Click on words to see what they mean.

धृतराष्ट्र उवाच ।सुदुष्करमिदं कर्म कृतं भीमेन संजय ।येन कर्णो महाबाहू रथोपस्थे निपातितः ॥ १ ॥
कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह ।इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥ २ ॥
पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥ ३ ॥
संजय उवाच ।विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।महत्या सेनया राजन्सोदर्यान्समभाषत ॥ ४ ॥
शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।भीमसेनभयागाधे मज्जन्तं व्यसनार्णवे ॥ ५ ॥
ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः ।अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् ॥ ६ ॥
श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥ ७ ॥
दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ॥ ८ ॥
एते रथैः परिवृता वीर्यवन्तो महाबलाः ।भीमसेनं समासाद्य समन्तात्पर्यवारयन् ।ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ॥ ९ ॥
स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ।तेषामापततां क्षिप्रं सुतानां ते नराधिप ।रथैः पञ्चाशता सार्धं पञ्चाशन्न्यहनद्रथान् ॥ १० ॥
विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तदा ।भीमेन च महाराज स पपात हतो भुवि ॥ ११ ॥
तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतः प्रभो ।अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥ १२ ॥
ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।जहार समरे प्राणान्भीमो भीमपराक्रमः ॥ १३ ॥
तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।विकटश्च समश्चोभौ देवगर्भसमौ नृप ॥ १४ ॥
ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥ १५ ॥
हाहाकारस्ततस्तीव्रः संबभूव जनेश्वर ।वध्यमानेषु ते राजंस्तदा पुत्रेषु धन्विषु ॥ १६ ॥
तेषां संलुलिते सैन्ये भीमसेनो महाबलः ।नन्दोपनन्दौ समरे प्रापयद्यमसादनम् ॥ १७ ॥
ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥ १८ ॥
पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः ।हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ॥ १९ ॥
ते प्रेषिता महाराज मद्रराजेन वाजिनः ।भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥ २० ॥
स संनिपातस्तुमुलो घोररूपो विशां पते ।आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥ २१ ॥
दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ॥ २२ ॥
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव ।विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥ २३ ॥
विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः ।गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ॥ २४ ॥
नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः ॥ २५ ॥
दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च ।मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ॥ २६ ॥
ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः ।महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ॥ २७ ॥
तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ॥ २८ ॥
ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ॥ २९ ॥
तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् ।न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥ ३० ॥
प्रताप्यमानं सूर्येण भीमेन च महात्मना ।तव सैन्यं संचुकोच चर्म वह्निगतं यथा ॥ ३१ ॥
ते भीमभयसंत्रस्तास्तावका भरतर्षभ ।विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ॥ ३२ ॥
रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः ।भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ॥ ३३ ॥
तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् ।पोथयामास गदया भीमो विष्णुरिवासुरान् ॥ ३४ ॥
ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः ।त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥ ३५ ॥
तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा ।विचरन्विविधान्मार्गान्घातयामास पोथयन् ॥ ३६ ॥
तेषामासीन्महाञ्शब्दस्ताडितानां च सार्वशः ।असिभिश्छिद्यमानानां नडानामिव भारत ॥ ३७ ॥
एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥ ३८ ॥
कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् ।शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ॥ ३९ ॥
ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः ।अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥ ४० ॥
राजानमभि धावन्तं शरैरावृत्य रोदसी ।क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥ ४१ ॥
संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥ ४२ ॥
भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः ।अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ।अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ॥ ४३ ॥
तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।विसृजन्तौ शरांश्चित्रान्विभ्राजेतां मनस्विनौ ॥ ४४ ॥
ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम् ।क्रौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥ ४५ ॥
नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः ।प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ॥ ४६ ॥
मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥ ४७ ॥
सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ ४८ ॥
तेषामापततां शब्दस्तीव्र आसीद्विशां पते ।उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥ ४९ ॥
ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे ।हर्षेण महता युक्ते परिगृह्य परस्परम् ॥ ५० ॥
ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ॥ ५१ ॥
बलौघस्तु समासाद्य बलौघं सहसा रणे ।उपासर्पत वेगेन जलौघ इव सागरम् ॥ ५२ ॥
आसीन्निनादः सुमहान्बलौघानां परस्परम् ।गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ॥ ५३ ॥
ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।एकीभावमनुप्राप्ते नद्याविव समागमे ॥ ५४ ॥
ततः प्रववृते युद्धं घोररूपं विशां पते ।कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥ ५५ ॥
कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः ।श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥ ५६ ॥
यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा ।कर्मतः शीलतो वापि स तच्छ्रावयते युधि ॥ ५७ ॥
तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् ।अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥ ५८ ॥
तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ।अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥ ५९ ॥
ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥ ६० ॥
« »