Click on words to see what they mean.

संजय उवाच ।कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष ।उलूकः सौबलश्चैव राजा च सह सोदरैः ॥ १ ॥
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम् ।समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ॥ २ ॥
ततो युद्धमतीवासीन्मुहूर्तमिव भारत ।भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ३ ॥
कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे ।सृञ्जयाः शातयामासुः शलभानां व्रजा इव ॥ ४ ॥
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ ।ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे ॥ ५ ॥
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् ।शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ॥ ६ ॥
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे ।कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ॥ ७ ॥
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः ।व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ॥ ८ ॥
हताश्वात्तु ततो यानादवप्लुत्य महारथः ।चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ ॥ ९ ॥
तमापतन्तं सहसा शरैः संनतपर्वभिः ।छादयामास समरे तदद्भुतमिवाभवत् ॥ १० ॥
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा ।निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ॥ ११ ॥
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् ।प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ॥ १२ ॥
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति ।प्रतिजग्राह वेगेन कृतवर्मा महारथः ॥ १३ ॥
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति ।सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत् ॥ १४ ॥
नकुलं सहदेवं च त्वरमाणौ महारथौ ।प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन् ॥ १५ ॥
भीमसेनं करूषांश्च केकयान्सहसृञ्जयान् ।कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ १६ ॥
शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि ।प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष ॥ १७ ॥
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् ।चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः ॥ १८ ॥
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह ।व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः ॥ १९ ॥
स विचर्मा महाराज खड्गपाणिरुपाद्रवत् ।कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ॥ २० ॥
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम् ।चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ ॥ २१ ॥
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः ।अभ्यापतदमेयात्मा गौतमस्य रथं प्रति ॥ २२ ॥
दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम् ।अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम ॥ २३ ॥
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः ।विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ॥ २४ ॥
अथास्य सशरं चापं पुनश्चिच्छेद मारिष ।सारथिं च शरेणास्य भृशं मर्मण्यताडयत् ॥ २५ ॥
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् ।सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत् ॥ २६ ॥
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे ।भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ॥ २७ ॥
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम् ।सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत् ॥ २८ ॥
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् ।ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः ॥ २९ ॥
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः ।गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ॥ ३० ॥
धृष्टद्युम्नं तु समरे संनिवार्य महाबलः ।कृतवर्माब्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ॥ ३१ ॥
तदभूत्तुमुलं युद्धं वृष्णिपार्षतयो रणे ।आमिषार्थे यथा युद्धं श्येनयोर्गृद्धयोर्नृप ॥ ३२ ॥
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः ।आजघानोरसि क्रुद्धः पीडयन्हृदिकात्मजम् ॥ ३३ ॥
कृतवर्मा तु समरे पार्षतेन दृढाहतः ।पार्षतं सरथं साश्वं छादयामास सायकैः ॥ ३४ ॥
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते ।मेघैरिव परिच्छन्नो भास्करो जलदागमे ॥ ३५ ॥
विधूय तं बाणगणं शरैः कनकभूषणैः ।व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ॥ ३६ ॥
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् ।कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ॥ ३७ ॥
तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् ।शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ॥ ३८ ॥
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् ।कृतवर्माणमभ्येत्य वारयामास पार्षतः ॥ ३९ ॥
सारथिं चास्य तरसा प्राहिणोद्यमसादनम् ।भल्लेन शितधारेण स हतः प्रापतद्रथात् ॥ ४० ॥
धृष्टद्युम्नस्तु बलवाञ्जित्वा शत्रुं महारथम् ।कौरवान्समरे तूर्णं वारयामास सायकैः ॥ ४१ ॥
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् ।सिंहनादरवं कृत्वा ततो युद्धमवर्तत ॥ ४२ ॥
« »