Click on words to see what they mean.

संजय उवाच ।क्षत्रियास्ते महाराज परस्परवधैषिणः ।अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥ १ ॥
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।गजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥ २ ॥
गदानां परिघाणां च कणपानां च सर्पताम् ।प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥ ३ ॥
संपातं चान्वपश्याम संग्रामे भृशदारुणे ।शलभा इव संपेतुः समन्ताच्छरवृष्टयः ॥ ४ ॥
नागा नागान्समासाद्य व्यधमन्त परस्परम् ।हया हयांश्च समरे रथिनो रथिनस्तथा ।पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा ॥ ५ ॥
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च ।नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥ ६ ॥
पततां तत्र शूराणां क्रोशतां च परस्परम् ।घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥ ७ ॥
रुधिरेण समास्तीर्णा भाति भारत मेदिनी ।शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ॥ ८ ॥
यथा वा वाससी शुक्ले महारजनरञ्जिते ।बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा ।मांसशोणितचित्रेव शातकौम्भमयीव च ॥ ९ ॥
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।कुण्डलानां प्रविद्धानां भूषणानां च भारत ॥ १० ॥
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् ।वर्मणां सपताकानां संघास्तत्रापतन्भुवि ॥ ११ ॥
गजान्गजाः समासाद्य विषाणाग्रैरदारयन् ।विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥ १२ ॥
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव ।यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥ १३ ॥
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् ।हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥ १४ ॥
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः ।हिमागमे महाराज व्यभ्रा इव महीधराः ॥ १५ ॥
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः ।उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥ १६ ॥
केचिदभ्याहता नागा नागैर्नगनिभा भुवि ।निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥ १७ ॥
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः ।प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥ १८ ॥
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥ १९ ॥
हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः ।निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥ २० ॥
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले ।भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥ २१ ॥
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष ।दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥ २२ ॥
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत ।गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥ २३ ॥
तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥ २४ ॥
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः ।वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥ २५ ॥
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते ।लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥ २६ ॥
वर्तमाने तथा घोरे संकुले सर्वतोदिशम् ।अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥ २७ ॥
भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले ।नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥ २८ ॥
तथा तदभवद्युद्धं घोररूपं भयानकम् ।शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥ २९ ॥
शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः ।अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः ॥ ३० ॥
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः ।नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥ ३१ ॥
ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् ।अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥ ३२ ॥
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह ।घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ॥ ३३ ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः ॥ ३४ ॥
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत ।मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ।धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥ ३५ ॥
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् ।योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥ ३६ ॥
शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले ।व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ॥ ३७ ॥
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।पितृनामानि च रणे गोत्रनामानि चाभितः ॥ ३८ ॥
श्रावयन्तो हि बहवस्तत्र योधा विशां पते ।अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥ ३९ ॥
वर्तमाने तदा युद्धे घोररूपे सुदारुणे ।व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥ ४० ॥
« »