Click on words to see what they mean.

संजय उवाच ।एतस्मिन्नन्तरे कृष्णः पार्थं वचनमब्रवीत् ।दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥ १ ॥
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।जिघांसुभिर्महेष्वासैर्द्रुतं पार्थानुसर्यते ॥ २ ॥
तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः ।युधिष्ठिरं महात्मानं परीप्सन्तो महाजवाः ॥ ३ ॥
एष दुर्योधनः पार्थ रथानीकेन दंशितः ।राजा सर्वस्य लोकस्य राजानमनुधावति ॥ ४ ॥
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली ।आशीविषसमस्पर्शैः सर्वयुद्धविशारदैः ॥ ५ ॥
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।युधिष्ठिरं धार्तराष्ट्रा रत्नोत्तममिवार्थिनः ॥ ६ ॥
पश्य सात्वतभीमाभ्यां निरुद्धाधिष्ठितः प्रभुः ।जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवावशाः ॥ ७ ॥
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।समुद्रमिव वार्योघाः प्रावृट्काले महारथाः ॥ ८ ॥
नदन्तः सिंहनादांश्च धमन्तश्चापि वारिजान् ।बलवन्तो महेष्वासा विधुन्वन्तो धनूंषि च ॥ ९ ॥
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।हुतमग्नौ च भद्रं ते दुर्योधनवशं गतम् ॥ १० ॥
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव ।नास्य शक्रोऽपि मुच्येत संप्राप्तो बाणगोचरम् ॥ ११ ॥
दुर्योधनस्य शूरस्य द्रौणेः शारद्वतस्य च ।कर्णस्य चेषुवेगो वै पर्वतानपि दारयेत् ॥ १२ ॥
दुर्योधनस्य शूरस्य शरौघाञ्शीघ्रमस्यतः ।संक्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥ १३ ॥
कर्णेन च कृतो राजा विमुखः शत्रुतापनः ।बलवाँल्लघुहस्तश्च कृती युद्धविशारदः ॥ १४ ॥
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे ।सहितो धृतराष्ट्रस्य पुत्रैः शूरो महात्मभिः ॥ १५ ॥
तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः ।अन्यैरपि च पार्थस्य हृतं वर्म महारथैः ॥ १६ ॥
उपवासकृशो राजा भृशं भरतसत्तम ।ब्राह्मे बले स्थितो ह्येष न क्षत्रेऽतिबले विभो ॥ १७ ॥
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः ।यद्भीमसेनः सहते सिंहनादममर्षणः ॥ १८ ॥
नर्दतां धार्तराष्ट्राणां पुनः पुनररिंदम ।धमतां च महाशङ्खान्संग्रामे जितकाशिनाम् ॥ १९ ॥
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।संचोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥ २० ॥
स्थूणाकर्णेन्द्रजालेन पार्थ पाशुपतेन च ।प्रच्छादयन्तो राजानमनुयान्ति महारथाः ।आतुरो मे मतो राजा संनिषेव्यश्च भारत ॥ २१ ॥
यथैनमनुवर्तन्ते पाञ्चालाः सह पाण्डवैः ।त्वरमाणास्त्वराकाले सर्वशस्त्रभृतां वराः ।मज्जन्तमिव पाताले बलिनोऽप्युज्जिहीर्षवः ॥ २२ ॥
न केतुर्दृश्यते राज्ञः कर्णेन निहतः शरैः ।पश्यतोर्यमयोः पार्थ सात्यकेश्च शिखण्डिनः ॥ २३ ॥
धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभो ।पाञ्चालानां च सर्वेषां चेदीनां चैव भारत ॥ २४ ॥
एष कर्णो रणे पार्थ पाण्डवानामनीकिनीम् ।शरैर्विध्वंसयति वै नलिनीमिव कुञ्जरः ॥ २५ ॥
एते द्रवन्ति रथिनस्त्वदीयाः पाण्डुनन्दन ।पश्य पश्य यथा पार्थ गच्छन्त्येते महारथाः ॥ २६ ॥
एते भारत मातङ्गाः कर्णेनाभिहता रणे ।आर्तनादान्विकुर्वाणा विद्रवन्ति दिशो दश ॥ २७ ॥
रथानां द्रवतां वृन्दं पश्य पार्थ समन्ततः ।द्राव्यमाणं रणे चैव कर्णेनामित्रकर्शिना ॥ २८ ॥
हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह ।रथस्थं सूतपुत्रस्य केतुं केतुमतां वर ॥ २९ ॥
असौ धावति राधेयो भीमसेनरथं प्रति ।किरञ्शरशतानीव विनिघ्नंस्तव वाहिनीम् ॥ ३० ॥
एतान्पश्य च पाञ्चालान्द्राव्यमाणान्महात्मना ।शक्रेणेव यथा दैत्यान्हन्यमानान्महाहवे ॥ ३१ ॥
एष कर्णो रणे जित्वा पाञ्चालान्पाण्डुसृञ्जयान् ।दिशो विप्रेक्षते सर्वास्त्वदर्थमिति मे मतिः ॥ ३२ ॥
पश्य पार्थ धनुः श्रेष्ठं विकर्षन्साधु शोभते ।शत्रूञ्जित्वा यथा शक्रो देवसंघैः समावृतः ॥ ३३ ॥
एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम् ।त्रासयन्तो रणे पार्थान्सृञ्जयांश्च सहस्रशः ॥ ३४ ॥
एष सर्वात्मना पाण्डूंस्त्रासयित्वा महारणे ।अभिभाषति राधेयः सर्वसैन्यानि मानदः ॥ ३५ ॥
अभिद्रवत गच्छध्वं द्रुतं द्रवत कौरवाः ।यथा जीवन्न वः कश्चिन्मुच्यते युधि सृञ्जयः ॥ ३६ ॥
तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः ।एवमुक्त्वा ययावेष पृष्ठतो विकिरञ्शरैः ॥ ३७ ॥
पश्य कर्णं रणे पार्थ श्वेतच्छविविराजितम् ।उदयं पर्वतं यद्वच्छोभयन्वै दिवाकरः ॥ ३८ ॥
पूर्णचन्द्रनिकाशेन मूर्ध्नि छत्रेण भारत ।ध्रियमाणेन समरे तथा शतशलाकिना ॥ ३९ ॥
एष त्वां प्रेक्षते कर्णः सकटाक्षो विशां पते ।उत्तमं यत्नमास्थाय ध्रुवमेष्यति संयुगे ॥ ४० ॥
पश्य ह्येनं महाबाहो विधुन्वानं महद्धनुः ।शरांश्चाशीविषाकारान्विसृजन्तं महाबलम् ॥ ४१ ॥
असौ निवृत्तो राधेयो दृश्यते वानरध्वज ।वधाय चात्मनोऽभ्येति दीपस्य शलभो यथा ॥ ४२ ॥
कर्णमेकाकिनं दृष्ट्वा रथानीकेन भारत ।रिरक्षिषुः सुसंयत्तो धार्तराष्ट्रोऽभिवर्तते ॥ ४३ ॥
सार्वैः सहैभिर्दुष्टात्मा वध्य एष प्रयत्नतः ।त्वया यशश्च राज्यं च सुखं चोत्तममिच्छता ॥ ४४ ॥
आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ ।कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे ॥ ४५ ॥
प्रतिपद्यस्व राधेयं प्राप्तकालमनन्तरम् ।आर्यां युद्धे मतिं कृत्वा प्रत्येहि रथयूथपम् ॥ ४६ ॥
पञ्च ह्येतानि मुख्यानां रथानां रथसत्तम ।शतान्यायान्ति वेगेन बलिनां भीमतेजसाम् ॥ ४७ ॥
पञ्च नागसहस्राणि द्विगुणा वाजिनस्तथा ।अभिसंहत्य कौन्तेय पदातिप्रयुतानि च ।अन्योन्यरक्षितं वीर बलं त्वामभिवर्तते ॥ ४८ ॥
सूतपुत्रे महेष्वासे दर्शयात्मानमात्मना ।उत्तमं यत्नमास्थाय प्रत्येहि भरतर्षभ ॥ ४९ ॥
असौ कर्णः सुसंरब्धः पाञ्चालानभिधावति ।केतुमस्य हि पश्यामि धृष्टद्युम्नरथं प्रति ।समुच्छेत्स्यति पाञ्चालानिति मन्ये परंतप ॥ ५० ॥
आचक्षे ते प्रियं पार्थ तदेवं भरतर्षभ ।राजा जीवति कौरव्यो धर्मपुत्रो युधिष्ठिरः ॥ ५१ ॥
असौ भीमो महाबाहुः संनिवृत्तश्चमूमुखे ।वृतः सृञ्जयसैन्येन सात्यकेन च भारत ॥ ५२ ॥
वध्यन्त एते समरे कौरवा निशितैः शरैः ।भीमसेनेन कौन्तेय पाञ्चालैश्च महात्मभिः ॥ ५३ ॥
सेना हि धार्तराष्ट्रस्य विमुखा चाभवद्रणात् ।विप्रधावति वेगेन भीमस्य निहता शरैः ॥ ५४ ॥
विपन्नसस्येव मही रुधिरेण समुक्षिता ।भारती भरतश्रेष्ठ सेना कृपणदर्शना ॥ ५५ ॥
निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम् ।आशीविषमिव क्रुद्धं तस्माद्द्रवति वाहिनी ॥ ५६ ॥
पीतरक्तासितसितास्ताराचन्द्रार्कमण्डिताः ।पताका विप्रकीर्यन्ते छत्राण्येतानि चार्जुन ॥ ५७ ॥
सौवर्णा राजताश्चैव तैजसाश्च पृथग्विधाः ।केतवो विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते ॥ ५८ ॥
रथेभ्यः प्रपतन्त्येते रथिनो विगतासवः ।नानावर्णैर्हता बाणैः पाञ्चालैरपलायिभिः ॥ ५९ ॥
निर्मनुष्यान्गजानश्वान्रथांश्चैव धनंजय ।समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस्तरस्विनः ॥ ६० ॥
मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात् ।बलं परेषां दुर्धर्षं त्यक्त्वा प्राणानरिंदम ॥ ६१ ॥
एते नदन्ति पाञ्चाला धमन्त्यपि च वारिजान् ।अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान् ॥ ६२ ॥
पश्य स्वर्गस्य माहात्म्यं पाञ्चाला हि परंतप ।धार्तराष्ट्रान्विनिघ्नन्ति क्रुद्धाः सिंहा इव द्विपान् ॥ ६३ ॥
सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः ।पाञ्चालैर्मानसादेत्य हंसैर्गङ्गेव वेगितैः ॥ ६४ ॥
सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे ।कृपकर्णादयो वीरा ऋषभाणामिवर्षभाः ॥ ६५ ॥
सुनिमग्नांश्च भीमास्त्रैर्धार्तराष्ट्रान्महारथान् ।धृष्टद्युम्नमुखा वीरा घ्नन्ति शत्रून्सहस्रशः ।विषण्णभूयिष्ठरथा धार्तराष्ट्री महाचमूः ॥ ६६ ॥
पश्य भीमेन नाराचैश्छिन्ना नागाः पतन्त्यमी ।वज्रिवज्राहतानीव शिखराणि महीभृताम् ॥ ६७ ॥
भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः ।स्वान्यनीकानि मृद्नन्तो द्रवन्त्येते महागजाः ॥ ६८ ॥
नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम् ।नदतोऽर्जुन संग्रामे वीरस्य जितकाशिनः ॥ ६९ ॥
एष नैषादिरभ्येति द्विपमुख्येन पाण्डवम् ।जिघांसुस्तोमरैः क्रुद्धो दण्डपाणिरिवान्तकः ॥ ७० ॥
सतोमरावस्य भुजौ छिन्नौ भीमेन गर्जतः ।तीक्ष्णैरग्निशिखाप्रख्यैर्नाराचैर्दशभिर्हतः ॥ ७१ ॥
हत्वैनं पुनरायाति नागानन्यान्प्रहारिणः ।पश्य नीलाम्बुदनिभान्महामात्रैरधिष्ठितान् ।शक्तितोमरसंकाशैर्विनिघ्नन्तं वृकोदरम् ॥ ७२ ॥
सप्त सप्त च नागांस्तान्वैजयन्तीश्च सध्वजाः ।निहत्य निशितैर्बाणैश्छिन्नाः पार्थाग्रजेन ते ।दशभिर्दशभिश्चैको नाराचैर्निहतो गजः ॥ ७३ ॥
न चासौ धार्तराष्ट्राणां श्रूयते निनदस्तथा ।पुरंदरसमे क्रुद्धे निवृत्ते भरतर्षभे ॥ ७४ ॥
अक्षौहिण्यस्तथा तिस्रो धार्तराष्ट्रस्य संहताः ।क्रुद्धेन नरसिंहेन भीमसेनेन वारिताः ॥ ७५ ॥
संजय उवाच ।भीमसेनेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ।अर्जुनो व्यधमच्छिष्टानहितान्निशितैः शरैः ॥ ७६ ॥
ते वध्यमानाः समरे संशप्तकगणाः प्रभो ।शक्रस्यातिथितां गत्वा विशोका ह्यभवन्मुदा ॥ ७७ ॥
पार्थश्च पुरुषव्याघ्रः शरैः संनतपर्वभिः ।जघान धार्तराष्ट्रस्य चतुर्विधबलां चमूम् ॥ ७८ ॥
« »