Click on words to see what they mean.

संजय उवाच ।ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् ।कृतसंकल्पमायस्तं वधे कर्णस्य सर्वशः ॥ १ ॥
अद्य सप्तदशाहानि वर्तमानस्य भारत ।विनाशस्यातिघोरस्य नरवारणवाजिनाम् ॥ २ ॥
भूत्वा हि विपुला सेना तावकानां परैः सह ।अन्योन्यं समरे प्राप्य किंचिच्छेषा विशां पते ॥ ३ ॥
भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः ।त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ॥ ४ ॥
एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः ।त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ॥ ५ ॥
पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः ।त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ॥ ६ ॥
को हि शक्तो रणे जेतुं कौरवांस्तात संगतान् ।अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ॥ ७ ॥
त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् ।त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ॥ ८ ॥
भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना ।जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ॥ ९ ॥
तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ ।न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ॥ १० ॥
तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे ।धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ॥ ११ ॥
को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ ।भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ॥ १२ ॥
को हि शांतनवं संख्ये द्रोणं वैकर्तनं कृपम् ।द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ।सैन्धवं मद्रराजं च राजानं च सुयोधनम् ॥ १३ ॥
वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः ।अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ॥ १४ ॥
श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः ।नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ॥ १५ ॥
गोवासदासमीयानां वसातीनां च भारत ।व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ॥ १६ ॥
उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत ।त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ॥ १७ ॥
उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः ।दार्वाभिसारा दरदाः शका रमठतङ्गणाः ॥ १८ ॥
अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः ।म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ।संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ॥ १९ ॥
एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह ।न शक्या युधि निर्जेतुं त्वदन्येन परंतप ॥ २० ॥
धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् ।यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ॥ २१ ॥
तत्सागरमिवोद्धूतं रजसा संवृतं बलम् ।विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ॥ २२ ॥
मागधानामधिपतिर्जयत्सेनो महाबलः ।अद्य सप्तैव चाहानि हतः संख्येऽभिमन्युना ॥ २३ ॥
ततो दश सहस्राणि गजानां भीमकर्मणाम् ।जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ।ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ॥ २४ ॥
तदेवं समरे तात वर्तमाने महाभये ।भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ।सवाजिरथनागाश्च मृत्युलोकमितो गताः ॥ २५ ॥
तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः ।भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ॥ २६ ॥
स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् ।शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ॥ २७ ॥
तस्य चापच्युतैर्बाणैः परदेहविदारणैः ।पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ॥ २८ ॥
गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् ।हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ॥ २९ ॥
दिनानि दश भीष्मेण निघ्नता तावकं बलम् ।शून्याः कृता रथोपस्था हताश्च गजवाजिनः ॥ ३० ॥
दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि ।पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ॥ ३१ ॥
विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् ।व्यदहत्पाण्डवीं सेनां नराश्वगजसंकुलाम् ॥ ३२ ॥
मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् ।तथा चरन्तं समरे तपन्तमिव भास्करम् ।न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ॥ ३३ ॥
विचरन्तं तथा तं तु संग्रामे जितकाशिनम् ।सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ॥ ३४ ॥
स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि ।एक एव रणे भीष्म एकवीरत्वमागतः ॥ ३५ ॥
तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् ।जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ॥ ३६ ॥
स एष पतितः शेते शरतल्पे पितामहः ।त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ॥ ३७ ॥
द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः ।कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ॥ ३८ ॥
जयद्रथस्य समरे कृत्वा रक्षां महारथः ।अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ॥ ३९ ॥
अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् ।धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ॥ ४० ॥
यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् ।नावारयिष्यः संग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ॥ ४१ ॥
भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् ।ततो द्रोणो हतो युद्धे पार्षतेन धनंजय ॥ ४२ ॥
क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि ।यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ॥ ४३ ॥
निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् ।निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ॥ ४४ ॥
आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः ।अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ॥ ४५ ॥
त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत ।तप्यमानमसंयुक्तं न भवेदिति मे मतिः ॥ ४६ ॥
सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे ।हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ॥ ४७ ॥
शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा ।हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ॥ ४८ ॥
विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् ।आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ॥ ४९ ॥
तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः ।अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ॥ ५० ॥
तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् ।हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ॥ ५१ ॥
साकाशजलपातालां सपर्वतमहावनाम् ।प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुंधराम् ॥ ५२ ॥
एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् ।प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ॥ ५३ ॥
अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया ।विष्णुना निहतेष्वेव दानवेयेषु देवताः ॥ ५४ ॥
यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् ।अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ॥ ५५ ॥
अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् ।कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ॥ ५६ ॥
भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् ।यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ॥ ५७ ॥
इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति ।कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ॥ ५८ ॥
एतत्ते सुकृतं कर्म नात्र किंचिन्न युज्यते ।वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ॥ ५९ ॥
दहने यत्सपुत्राया निशि मातुस्तवानघ ।द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ।तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ॥ ६० ॥
कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः ।ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ॥ ६१ ॥
स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद ।कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ॥ ६२ ॥
कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः ।रोचितो भवता सार्धं जानतापि बलं तव ॥ ६३ ॥
कर्णो हि भाषते नित्यमहं पार्थान्समागतान् ।वासुदेवं सराजानं विजेष्यामि महारणे ॥ ६४ ॥
प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः ।समितौ गर्जते कर्णस्तमद्य जहि भारत ॥ ६५ ॥
यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् ।तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ॥ ६६ ॥
यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः ।अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ॥ ६७ ॥
द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् ।निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ॥ ६८ ॥
व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् ।कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ॥ ६९ ॥
विधमन्तमनीकानि व्यथयन्तं महारथान् ।मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ॥ ७० ॥
शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् ।तन्मे दहति गात्राणि सखे सत्येन ते शपे ॥ ७१ ॥
यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो ।अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ॥ ७२ ॥
सौभद्रशरनिर्भिन्नो विसंज्ञः शोणितोक्षितः ।निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ॥ ७३ ॥
अपयानकृतोत्साहो निराशश्चापि जीविते ।तस्थौ सुविह्वलः संख्ये प्रहारजनितश्रमः ॥ ७४ ॥
अथ द्रोणस्य समरे तत्कालसदृशं तदा ।श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ॥ ७५ ॥
ततश्छिन्नायुधं तेन रणे पञ्च महारथाः ।स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ॥ ७६ ॥
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ॥ ७७ ॥
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ॥ ७८ ॥
लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् ।प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ॥ ७९ ॥
इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः ।पापः पापं वचः कर्णः शृण्वतस्तव भारत ॥ ८० ॥
तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः ।शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ॥ ८१ ॥
यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि ।तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ॥ ८२ ॥
गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् ।कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ॥ ८३ ॥
सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः ।त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ॥ ८४ ॥
उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः ।अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ॥ ८५ ॥
अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः ।प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ॥ ८६ ॥
अद्य स्वशोणिते मग्नं शयानं पतितं भुवि ।अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ॥ ८७ ॥
हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया ।प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ॥ ८८ ॥
त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् ।हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ॥ ८९ ॥
ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया ।निराशो जीविते त्वद्य राज्ये चैव धनंजय ॥ ९० ॥
एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः ।कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ॥ ९१ ॥
पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ ।धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ॥ ९२ ॥
नकुलं सहदेवं च दुर्मुखं जनमेजयम् ।सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ॥ ९३ ॥
अभ्याहतानां कर्णेन पाञ्चालानां महारणे ।श्रूयते निनदो घोरस्त्वद्बन्धूनां परंतप ॥ ९४ ॥
न त्वेव भीताः पाञ्चालाः कथंचित्स्युः पराङ्मुखाः ।न हि मृत्युं महेष्वासा गणयन्ति महारथाः ॥ ९५ ॥
य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् ।तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ॥ ९६ ॥
तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् ।निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ॥ ९७ ॥
ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः ।न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ॥ ९८ ॥
तेषामापततां शूरः पाञ्चालानां तरस्विनाम् ।आदत्तेऽसूञ्शरैः कर्णः पतंगानामिवानलः ॥ ९९ ॥
तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् ।क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ॥ १०० ॥
अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् ।यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ॥ १०१ ॥
तापनं सर्वसैन्यानां घोररूपं सुदारुणम् ।समावृत्य महासेनां ज्वलति स्वेन तेजसा ॥ १०२ ॥
एते चरन्ति संग्रामे कर्णचापच्युताः शराः ।भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ॥ १०३ ॥
एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत ।कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ॥ १०४ ॥
एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः ।सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ॥ १०५ ॥
पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत ।हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ॥ १०६ ॥
नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले ।यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ॥ १०७ ॥
तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ ।यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ॥ १०८ ॥
त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् ।नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥ १०९ ॥
एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् ।कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ॥ ११० ॥
« »