Click on words to see what they mean.

संजय उवाच ।भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम् ।वैकर्तनः स्वयं रुद्ध्वा वारयामास सायकैः ॥ १ ॥
ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् ।कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः ॥ २ ॥
भीमसेनस्ततः कर्णं विहाय रथसत्तमम् ।प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥ ३ ॥
सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा ।सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥ ४ ॥
संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ॥ ५ ॥
ते क्षत्रिया दह्यमानास्त्रिभिस्तैः पावकोपमैः ।जग्मुर्विनाशं समरे राजन्दुर्मन्त्रिते तव ॥ ६ ॥
ततो दुर्योधनः क्रुद्धो नकुलं नवभिः शरैः ।विव्याध भरतश्रेष्ठ चतुरश्चास्य वाजिनः ॥ ७ ॥
ततः पुनरमेयात्मा तव पुत्रो जनाधिपः ।क्षुरेण सहदेवस्य ध्वजं चिच्छेद काञ्चनम् ॥ ८ ॥
नकुलस्तु ततः क्रुद्धस्तव पुत्रं त्रिसप्तभिः ।जघान समरे राजन्सहदेवश्च पञ्चभिः ॥ ९ ॥
तावुभौ भरतश्रेष्ठौ श्रेष्ठौ सर्वधनुष्मताम् ।विव्याधोरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः ॥ १० ॥
ततोऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत ।यमयोः प्रहसन्राजन्विव्याधैव च सप्तभिः ॥ ११ ॥
तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ १२ ॥
ततस्तौ रभसौ युद्धे भ्रातरौ भ्रातरं नृप ।शरैर्ववर्षतुर्घोरैर्महामेघौ यथाचलम् ॥ १३ ॥
ततः क्रुद्धो महाराज तव पुत्रो महारथः ।पाण्डुपुत्रौ महेष्वासौ वारयामास पत्रिभिः ॥ १४ ॥
धनुर्मण्डलमेवास्य दृश्यते युधि भारत ।सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥ १५ ॥
तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ ।मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ॥ १६ ॥
ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः ।आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ॥ १७ ॥
बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले ।यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ॥ १८ ॥
पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ।मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥ १९ ॥
ततः सेनापती राजन्पाण्डवस्य महात्मनः ।पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥ २० ॥
माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ।धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ॥ २१ ॥
तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः ।पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ॥ २२ ॥
ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते ।विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥ २३ ॥
अथास्य सशरं चापं हस्तावापं च मारिष ।क्षुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे ॥ २४ ॥
तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ।अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥ २५ ॥
प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः ।अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥ २६ ॥
स पञ्चदश नाराचाञ्श्वसतः पन्नगानिव ।जिघांसुर्भरतश्रेष्ठं धृष्टद्युम्नो व्यवासृजत् ॥ २७ ॥
ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः ।विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥ २८ ॥
सोऽतिविद्धो महाराज पुत्रस्तेऽतिव्यराजत ।वसन्ते पुष्पशबलः सपुष्प इव किंशुकः ॥ २९ ॥
स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः ।धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥ ३० ॥
अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ।सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ॥ ३१ ॥
तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ।प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ॥ ३२ ॥
तदपास्य धनुश्छिन्नं धृष्टद्युम्नो महामनाः ।अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ॥ ३३ ॥
ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः ।धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥ ३४ ॥
रथं सोपस्करं छत्रं शक्तिं खड्गं गदां ध्वजम् ।भल्लैश्चिच्छेद नवभिः पुत्रस्य तव पार्षतः ॥ ३५ ॥
तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् ।ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ ३६ ॥
दुर्योधनं तु विरथं छिन्नसर्वायुधं रणे ।भ्रातरः पर्यरक्षन्त सोदर्या भरतर्षभ ॥ ३७ ॥
तमारोप्य रथे राजन्दण्डधारो जनाधिपम् ।अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥ ३८ ॥
कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः ।द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ॥ ३९ ॥
तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः ।वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥ ४० ॥
स भारत महानासीद्योधानां सुमहात्मनाम् ।कर्णपार्षतयोर्मध्ये त्वदीयानां महारणः ॥ ४१ ॥
न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः ।प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥ ४२ ॥
तस्मिन्क्षणे नरश्रेष्ठ गजवाजिनरक्षयः ।प्रादुरासीदुभयतो राजन्मध्यंगतेऽहनि ॥ ४३ ॥
पाञ्चालास्तु महाराज त्वरिता विजिगीषवः ।सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ॥ ४४ ॥
तेषामाधिरथिः क्रुद्धो यतमानान्मनस्विनः ।विचिन्वन्नेव बाणाग्रैः समासादयदग्रतः ॥ ४५ ॥
व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम् ।शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ॥ ४६ ॥
ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् ।सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ॥ ४७ ॥
युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् ।अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ॥ ४८ ॥
अथापरान्महाराज सूतपुत्रः प्रतापवान् ।जघान बहुसाहस्रान्योधान्युद्धविशारदः ॥ ४९ ॥
विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च ।दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ॥ ५० ॥
सिंहकेतुं रोचमानं शलभं च महारथम् ।निजघान सुसंक्रुद्धश्चेदीनां च महारथान् ॥ ५१ ॥
तेषामाददतः प्राणानासीदाधिरथेर्वपुः ।शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ॥ ५२ ॥
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ।सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥ ५३ ॥
निपेतुरुर्व्यां समरे कर्णसायकपीडिताः ।कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥ ५४ ॥
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः ।रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ॥ ५५ ॥
नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः ।चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ॥ ५६ ॥
सूतपुत्रेण नागेषु रथेषु च हयेषु च ।नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ॥ ५७ ॥
मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ।पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥ ५८ ॥
यथा मृगगणांस्त्रस्तान्सिंहो द्रावयते दिशः ।पाञ्चालानां रथव्रातान्कर्णो द्रावयते तथा ॥ ५९ ॥
सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् ।तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ॥ ६० ॥
वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः ।कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जयाः ॥ ६१ ॥
कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत ।विश्राव्य नाम निहता बहवः शूरसंमताः ॥ ६२ ॥
मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् ।नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ॥ ६३ ॥
पाञ्चालान्विधमन्संख्ये सूतपुत्रः प्रतापवान् ।अभ्यधावत संक्रुद्धो धर्मपुत्रं युधिष्ठिरम् ॥ ६४ ॥
धृष्टद्युम्नश्च राजानं द्रौपदेयाश्च मारिष ।परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ॥ ६५ ॥
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा ।जनमेजयः शिनेर्नप्ता बहवश्च प्रभद्रकाः ॥ ६६ ॥
एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संयुगे ।कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ॥ ६७ ॥
तांस्तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान् ।एको बहूनभ्यपतद्गरुत्मन्पन्नगानिव ॥ ६८ ॥
भीमसेनस्तु संक्रुद्धः कुरून्मद्रान्सकेकयान् ।एकः संख्ये महेष्वासो योधयन्बह्वशोभत ॥ ६९ ॥
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः ।प्रपतन्तो हतारोहाः कम्पयन्ति स्म मेदिनीम् ॥ ७० ॥
वाजिनश्च हतारोहाः पत्तयश्च गतासवः ।शेरते युधि निर्भिन्ना वमन्तो रुधिरं बहु ॥ ७१ ॥
सहस्रशश्च रथिनः पतिताः पतितायुधाः ।अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ॥ ७२ ॥
रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः ।भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ॥ ७३ ॥
तत्स्तम्भितमिवातिष्ठद्भीमसेनबलार्दितम् ।दुर्योधनबलं राजन्निरुत्साहं कृतव्रणम् ॥ ७४ ॥
निश्चेष्टं तुमुले दीनं बभौ तस्मिन्महारणे ।प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ॥ ७५ ॥
मन्युवीर्यबलोपेतं बलात्पर्यवरोपितम् ।अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा ।रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह ॥ ७६ ॥
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् ।भीमसेनः कुरूंश्चापि द्रावयन्बह्वशोभत ॥ ७७ ॥
वर्तमाने तथा रौद्रे संग्रामेऽद्भुतदर्शने ।निहत्य पृतनामध्ये संशप्तकगणान्बहून् ॥ ७८ ॥
अर्जुनो जयतां श्रेष्ठो वासुदेवमथाब्रवीत् ।प्रभग्नं बलमेतद्धि योत्स्यमानं जनार्दन ॥ ७९ ॥
एते धावन्ति सगणाः संशप्तकमहारथाः ।अपारयन्तो मद्बाणान्सिंहशब्दान्मृगा इव ॥ ८० ॥
दीर्यते च महत्सैन्यं सृञ्जयानां महारणे ।हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः ।दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ॥ ८१ ॥
न च कर्णं रणे शक्ता जेतुमन्ये महारथाः ।जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ॥ ८२ ॥
तत्र याहि यतः कर्णो द्रावयत्येष नो बलम् ॥ ८३ ॥
वर्जयित्वा रणे याहि सूतपुत्रं महारथम् ।श्रमो मा बाधते कृष्ण यथा वा तव रोचते ॥ ८४ ॥
एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव ।अब्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ॥ ८५ ॥
ततस्तव महत्सैन्यं गोविन्दप्रेरिता हयाः ।हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ॥ ८६ ॥
केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः ।प्रविशद्भिस्तव बलं चतुर्दिशमभिद्यत ॥ ८७ ॥
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ ।क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ॥ ८८ ॥
युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् ।यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ॥ ८९ ॥
क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ बभूवतुः ।तलशब्देन रुषितौ यथा नागौ महाहवे ॥ ९० ॥
विगाहन्स रथानीकमश्वसंघांश्च फल्गुनः ।व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ॥ ९१ ॥
तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत ।संशप्तकगणान्भूयः पुत्रस्ते समचोदयत् ॥ ९२ ॥
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः ।चतुर्दशसहस्रैश्च तुरगाणां महाहवे ॥ ९३ ॥
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् ।शूराणां नामलब्धानां विदितानां समन्ततः ।अभ्यवर्तन्त तौ वीरौ छादयन्तो महारथाः ॥ ९४ ॥
स छाद्यमानः समरे शरैः परबलार्दनः ।दर्शयन्रौद्रमात्मानं पाशहस्त इवान्तकः ।निघ्नन्संशप्तकान्पार्थः प्रेक्षणीयतरोऽभवत् ॥ ९५ ॥
ततो विद्युत्प्रभैर्बाणैः कार्तस्वरविभूषितैः ।निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ॥ ९६ ॥
किरीटिभुजनिर्मुक्तैः संपतद्भिर्महाशरैः ।समाच्छन्नं बभौ सर्वं काद्रवेयैरिव प्रभो ॥ ९७ ॥
रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः ।अदर्शयदमेयात्मा दिक्षु सर्वासु पाण्डवः ॥ ९८ ॥
हत्वा दश सहस्राणि पार्थिवानां महारथः ।संशप्तकानां कौन्तेयः प्रपक्षं त्वरितोऽभ्ययात् ॥ ९९ ॥
प्रपक्षं स समासाद्य पार्थः काम्बोजरक्षितम् ।प्रममाथ बलाद्बाणैर्दानवानिव वासवः ॥ १०० ॥
प्रचिच्छेदाशु भल्लैश्च द्विषतामाततायिनाम् ।शस्त्रपाणींस्तथा बाहूंस्तथापि च शिरांस्युत ॥ १०१ ॥
अङ्गाङ्गावयवैश्छिन्नैर्व्यायुधास्तेऽपतन्क्षितौ ।विष्वग्वाताभिसंभग्ना बहुशाखा इव द्रुमाः ॥ १०२ ॥
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् ।सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ॥ १०३ ॥
अस्यास्यतोऽर्धचन्द्राभ्यां स बाहू परिघोपमौ ।पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ॥ १०४ ॥
स पपात ततो वाहात्स्वलोहितपरिस्रवः ।मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ॥ १०५ ॥
सुदक्षिणादवरजं काम्बोजं ददृशुर्हतम् ।प्रांशुं कमलपत्राक्षमत्यर्थं प्रियदर्शनम् ।काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा ॥ १०६ ॥
ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् ।नानावस्थाश्च योधानां बभूवुस्तत्र युध्यताम् ॥ १०७ ॥
एतेष्वावर्जितैरश्वैः काम्बोजैर्यवनैः शकैः ।शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ॥ १०८ ॥
रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः ।द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः ।अन्योन्येन महाराज कृतो घोरो जनक्षयः ॥ १०९ ॥
तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना ।अर्जुनं जयतां श्रेष्ठं त्वरितो द्रौणिराययौ ॥ ११० ॥
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् ।आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ॥ १११ ॥
तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।संछादितौ रथस्थौ तावुभौ कृष्णधनंजयौ ॥ ११२ ॥
ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् ।निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ॥ ११३ ॥
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा ।चराचरस्य गोप्तारौ दृष्ट्वा संछादितौ शरैः ॥ ११४ ॥
सिद्धचारणसंघाश्च संपेतुर्वै समन्ततः ।चिन्तयन्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ॥ ११५ ॥
न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः ।संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः ॥ ११६ ॥
द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे ।अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥ ११७ ॥
ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः ।विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ॥ ११८ ॥
स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ॥ ११९ ॥
स विक्रमं हृतं मेने आत्मनः सुमहात्मना ।तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥ १२० ॥
द्रौणिपाण्डवयोरेवं वर्तमाने महारणे ।वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ।हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ॥ १२१ ॥
स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा ।द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः ॥ १२२ ॥
ततः क्रुद्धोऽब्रवीत्कृष्णः पार्थं सप्रणयं तदा ।अत्यद्भुतमिदं पार्थ तव पश्यामि संयुगे ।अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ॥ १२३ ॥
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन ।कच्चित्कुशलिनौ बाहू कच्चिद्वीर्यं तदेव ते ॥ १२४ ॥
एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश ।त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ।ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ॥ १२५ ॥
जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् ।स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ॥ १२६ ॥
तं विसंज्ञं महाराज किरीटिभयपीडितम् ।अपोवाह रणात्सूतो रक्षमाणो धनंजयात् ॥ १२७ ॥
एतस्मिन्नेव काले तु विजयः शत्रुतापनः ।न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः ।पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ॥ १२८ ॥
एवमेष क्षयो वृत्तस्तावकानां परैः सह ।क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ॥ १२९ ॥
संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः ।वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ॥ १३० ॥
« »