Click on words to see what they mean.

संजय उवाच ।वर्तमाने तदा युद्धे क्षत्रियाणां निमज्जने ।गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ॥ १ ॥
संशप्तकानां कदनमकरोद्यत्र पाण्डवः ।कोसलानां तथा राजन्नारायणबलस्य च ॥ २ ॥
संशप्तकास्तु समरे शरवृष्टिं समन्ततः ।अपातयन्पार्थमूर्ध्नि जयगृद्धाः प्रमन्यवः ॥ ३ ॥
तां वृष्टिं सहसा राजंस्तरसा धारयन्प्रभुः ।व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ॥ ४ ॥
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः ।आससाद रणे पार्थः सुशर्माणं महारथम् ॥ ५ ॥
स तस्य शरवर्षाणि ववर्ष रथिनां वरः ।तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ॥ ६ ॥
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः ।जनार्दनं त्रिभिर्बाणैरभ्यहन्दक्षिणे भुजे ।ततोऽपरेण भल्लेन केतुं विव्याध मारिष ॥ ७ ॥
स वानरवरो राजन्विश्वकर्मकृतो महान् ।ननाद सुमहन्नादं भीषयन्वै ननर्द च ॥ ८ ॥
कपेस्तु निनदं श्रुत्वा संत्रस्ता तव वाहिनी ।भयं विपुलमादाय निश्चेष्टा समपद्यत ॥ ९ ॥
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप ।नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ॥ १० ॥
प्रतिलभ्य ततः संज्ञां योधास्ते कुरुसत्तम ।अर्जुनं सिषिचुर्बाणैः पर्वतं जलदा इव ।परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ॥ ११ ॥
ते हयान्रथचक्रे च रथेषाश्चापि भारत ।निगृह्य बलवत्तूर्णं सिंहनादमथानदन् ॥ १२ ॥
अपरे जगृहुश्चैव केशवस्य महाभुजौ ।पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ॥ १३ ॥
केशवस्तु तदा बाहू विधुन्वन्रणमूर्धनि ।पातयामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ॥ १४ ॥
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः ।निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् ।रथारूढांश्च सुबहून्पदातींश्चाप्यपातयत् ॥ १५ ॥
आसन्नांश्च ततो योधाञ्शरैरासन्नयोधिभिः ।च्यावयामास समरे केशवं चेदमब्रवीत् ॥ १६ ॥
पश्य कृष्ण महाबाहो संशप्तकगणान्मया ।कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ॥ १७ ॥
रथबन्धमिमं घोरं पृथिव्यां नास्ति कश्चन ।यः सहेत पुमाँल्लोके मदन्यो यदुपुंगव ॥ १८ ॥
इत्येवमुक्त्वा बीभत्सुर्देवदत्तमथाधमत् ।पाञ्चजन्यं च कृष्णोऽपि पूरयन्निव रोदसी ॥ १९ ॥
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी ।संचचाल महाराज वित्रस्ता चाभवद्भृशम् ॥ २० ॥
पदबन्धं ततश्चक्रे पाण्डवः परवीरहा ।नागमस्त्रं महाराज संप्रोदीर्य मुहुर्मुहुः ॥ २१ ॥
यानुद्दिश्य रणे पार्थः पदबन्धं चकार ह ।ते बद्धाः पदबन्धेन पाण्डवेन महात्मना ।निश्चेष्टा अभवन्राजन्नश्मसारमया इव ॥ २२ ॥
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः ।यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ॥ २३ ॥
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् ।आयुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ॥ २४ ॥
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् ।सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ॥ २५ ॥
ततः सुपर्णाः संपेतुर्भक्षयन्तो भुजंगमान् ।ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ॥ २६ ॥
बभौ बलं तद्विमुक्तं पदबन्धाद्विशां पते ।मेघवृन्दाद्यथा मुक्तो भास्करस्तापयन्प्रजाः ॥ २७ ॥
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति ।ससृजुर्बाणसंघांश्च शस्त्रसंघांश्च मारिष ॥ २८ ॥
तां महास्त्रमयीं वृष्टिं संछिद्य शरवृष्टिभिः ।व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ॥ २९ ॥
सुशर्मा तु ततो राजन्बाणेनानतपर्वणा ।अर्जुनं हृदये विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः ।स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥ ३० ॥
प्रतिलभ्य ततः संज्ञां श्वेताश्वः कृष्णसारथिः ।ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे त्वरान्वितः ।ततो बाणसहस्राणि समुत्पन्नानि मारिष ॥ ३१ ॥
सर्वदिक्षु व्यदृश्यन्त सूदयन्तो नृप द्विपान् ।हयान्रथांश्च समरे शस्त्रैः शतसहस्रशः ॥ ३२ ॥
वध्यमाने ततः सैन्ये विपुला भीः समाविशत् ।संशप्तकगणानां च गोपालानां च भारत ।न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ॥ ३३ ॥
पश्यतां तत्र वीराणामहन्यत महद्बलम् ।हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ॥ ३४ ॥
अयुतं तत्र योधानां हत्वा पाण्डुसुतो रणे ।व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ॥ ३५ ॥
चतुर्दश सहस्राणि यानि शिष्टानि भारत ।रथानामयुतं चैव त्रिसाहस्राश्च दन्तिनः ॥ ३६ ॥
ततः संशप्तका भूयः परिवव्रुर्धनंजयम् ।मर्तव्यमिति निश्चित्य जयं वापि निवर्तनम् ॥ ३७ ॥
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते ।शूरेण बलिना सार्धं पाण्डवेन किरीटिना ॥ ३८ ॥
« »