Click on words to see what they mean.

संजय उवाच ।द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् ।द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥ १ ॥
किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् ।दर्शयन्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ॥ २ ॥
ततः खं पूरयामास शरैर्दिव्यास्त्रमन्त्रितैः ।युधिष्ठिरं च समरे पर्यवारयदस्त्रवित् ॥ ३ ॥
द्रौणायनिशरच्छन्नं न प्राज्ञायत किंचन ।बाणभूतमभूत्सर्वमायोधनशिरो हि तत् ॥ ४ ॥
बाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् ।शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ॥ ५ ॥
तेन छन्ने रणे राजन्बाणजालेन भास्वता ।अभ्रच्छायेव संजज्ञे बाणरुद्धे नभस्तले ॥ ६ ॥
तत्राश्चर्यमपश्याम बाणभूते तथाविधे ।न स्म संपतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ॥ ७ ॥
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः ।व्यस्मयन्त महाराज न चैनं प्रतिवीक्षितुम् ।शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ॥ ८ ॥
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः ।तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥ ९ ॥
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ।सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि संगताः ।त्यक्त्वा मृत्युभयं घोरं द्रौणायनिमुपाद्रवन् ॥ १० ॥
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः ।पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥ ११ ॥
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः ।श्रुतकर्मा त्रिभिर्बाणैः श्रुतकीर्तिस्तु सप्तभिः ॥ १२ ॥
सुतसोमश्च नवभिः शतानीकश्च सप्तभिः ।अन्ये च बहवः शूरा विव्यधुस्तं समन्ततः ॥ १३ ॥
सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् ।सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ॥ १४ ॥
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः ।अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः ।शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ॥ १५ ॥
अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् ।श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥ १६ ॥
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः ।द्रौणायनिं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ॥ १७ ॥
ततो द्रौणिर्महाराज शरवर्षेण भारत ।छादयामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ॥ १८ ॥
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् ।द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥ १९ ॥
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः ।द्रौणिं विव्याध सप्तत्या बाह्वोरुरसि चार्दयत् ॥ २० ॥
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे ।अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ॥ २१ ॥
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः ।सारथिं पातयामास शैनेयस्य रथाद्द्रुतम् ॥ २२ ॥
अथान्यद्धनुरादाय द्रोणपुत्रः प्रतापवान् ।शैनेयं शरवर्षेण छादयामास भारत ॥ २३ ॥
तस्याश्वाः प्रद्रुताः संख्ये पतिते रथसारथौ ।तत्र तत्रैव धावन्तः समदृश्यन्त भारत ॥ २४ ॥
युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् ।अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ॥ २५ ॥
आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परंतपः ।प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥ २६ ॥
ततः शरशतज्वालः सेनाकक्षं महारथः ।द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ॥ २७ ॥
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् ।चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ॥ २८ ॥
दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् ।निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ॥ २९ ॥
युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् ।अब्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ॥ ३० ॥
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता ।यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥ ३१ ॥
ब्राह्मणेन तपः कार्यं दानमध्ययनं तथा ।क्षत्रियेण धनुर्नाम्यं स भवान्ब्राह्मणब्रुवः ॥ ३२ ॥
मिषतस्ते महाबाहो जेष्यामि युधि कौरवान् ।कुरुष्व समरे कर्म ब्रह्मबन्धुरसि ध्रुवम् ॥ ३३ ॥
एवमुक्तो महाराज द्रोणपुत्रः स्मयन्निव ।युक्तत्वं तच्च संचिन्त्य नोत्तरं किंचिदब्रवीत् ॥ ३४ ॥
अनुक्त्वा च ततः किंचिच्छरवर्षेण पाण्डवम् ।छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥ ३५ ॥
संछाद्यमानस्तु तदा द्रोणपुत्रेण मारिष ।पार्थोऽपयातः शीघ्रं वै विहाय महतीं चमूम् ॥ ३६ ॥
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे ।द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥ ३७ ॥
ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे ।प्रययौ तावकं सैन्यं युक्तः क्रूराय कर्मणे ॥ ३८ ॥
« »