Click on words to see what they mean.

संजय उवाच ।स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् ।विशोकः संप्रहृष्टश्च क्षणेन समपद्यत ॥ १ ॥
ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः ।दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ॥ २ ॥
त्वया नाथेन गोविन्द ध्रुव एष जयो मम ।प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ॥ ३ ॥
त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् ।प्रापयेयं परं लोकं किमु कर्णं महारणे ॥ ४ ॥
पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन ।पश्यामि कर्णं समरे विचरन्तमभीतवत् ॥ ५ ॥
भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः ।सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ॥ ६ ॥
अयं खलु स संग्रामो यत्र कृष्ण मया कृतम् ।कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ॥ ७ ॥
अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे ।गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ॥ ८ ॥
अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते ।दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ॥ ९ ॥
अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् ।पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ॥ १० ॥
अद्य दुर्योधनो राजा जीविताच्च निराशकः ।भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ॥ ११ ॥
अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् ।स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ॥ १२ ॥
अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् ।दुरोदरं च गाण्डीवं मण्डलं च रथं मम ॥ १३ ॥
योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते ।तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ।गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ॥ १४ ॥
अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् ।सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ॥ १५ ॥
ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः ।हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ॥ १६ ॥
अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् ।अनृतं तत्करिष्यन्ति मामका निशिताः शराः ॥ १७ ॥
हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् ।तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ॥ १८ ॥
यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः ।अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ।तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ॥ १९ ॥
अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः ।विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ॥ २० ॥
अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् ।हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने ॥ २१ ॥
अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः ।जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ॥ २२ ॥
अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् ।क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ॥ २३ ॥
अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् ।हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ॥ २४ ॥
अद्य कर्णे हते युद्धे सोमकानां महारथाः ।कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ॥ २५ ॥
न जाने च कथं प्रीतिः शैनेयस्याद्य माधव ।भविष्यति हते कर्णे मयि चापि जयाधिके ॥ २६ ॥
अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् ।प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ॥ २७ ॥
धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव ।अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ॥ २८ ॥
अद्य पश्यन्तु संग्रामे धनंजयममर्षणम् ।युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम् ।भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ॥ २९ ॥
धनुर्वेदे मत्समो नास्ति लोके पराक्रमे वा मम कोऽस्ति तुल्यः ।को वाप्यन्यो मत्समोऽस्ति क्षमायां तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ॥ ३० ॥
अहं धनुष्मानसुरान्सुरांश्च सर्वाणि भूतानि च संगतानि ।स्वबाहुवीर्याद्गमये पराभवं मत्पौरुषं विद्धि परः परेभ्यः ॥ ३१ ॥
शरार्चिषा गाण्डिवेनाहमेकः सर्वान्कुरून्बाह्लिकांश्चाभिपत्य ।हिमात्यये कक्षगतो यथाग्निस्तहा दहेयं सगणान्प्रसह्य ॥ ३२ ॥
पाणौ पृषत्का लिखिता ममैते धनुश्च सव्ये निहितं सबाणम् ।पादौ च मे सरथौ सध्वजौ च न मादृशं युद्धगतं जयन्ति ॥ ३३ ॥
« »