरवाजिरथद्विपान् ।हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥ ५२ ॥
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।तथा स सोमकान्हत्वा तस्थावेको महारथः ॥ ५३ ॥
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।वध्यमानापि कर्णेन नाजहू रणमूर्धनि ॥ ५४ ॥
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा ।अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ।न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥ ५५ ॥
कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ ।अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ।तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ॥ ५६ ॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।द्रौपदेयाश्च संक्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥ ५७ ॥
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।तावकानामपि रणे भीमं प्राप्य महाबलम् ॥ ५८ ॥
« »