Click on words to see what they mean.

संजय उवाच ।ततः पुनः समाजग्मुरभीताः कुरुसृञ्जयाः ।युधिष्ठिरमुखाः पार्था वैकर्तनमुखा वयम् ॥ १ ॥
ततः प्रववृते भीमः संग्रामो लोमहर्षणः ।कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ २ ॥
तस्मिन्प्रवृत्ते संग्रामे तुमुले शोणितोदके ।संशप्तकेषु शूरेषु किंचिच्छिष्टेषु भारत ॥ ३ ॥
धृष्टद्युम्नो महाराज सहितः सर्वराजभिः ।कर्णमेवाभिदुद्राव पाण्डवाश्च महारथाः ॥ ४ ॥
आगच्छमानांस्तान्संख्ये प्रहृष्टान्विजयैषिणः ।दधारैको रणे कर्णो जलौघानिव पर्वतः ॥ ५ ॥
तमासाद्य तु ते कर्णं व्यशीर्यन्त महारथाः ।यथाचलं समासाद्य जलौघाः सर्वतोदिशम् ।तयोरासीन्महाराज संग्रामो लोमहर्षणः ॥ ६ ॥
धृष्टद्युम्नस्तु राधेयं शरेण नतपर्वणा ।ताडयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७ ॥
विजयं तु धनुःश्रेष्ठं विधुन्वानो महारथः ।पार्षतस्य धनुश्छित्त्वा शरानाशीविषोपमान् ।ताडयामास संक्रुद्धः पार्षतं नवभिः शरैः ॥ ८ ॥
ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः ।शोणिताक्ता व्यराजन्त शक्रगोपा इवानघ ॥ ९ ॥
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महारथः ।अन्यद्धनुरुपादाय शरांश्चाशीविषोपमान् ।कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः ॥ १० ॥
तथैव राजन्कर्णोऽपि पार्षतं शत्रुतापनम् ।द्रोणशत्रुं महेष्वासो विव्याध निशितैः शरैः ॥ ११ ॥
तस्य कर्णो महाराज शरं कनकभूषणम् ।प्रेषयामास संक्रुद्धो मृत्युदण्डमिवापरम् ॥ १२ ॥
तमापतन्तं सहसा घोररूपं विशां पते ।चिच्छेद सप्तधा राजञ्शैनेयः कृतहस्तवत् ॥ १३ ॥
दृष्ट्वा विनिहितं बाणं शरैः कर्णो विशां पते ।सात्यकिं शरवर्षेण समन्तात्पर्यवारयत् ॥ १४ ॥
विव्याध चैनं समरे नाराचैस्तत्र सप्तभिः ।तं प्रत्यविध्यच्छैनेयः शरैर्हेमविभूषितैः ॥ १५ ॥
ततो युद्धमतीवासीच्चक्षुःश्रोत्रभयावहम् ।राजन्घोरं च चित्रं च प्रेक्षणीयं समन्ततः ॥ १६ ॥
सर्वेषां तत्र भूतानां लोमहर्षो व्यजायत ।तद्दृष्ट्वा समरे कर्म कर्णशैनेययोर्नृप ॥ १७ ॥
एतस्मिन्नन्तरे द्रौणिरभ्ययात्सुमहाबलम् ।पार्षतं शत्रुदमनं शत्रुवीर्यासुनाशनम् ॥ १८ ॥
अभ्यभाषत संक्रुद्धो द्रौणिर्दूरे धनंजये ।तिष्ठ तिष्ठाद्य ब्रह्मघ्न न मे जीवन्विमोक्ष्यसे ॥ १९ ॥
इत्युक्त्वा सुभृशं वीरः शीघ्रकृन्निशितैः शरैः ।पार्षतं छादयामास घोररूपैः सुतेजनैः ।यतमानं परं शक्त्या यतमानो महारथः ॥ २० ॥
यथा हि समरे द्रौणिः पार्षतं वीक्ष्य मारिष ।तथा द्रौणिं रणे दृष्ट्वा पार्षतः परवीरहा ।नातिहृष्टमना भूत्वा मन्यते मृत्युमात्मनः ॥ २१ ॥
द्रौणिस्तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे स्थितम् ।क्रोधेन निःश्वसन्वीरः पार्षतं समुपाद्रवत् ।तावन्योन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम् ॥ २२ ॥
अथाब्रवीन्महाराज द्रोणपुत्रः प्रतापवान् ।धृष्टद्युम्नं समीपस्थं त्वरमाणो विशां पते ।पाञ्चालापसदाद्य त्वां प्रेषयिष्यामि मृत्यवे ॥ २३ ॥
पापं हि यत्त्वया कर्म घ्नता द्रोणं पुरा कृतम् ।अद्य त्वा पत्स्यते तद्वै यथा ह्यकुशलं तथा ॥ २४ ॥
अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे ।नापक्रमसि वा मूढ सत्यमेतद्ब्रवीमि ते ॥ २५ ॥
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।प्रतिवाक्यं स एवासिर्मामको दास्यते तव ।येनैव ते पितुर्दत्तं यतमानस्य संयुगे ॥ २६ ॥
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ।त्वामिदानीं कथं युद्धे न हनिष्यामि विक्रमात् ॥ २७ ॥
एवमुक्त्वा महाराज सेनापतिरमर्षणः ।निशितेनाथ बाणेन द्रौणिं विव्याध पार्षतः ॥ २८ ॥
ततो द्रौणिः सुसंक्रुद्धः शरैः संनतपर्वभिः ।प्राच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥ २९ ॥
नैवान्तरिक्षं न दिशो नैव योधाः समन्ततः ।दृश्यन्ते वै महाराज शरैश्छन्नाः सहस्रशः ॥ ३० ॥
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् ।शरैः संछादयामास सूतपुत्रस्य पश्यतः ॥ ३१ ॥
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः ।द्रौपदेयान्युधामन्युं सात्यकिं च महारथम् ।एकः स वारयामास प्रेक्षणीयः समन्ततः ॥ ३२ ॥
धृष्टद्युम्नोऽपि समरे द्रौणेश्चिच्छेद कार्मुकम् ।तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥ ३३ ॥
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ।हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥ ३४ ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।खड्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥ ३५ ॥
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ।चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ।रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ ३६ ॥
धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम् ।शरैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ।नातरद्भरतश्रेष्ठ यतमानो महारथः ॥ ३७ ॥
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न जग्मिवान् ।अथ त्यक्त्वा धनुर्वीरः पार्षतं त्वरितोऽन्वगात् ॥ ३८ ॥
आसीदाद्रवतो राजन्वेगस्तस्य महात्मनः ।गरुडस्येव पततो जिघृक्षोः पन्नगोत्तमम् ॥ ३९ ॥
एतस्मिन्नेव काले तु माधवोऽर्जुनमब्रवीत् ।पश्य पार्थ यथा द्रौणिः पार्षतस्य वधं प्रति ।यत्नं करोति विपुलं हन्याच्चैनमसंशयम् ॥ ४० ॥
तं मोचय महाबाहो पार्षतं शत्रुतापनम् ।द्रौणेरास्यमनुप्राप्तं मृत्योरास्यगतं यथा ॥ ४१ ॥
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् ।प्रैषयत्तत्र तुरगान्यत्र द्रौणिर्व्यवस्थितः ॥ ४२ ॥
ते हयाश्चन्द्रसंकाशाः केशवेन प्रचोदिताः ।पिबन्त इव तद्व्योम जग्मुर्द्रौणिरथं प्रति ॥ ४३ ॥
दृष्ट्वायान्तौ महावीर्यावुभौ कृष्णधनंजयौ ।धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥ ४४ ॥
विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर ।शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महाबलः ॥ ४५ ॥
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥ ४६ ॥
स विध्वस्तैः शरैर्घोरैर्द्रोणपुत्रः प्रतापवान् ।रथमारुरुहे वीरो धनंजयशरार्दितः ।प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥ ४७ ॥
एतस्मिन्नन्तरे वीरः सहदेवो जनाधिप ।अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥ ४८ ॥
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।तं द्रोणपुत्रः संक्रुद्धो बाह्वोरुरसि चार्दयत् ॥ ४९ ॥
क्रोधितस्तु रणे पार्थो नाराचं कालसंमितम् ।द्रोणपुत्राय चिक्षेप कालदण्डमिवापरम् ।स ब्राह्मणस्यांसदेशे निपपात महाद्युतिः ॥ ५० ॥
स विह्वलो महाराज शरवेगेन संयुगे ।निषसाद रथोपस्थे वैक्लव्यं च परं ययौ ॥ ५१ ॥
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः ।अर्जुनं समरे क्रुद्धः प्रेक्षमाणो मुहुर्मुहुः ।द्वैरथं चापि पार्थेन कामयानो महारणे ॥ ५२ ॥
तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम् ।अपोवाह रथेनाजौ त्वरमाणो रणाजिरात् ॥ ५३ ॥
अथोत्क्रुष्टं महाराज पाञ्चालैर्जितकाशिभिः ।मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥ ५४ ॥
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।सिंहनादश्च संजज्ञे दृष्ट्वा घोरं महाद्भुतम् ॥ ५५ ॥
एवं कृत्वाब्रवीत्पार्थो वासुदेवं धनंजयः ।याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥ ५६ ॥
ततः प्रयातो दाशार्हः श्रुत्वा पाण्डवभाषितम् ।रथेनातिपताकेन मनोमारुतरंहसा ॥ ५७ ॥
« »