Click on words to see what they mean.

संजय उवाच ।तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् ।क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत ॥ १ ॥
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात् ।उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे ॥ २ ॥
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान् ।हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम् ॥ ३ ॥
ते प्रेषिता महाराज शल्येनाहवशोभिना ।भीमसेनरथं प्राप्य समसज्जन्त वाजिनः ॥ ४ ॥
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः ।मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ ॥ ५ ॥
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम् ।एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम् ।संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम ॥ ६ ॥
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः ।दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना ॥ ७ ॥
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत ।हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति ।संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः ॥ ८ ॥
राजानमद्य भवतां न्यासभूतं ददामि वै ।अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥ ९ ॥
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति ।सिंहनादेन महता सर्वाः संनादयन्दिशः ॥ १० ॥
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् ।सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥ ११ ॥
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम् ।दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥ १२ ॥
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन ।अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे ॥ १३ ॥
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे ।बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम् ॥ १४ ॥
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप ।अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः ॥ १५ ॥
तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम् ।अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥ १६ ॥
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर ।भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥ १७ ॥
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः ।निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥ १८ ॥
अज्ञातवासं वसता विराटनगरे तदा ।द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ।गूढभावं समाश्रित्य कीचकः सगणो हतः ॥ १९ ॥
सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः ।किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥ २० ॥
चिरकालाभिलषितो ममायं तु मनोरथः ।अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः ।स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥ २१ ॥
निहते भीमसेने तु यदि वा विरथीकृते ।अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ।अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय ॥ २२ ॥
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः ।उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥ २३ ॥
अभियासि महाबाहो भीमसेनं महाबलम् ।निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम् ॥ २४ ॥
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः ।स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥ २५ ॥
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत ।हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः ।युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥ २६ ॥
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते ।यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥ २७ ॥
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः ।उदतिष्ठत राजेन्द्र कर्णभीमसमागमे ॥ २८ ॥
भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम् ।नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥ २९ ॥
स संनिपातस्तुमुलो भीमरूपो विशां पते ।आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ।ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत् ॥ ३० ॥
तमापतन्तं संप्रेक्ष्य कर्णो वैकर्तनो वृषः ।आजघानोरसि क्रुद्धो नाराचेन स्तनान्तरे ।पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥ ३१ ॥
स विद्धः सूतपुत्रेण छादयामास पत्रिभिः ।विव्याध निशितैः कर्ण नवभिर्नतपर्वभिः ॥ ३२ ॥
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिणा ।अथ तं छिन्नधन्वानमभ्यविध्यत्स्तनान्तरे ।नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥ ३३ ॥
सोऽन्यत्कार्मुकमादाय सूतपुत्रं वृकोदरः ।राजन्मर्मसु मर्मज्ञो विद्ध्वा सुनिशितैः शरैः ।ननाद बलवन्नादं कम्पयन्निव रोदसी ॥ ३४ ॥
तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत् ।मदोत्कटं वने दृप्तमुल्काभिरिव कुञ्जरम् ॥ ३५ ॥
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः ।संरम्भामर्षताम्राक्षः सूतपुत्रवधेच्छया ॥ ३६ ॥
स कार्मुके महावेगं भारसाधनमुत्तमम् ।गिरीणामपि भेत्तारं सायकं समयोजयत् ॥ ३७ ॥
विकृष्य बलवच्चापमा कर्णादतिमारुतिः ।तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥ ३८ ॥
स विसृष्टो बलवता बाणो वज्राशनिस्वनः ।अदारयद्रणे कर्णं वज्रवेग इवाचलम् ॥ ३९ ॥
स भीमसेनाभिहतो सूतपुत्रः कुरूद्वह ।निषसाद रथोपस्थे विसंज्ञः पृतनापतिः ॥ ४० ॥
ततो मद्राधिपो दृष्ट्वा विसंज्ञं सूतनन्दनम् ।अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥ ४१ ॥
ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम् ।व्यद्रावयद्भीमसेनो यथेन्द्रो दानवीं चमूम् ॥ ४२ ॥
« »