Click on words to see what they mean.

धृतराष्ट्र उवाच ।निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥ १ ॥
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान् ।क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत् ॥ ३ ॥
तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।यत्नेन महता राजन्पर्यवस्थापयद्बली ॥ ४ ॥
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥ ५ ॥
प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः ।धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥ ६ ॥
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥ ७ ॥
पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम् ।अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः ॥ ८ ॥
तथैव तावका राजन्पाण्डवानामनीकिनीम् ।अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः ॥ ९ ॥
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥ १० ॥
शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव ।दुःशासनं महाराज महत्या सेनया वृतम् ॥ ११ ॥
नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः ।उलूकं समरे राजन्सहदेवः समभ्ययात् ॥ १२ ॥
सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान् ।अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः ॥ १३ ॥
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥ १४ ॥
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।सहानीकान्महाबाहुरेक एवाभ्यवारयत् ॥ १५ ॥
शिखण्डी च ततः कर्णं विचरन्तमभीतवत् ।भीष्महन्ता महाराज वारयामास पत्रिभिः ॥ १६ ॥
प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः ।शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत् ॥ १७ ॥
धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत ।राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥ १८ ॥
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥ १९ ॥
तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः ।उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥ २० ॥
हताश्वात्तु ततो यानादवप्लुत्य महारथः ।शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः ॥ २१ ॥
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥ २२ ॥
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः ॥ २३ ॥
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।तूलराशिं समासाद्य यथा वायुर्महाजवः ॥ २४ ॥
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ २५ ॥
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥ २६ ॥
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।दुःशासनाय संक्रुद्धः प्रेषयामास भारत ॥ २७ ॥
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते ॥ २८ ॥
अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः ।धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत् ॥ २९ ॥
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥ ३० ॥
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ ।धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥ ३१ ॥
तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः ।व्यहसन्त रणे योधाः सिद्धाश्चाप्सरसां गणाः ॥ ३२ ॥
ततः प्रववृते युद्धं तावकानां परैः सह ।घोरं प्राणभृतां काले घोररूपं परंतप ॥ ३३ ॥
नकुलं वृषसेनस्तु विद्ध्वा पञ्चभिरायसैः ।पितुः समीपे तिष्ठन्तं त्रिभिरन्यैरविध्यत ॥ ३४ ॥
नकुलस्तु ततः क्रुद्धो वृषसेनं स्मयन्निव ।नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम् ॥ ३५ ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः ॥ ३६ ॥
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ ।अन्योन्यमाच्छादयतामथाभज्यत वाहिनी ॥ ३७ ॥
दृष्ट्वा तु प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः ।निवारयामास बलादनुपत्य विशां पते ।निवृत्ते तु ततः कर्णे नकुलः कौरवान्ययौ ॥ ३८ ॥
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु ।जुगोप चक्रं त्वरितं राधेयस्यैव मारिष ॥ ३९ ॥
उलूकस्तु रणे क्रुद्धः सहदेवेन वारितः ।तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान् ।सारथिं प्रेषयामास यमस्य सदनं प्रति ॥ ४० ॥
उलूकस्तु ततो यानादवप्लुत्य विशां पते ।त्रिगर्तानां बलं पूर्णं जगाम पितृनन्दनः ॥ ४१ ॥
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः ।ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव ॥ ४२ ॥
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान् ।विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम् ॥ ४३ ॥
अथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत ।सारथिं च महाराज त्रिभिरेव समार्दयत् ।अथास्य वाहांस्त्वरितः शरैर्निन्ये यमक्षयम् ॥ ४४ ॥
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ ।आरुरोह रथं तूर्णमुलूकस्य महारथः ।अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः ॥ ४५ ॥
सात्यकिस्तु रणे राजंस्तावकानामनीकिनीम् ।अभिदुद्राव वेगेन ततोऽनीकमभिद्यत ॥ ४६ ॥
शैनेयशरनुन्नं तु ततः सैन्यं विशां पते ।भेजे दश दिशस्तूर्णं न्यपतच्च गतासुवत् ॥ ४७ ॥
भीमसेनं तव सुतो वारयामास संयुगे ।तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम् ।चक्रे लोकेश्वरं तत्र तेनातुष्यन्त चारणाः ॥ ४८ ॥
ततोऽपायान्नृपस्तत्र भीमसेनस्य गोचरात् ।कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत् ।तत्र रावो महानासीद्भीममेकं जिघांसताम् ॥ ४९ ॥
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छिदे ।अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः ॥ ५० ॥
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ ।ततोऽपायाद्रथेनैव युधामन्युर्महारथः ॥ ५१ ॥
उत्तमौजास्तु हार्दिक्यं शरैर्भीमपराक्रमम् ।छादयामास सहसा मेघो वृष्ट्या यथाचलम् ॥ ५२ ॥
तद्युद्धं सुमहच्चासीद्घोररूपं परंतप ।यादृशं न मया युद्धं दृष्टपूर्वं विशां पते ॥ ५३ ॥
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे ।हृदि विव्याध स तदा रथोपस्थ उपाविशत् ॥ ५४ ॥
सारथिस्तमपोवाह रथेन रथिनां वरम् ।ततस्तु सत्वरं राजन्पाण्डुसैन्यमुपाद्रवत् ॥ ५५ ॥
« »