Click on words to see what they mean.

संजय उवाच ।विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत् ।रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः ॥ १ ॥
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः ।छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः ॥ २ ॥
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः ।ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः ॥ ३ ॥
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः ।अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे ॥ ४ ॥
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः ।पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा ॥ ५ ॥
एवं योधशतान्याजौ सहस्राण्ययुतानि च ।हतानीयुर्महीं देहैर्यशसापूरयन्दिशः ॥ ६ ॥
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम् ।रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव ॥ ७ ॥
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम् ।मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा ॥ ८ ॥
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः ।नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा ॥ ९ ॥
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम् ।अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः ॥ १० ॥
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु ।सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना ।तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः ॥ ११ ॥
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु ।तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः ।युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे ॥ १२ ॥
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा ।सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः ॥ १३ ॥
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः ।वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत ॥ १४ ॥
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः ।जघान समरे शूरः शरैः संनतपर्वभिः ॥ १५ ॥
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः ।रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू ॥ १६ ॥
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः ।सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत् ॥ १७ ॥
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम् ।तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः ॥ १८ ॥
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम् ।भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा ॥ १९ ॥
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम् ।सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः ॥ २० ॥
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च ।धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ २१ ॥
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः ।कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः ।एते च त्वरिता वीरा वसुषेणमवारयन् ॥ २२ ॥
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः ।वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः ।वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः ॥ २३ ॥
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः ।सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया ॥ २४ ॥
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः ।उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः ॥ २५ ॥
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः ।निर्दहन्पाण्डववनं चारु पर्यचरद्रणे ॥ २६ ॥
स संवार्य महास्त्राणि महेष्वासो महात्मनाम् ।प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम् ॥ २७ ॥
ततः संधाय नवतिं निमेषान्नतपर्वणाम् ।बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः ॥ २८ ॥
तद्वर्म हेमविकृतं रराज निपतत्तदा ।सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा ॥ २९ ॥
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत ।रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः ॥ ३० ॥
स विवर्मा शरैः पार्थो रुधिरेण समुक्षितः ।क्रुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं प्रति ॥ ३१ ॥
तां ज्वलन्तीमिवाकाशे शरैश्चिच्छेद सप्तभिः ।सा छिन्ना भूमिमपतन्महेष्वासस्य सायकैः ॥ ३२ ॥
ततो बाह्वोर्ललाटे च हृदि चैव युधिष्ठिरः ।चतुर्भिस्तोमरैः कर्णं ताडयित्वा मुदानदत् ॥ ३३ ॥
उद्भिन्नरुधिरः कर्णः क्रुद्धः सर्प इव श्वसन् ।ध्वजं चिच्छेद भल्लेन त्रिभिर्विव्याध पाण्डवम् ।इषुधी चास्य चिच्छेद रथं च तिलशोऽच्छिनत् ॥ ३४ ॥
एवं पार्थो व्यपायात्स निहतप्रार्ष्टिसारथिः ।अशक्नुवन्प्रमुखतः स्थातुं कर्णस्य दुर्मनाः ॥ ३५ ॥
तमभिद्रुत्य राधेयः स्कन्धं संस्पृश्य पाणिना ।अब्रवीत्प्रहसन्राजन्कुत्सयन्निव पाण्डवम् ॥ ३६ ॥
कथं नाम कुले जातः क्षत्रधर्मे व्यवस्थितः ।प्रजह्यात्समरे शत्रून्प्राणान्रक्षन्महाहवे ॥ ३७ ॥
न भवान्क्षत्रधर्मेषु कुशलोऽसीति मे मतिः ।ब्राह्मे बले भवान्युक्तः स्वाध्याये यज्ञकर्मणि ॥ ३८ ॥
मा स्म युध्यस्व कौन्तेय मा च वीरान्समासदः ।मा चैनानप्रियं ब्रूहि मा च व्रज महारणम् ॥ ३९ ॥
एवमुक्त्वा ततः पार्थं विसृज्य च महाबलः ।न्यहनत्पाण्डवीं सेनां वज्रहस्त इवासुरीम् ।ततः प्रायाद्द्रुतं राजन्व्रीडन्निव जनेश्वरः ॥ ४० ॥
अथ प्रयान्तं राजानमन्वयुस्ते तदाच्युतम् ।चेदिपाण्डवपाञ्चालाः सात्यकिश्च महारथः ।द्रौपदेयास्तथा शूरा माद्रीपुत्रौ च पाण्डवौ ॥ ४१ ॥
ततो युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम् ।कुरुभिः सहितो वीरैः पृष्ठगैः पृष्ठमन्वयात् ॥ ४२ ॥
शङ्खभेरीनिनादैश्च कार्मुकाणां च निस्वनैः ।बभूव धार्तराष्ट्राणां सिंहनादरवस्तदा ॥ ४३ ॥
युधिष्ठिरस्तु कौरव्य रथमारुह्य सत्वरः ।श्रुतकीर्तेर्महाराज दृष्टवान्कर्णविक्रमम् ॥ ४४ ॥
काल्यमानं बलं दृष्ट्वा धर्मराजो युधिष्ठिरः ।तान्योधानब्रवीत्क्रुद्धो हतैनं वै सहस्रशः ॥ ४५ ॥
ततो राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः ।भीमसेनमुखाः सर्वे पुत्रांस्ते प्रत्युपाद्रवन् ॥ ४६ ॥
अभवत्तुमुलः शब्दो योधानां तत्र भारत ।हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस्ततः ॥ ४७ ॥
उत्तिष्ठत प्रहरत प्रैताभिपततेति च ।इति ब्रुवाणा अन्योन्यं जघ्नुर्योधा रणाजिरे ॥ ४८ ॥
अभ्रच्छायेव तत्रासीच्छरवृष्टिभिरम्बरे ।समावृत्तैर्नरवरैर्निघ्नद्भिरितरेतरम् ॥ ४९ ॥
विपताकाध्वजच्छत्रा व्यश्वसूतायुधा रणे ।व्यङ्गाङ्गावयवाः पेतुः क्षितौ क्षीणा हतेश्वराः ॥ ५० ॥
प्रवराणीव शैलानां शिखराणि द्विपोत्तमाः ।सारोहा निहताः पेतुर्वज्रभिन्ना इवाद्रयः ॥ ५१ ॥
छिन्नभिन्नविपर्यस्तैर्वर्मालंकारविग्रहैः ।सारोहास्तुरगाः पेतुर्हतवीराः सहस्रशः ॥ ५२ ॥
विप्रविद्धायुधाङ्गाश्च द्विरदाश्वरथैर्हताः ।प्रतिवीरैश्च संमर्दे पत्तिसंघाः सहस्रशः ॥ ५३ ॥
विशालायतताम्राक्षैः पद्मेन्दुसदृशाननैः ।शिरोभिर्युद्धशौण्डानां सर्वतः संस्तृता मही ॥ ५४ ॥
तथा तु वितते व्योम्नि निस्वनं शुश्रुवुर्जनाः ।विमानैरप्सरःसंघैर्गीतवादित्रनिस्वनैः ॥ ५५ ॥
हतान्कृत्तानभिमुखान्वीरान्वीरैः सहस्रशः ।आरोप्यारोप्य गच्छन्ति विमानेष्वप्सरोगणाः ॥ ५६ ॥
तद्दृष्ट्वा महदाश्चर्यं प्रत्यक्षं स्वर्गलिप्सया ।प्रहृष्टमनसः शूराः क्षिप्रं जग्मुः परस्परम् ॥ ५७ ॥
रथिनो रथिभिः सार्धं चित्रं युयुधुराहवे ।पत्तयः पत्तिभिर्नागा नागैः सह हयैर्हयाः ॥ ५८ ॥
एवं प्रवृत्ते संग्रामे गजवाजिजनक्षये ।सैन्ये च रजसा व्याप्ते स्वे स्वाञ्जघ्नुः परे परान् ॥ ५९ ॥
कचाकचि बभौ युद्धं दन्तादन्ति नखानखि ।मुष्टियुद्धं नियुद्धं च देहपाप्मविनाशनम् ॥ ६० ॥
तथा वर्तति संग्रामे गजवाजिजनक्षये ।नराश्वगजदेहेभ्यः प्रसृता लोहितापगा ।नराश्वगजदेहान्सा व्युवाह पतितान्बहून् ॥ ६१ ॥
नराश्वगजसंबाधे नराश्वगजसादिनाम् ।लोहितोदा महाघोरा नदी लोहितकर्दमा ।नराश्वगजदेहान्सा वहन्ती भीरुभीषणी ॥ ६२ ॥
तस्याः परमपारं च व्रजन्ति विजयैषिणः ।गाधेन च प्लवन्तश्च निमज्ज्योन्मज्ज्य चापरे ॥ ६३ ॥
ते तु लोहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः ।सस्नुस्तस्यां पपुश्चासृङ्मम्लुश्च भरतर्षभ ॥ ६४ ॥
रथानश्वान्नरान्नागानायुधाभरणानि च ।वसनान्यथ वर्माणि हन्यमानान्हतानपि ।भूमिं खं द्यां दिशश्चैव प्रायः पश्याम लोहितम् ॥ ६५ ॥
लोहितस्य तु गन्धेन स्पर्शेन च रसेन च ।रूपेण चातिरिक्तेन शब्देन च विसर्पता ।विषादः सुमहानासीत्प्रायः सैन्यस्य भारत ॥ ६६ ॥
तत्तु विप्रहतं सैन्यं भीमसेनमुखैस्तव ।भूयः समाद्रवन्वीराः सात्यकिप्रमुखा रथाः ॥ ६७ ॥
तेषामापततां वेगमविषह्य महात्मनाम् ।पुत्राणां ते महत्सैन्यमासीद्राजन्पराङ्मुखम् ॥ ६८ ॥
तत्प्रकीर्णरथाश्वेभं नरवाजिसमाकुलम् ।विध्वस्तचर्मकवचं प्रविद्धायुधकार्मुकम् ॥ ६९ ॥
व्यद्रवत्तावकं सैन्यं लोड्यमानं समन्ततः ।सिंहार्दितं महारण्ये यथा गजकुलं तथा ॥ ७० ॥
« »