Click on words to see what they mean.

वैशंपायन उवाच ।एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।अब्रवीत्संजयं सूतं शोकव्याकुलचेतनः ॥ १ ॥
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः ।हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ २ ॥
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः ।कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ॥ ३ ॥
संजय उवाच ।हतः शांतनवो राजन्दुराधर्षः प्रतापवान् ।हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ ४ ॥
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् ।निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ॥ ५ ॥
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना ।अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ ६ ॥
विविंशतिर्महाराज राजपुत्रो महाबलः ।आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥ ७ ॥
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् ।क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ॥ ८ ॥
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् ।प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ॥ ९ ॥
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ ।कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ १० ॥
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै ।वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ॥ ११ ॥
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः ।अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥ १२ ॥
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः ।वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ १३ ॥
तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः ।द्रौपदेयेन विक्रम्य गमितो यमसादनम् ॥ १४ ॥
किरातानामधिपतिः सागरानूपवासिनाम् ।देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ १५ ॥
भगदत्तो महीपालः क्षत्रधर्मरतः सदा ।धनंजयेन विक्रम्य गमितो यमसादनम् ॥ १६ ॥
तथा कौरवदायादः सौमदत्तिर्महायशाः ।हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥ १७ ॥
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः ।चरन्नभीतवत्संख्ये निहतः सव्यसाचिना ॥ १८ ॥
तव पुत्रः सदा संख्ये कृतास्त्रो युद्धदुर्मदः ।दुःशासनो महाराज भीमसेनेन पातितः ॥ १९ ॥
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् ।सुदक्षिणः स संग्रामे निहतः सव्यसाचिना ॥ २० ॥
कोसलानामधिपतिर्हत्वा बहुशतान्परान् ।सौभद्रेण हि विक्रम्य गमितो यमसादनम् ॥ २१ ॥
बहुशो योधयित्वा च भीमसेनं महारथः ।चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥ २२ ॥
मद्रराजात्मजः शूरः परेषां भयवर्धनः ।असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥ २३ ॥
समः कर्णस्य समरे यः स कर्णस्य पश्यतः ।वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ॥ २४ ॥
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः ।धनंजयेन विक्रम्य गमितो यमसादनम् ॥ २५ ॥
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः ।विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ २६ ॥
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष ।हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ॥ २७ ॥
राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः ।पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ २८ ॥
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः ।श्येनवच्चरता संख्ये नकुलेन निपातितः ॥ २९ ॥
पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः ।भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ ३० ॥
जयत्सेनस्तथा राजञ्जारासंधिर्महाबलः ।मागधो निहतः संख्ये सौभद्रेण महात्मना ॥ ३१ ॥
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः ।गदया भीमसेनेन निहतौ शूरमानिनौ ॥ ३२ ॥
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः ।कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ ३३ ॥
सचिवो वृषवर्मा ते सूतः परमवीर्यवान् ।भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ ३४ ॥
नागायुतबलो राजा नागायुतबलो महान् ।सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ ३५ ॥
वसातयो महाराज द्विसाहस्राः प्रहारिणः ।शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ ३६ ॥
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः ।शिबयश्च रथोदाराः कलिङ्गसहिता हताः ॥ ३७ ॥
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः ।श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ।ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ॥ ३८ ॥
स्यालौ तव महाराज राजानौ वृषकाचलौ ।त्वदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना ॥ ३९ ॥
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा ।शाल्वराजो महाराज भीमसेनेन पातितः ॥ ४० ॥
ओघवांश्च महाराज बृहन्तः सहितो रणे ।पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ ४१ ॥
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते ।निहतो गदया राजन्भीमसेनेन संयुगे ॥ ४२ ॥
तथा राजा महेष्वासो जलसंधो महाबलः ।सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥ ४३ ॥
अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः ।घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ ४४ ॥
राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः ।केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ ४५ ॥
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः ।यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ ४६ ॥
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः ।प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ ४७ ॥
पत्तीनां निहताः संघा हयानामयुतानि च ।रथव्रजाश्च निहता हताश्च वरवारणाः ॥ ४८ ॥
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः ।कालेन महता यत्ताः कुले ये च विवर्धिताः ॥ ४९ ॥
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा ।अन्ये तथामितबलाः परस्परवधैषिणः ॥ ५० ॥
एते चान्ये च बहवो राजानः सगणा रणे ।हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ।एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ॥ ५१ ॥
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ।यथा कृष्णेन निहतो मुरो रणनिपातितः ।कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ॥ ५२ ॥
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः ।रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ॥ ५३ ॥
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः ।सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ॥ ५४ ॥
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः ।तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥ ५५ ॥
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः ।तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ॥ ५६ ॥
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा ।अहितानीव चीर्णानि तेषां ते फलमागतम् ॥ ५७ ॥
धृतराष्ट्र उवाच ।आख्याता मामकास्तात निहता युधि पाण्डवैः ।निहतान्पाण्डवेयानां मामकैर्ब्रूहि संजय ॥ ५८ ॥
संजय उवाच ।कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः ।सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ॥ ५९ ॥
समः किरीटिना संख्ये वीर्येण च बलेन च ।सत्यजित्सत्यसंधेन द्रोणेन निहतो रणे ॥ ६० ॥
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ ।पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥ ६१ ॥
यो बाल एव समरे संमितः सव्यसाचिना ।केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥ ६२ ॥
स एष कदनं कृत्वा महद्रणविशारदः ।परिवार्य महामात्रैः षड्भिः परमकै रथैः ।अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥ ६३ ॥
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् ।दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥ ६४ ॥
बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः ।दुःशासनेन विक्रम्य गमितो यमसादनम् ॥ ६५ ॥
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ ।पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ॥ ६६ ॥
अंशुमान्भोजराजस्तु सहसैन्यो महारथः ।भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ ६७ ॥
चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् ।चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ॥ ६८ ॥
वृकोदरसमो युद्धे दृढः केकयजो युधि ।केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ॥ ६९ ॥
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् ।दुर्मुखेन महाराज तव पुत्रेण पातितः ॥ ७० ॥
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव ।द्रोणेन युगपद्राजन्दिवं संप्रेषितौ शरैः ॥ ७१ ॥
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते ।कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ ७२ ॥
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः ।संग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ॥ ७३ ॥
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः ।वसुदानस्य पुत्रेण न्यासितो देहमाहवे ॥ ७४ ॥
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् ।निहत्य शतशः शूरान्परैर्विनिहतौ रणे ॥ ७५ ॥
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष ।द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥ ७६ ॥
शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः ।लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥ ७७ ॥
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ ।प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ॥ ७८ ॥
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे ।बाह्लिकेन महाराज कौरवेण निपातितः ॥ ७९ ॥
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः ।कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८० ॥
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे ।पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥ ८१ ॥
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते ।निहत्य शात्रवान्संख्ये द्रोणेन निहतो युधि ॥ ८२ ॥
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् ।सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥ ८३ ॥
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी ।कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ ८४ ॥
तथैव युधि विक्रान्तो मागधः परवीरहा ।भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ॥ ८५ ॥
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे ।भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ ८६ ॥
एते चान्ये च बहवः पाण्डवानां महारथाः ।हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ ८७ ॥
धृतराष्ट्र उवाच ।हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर ।अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ॥ ८८ ॥
एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः ।अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ॥ ८९ ॥
संजय उवाच ।यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि ।दिव्यानि राजन्निहितानि चैव द्रोणेन वीरद्विजसत्तमेन ॥ ९० ॥
महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः ।स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ ९१ ॥
आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः ।स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ ९२ ॥
शारद्वतो गौतमश्चापि राजन्महाबलो बहुचित्रास्त्रयोधी ।धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योत्स्यमानः प्रगृह्य ॥ ९३ ॥
आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् ।स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य सत्यां वाचं तां चिकीर्षुस्तरस्वी ॥ ९४ ॥
तेजोवधं सूतपुत्रस्य संख्ये प्रतिश्रुत्वाजातशत्रोः पुरस्तात् ।दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्धुकामस्त्वदर्थे ॥ ९५ ॥
आजानेयैः सैन्धवैः पार्वतीयैर्नदीजकाम्बोजवनायुबाह्लिकैः ।गान्धारराजः स्वबलेन युक्तो व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ ९६ ॥
तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीर ।व्यवस्थितः कुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा वै ॥ ९७ ॥
दुर्योधनो नागकुलस्य मध्ये महावीर्यः सह सैन्यप्रवीरैः ।रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योद्धुकामः ॥ ९८ ॥
स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा ।पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥ ९९ ॥
तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः ।व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धुकामौ ॥ १०० ॥
ह्रीनिषेधा भरता राजपुत्राश्चित्रायुधः श्रुतकर्मा जयश्च ।शलश्च सत्यव्रतदुःशलौ च व्यवस्थिता बलिनो योद्धुकामाः ॥ १०१ ॥
कैतव्यानामधिपः शूरमानी रणे रणे शत्रुहा राजपुत्रः ।पत्री हयी नागरथप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ १०२ ॥
वीरः श्रुतायुश्च श्रुतायुधश्च चित्राङ्गदश्चित्रवर्मा स वीरः ।व्यवस्थिता ये तु सैन्ये नराग्र्याः प्रहारिणो मानिनः सत्यसंधाः ॥ १०३ ॥
कर्णात्मजः सत्यसेनो महात्मा व्यवस्थितः समरे योद्धुकामः ।अथापरौ कर्णसुतौ वरार्हौ व्यवस्थितौ लघुहस्तौ नरेन्द्र ।बलं महद्दुर्भिदमल्पधैर्यैः समाश्रितौ योत्स्यमानौ त्वदर्थे ॥ १०४ ॥
एतैश्च मुख्यैरपरैश्च राजन्योधप्रवीरैरमितप्रभावैः ।व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥ १०५ ॥
धृतराष्ट्र उवाच ।आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् ।इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ॥ १०६ ॥
वैशंपायन उवाच ।एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः ।हतप्रवीरं विध्वस्तं किंचिच्छेषं स्वकं बलम् ।श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ॥ १०७ ॥
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ संजय ।व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ।नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥ १०८ ॥
« »