Click on words to see what they mean.

संजय उवाच ।ततः पुनर्महाराज मद्रराजमरिंदमम् ।अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ॥ १ ॥
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि ।नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ॥ २ ॥
यदि मां देवताः सर्वा योधयेयुः सवासवाः ।तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ॥ ३ ॥
नाहं भीषयितुं शक्यो वाङ्मात्रेण कथंचन ।अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ॥ ४ ॥
नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् ।अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ॥ ५ ॥
न हि कर्णः समुद्भूतो भयार्थमिह मारिष ।विक्रमार्थमहं जातो यशोर्थं च तथैव च ॥ ६ ॥
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप ।संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ॥ ७ ॥
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् ।ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ॥ ८ ॥
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः ।बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ॥ ९ ॥
बहिष्कृता हिमवता गङ्गया च तिरस्कृताः ।सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ॥ १० ॥
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः ।तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ॥ ११ ॥
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् ।एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ॥ १२ ॥
कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया ।तत एषां समाचारः संवासाद्विदितो मम ॥ १३ ॥
शाकलं नाम नगरमापगा नाम निम्नगा ।जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ॥ १४ ॥
धानागौडासवे पीत्वा गोमांसं लशुनैः सह ।अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ॥ १५ ॥
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः ।नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ॥ १६ ॥
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः ।आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः ॥ १७ ॥
हा हते हा हतेत्येव स्वामिभर्तृहतेति च ।आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ॥ १८ ॥
तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले ।कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ॥ १९ ॥
सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी ।मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ॥ २० ॥
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् ।गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ॥ २१ ॥
मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः ।केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ॥ २२ ॥
मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः ।खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ॥ २३ ॥
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु ।अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ॥ २४ ॥
पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि ।खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः ॥ २५ ॥
एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु ।कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ॥ २६ ॥
ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः ।येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ॥ २७ ॥
इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् ।बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ॥ २८ ॥
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् ।नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ॥ २९ ॥
कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले ।गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ॥ ३० ॥
गौरीभिः सह नारीभिर्बृहतीभिः स्वलंकृताः ।पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ॥ ३१ ॥
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् ।ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ॥ ३२ ॥
इति गायन्ति ये मत्ताः शीधुना शाकलावतः ।सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ॥ ३३ ॥
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ॥ ३४ ॥
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि ।शतद्रुश्च विपाशा च तृतीयेरावती तथा ।चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ॥ ३५ ॥
आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् ।व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ॥ ३६ ॥
न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा ।तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ॥ ३७ ॥
ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि ।काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ।सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ॥ ३८ ॥
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च ।तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ॥ ३९ ॥
पुत्रसंकरिणो जाल्माः सर्वान्नक्षीरभोजनाः ।आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ॥ ४० ॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ॥ ४१ ॥
युगंधरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले ।तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ॥ ४२ ॥
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् ।आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ॥ ४३ ॥
बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ ।तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ॥ ४४ ॥
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् ।कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ॥ ४५ ॥
इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् ।एकरात्रा शमीगेहे महोलूखलमेखला ॥ ४६ ॥
आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः ।वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ॥ ४७ ॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ॥ ४८ ॥
ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः ।आचारं तत्र संप्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ॥ ४९ ॥
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् ।दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ॥ ५० ॥
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः ।सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ॥ ५१ ॥
अटता तु सदा देशान्नानाधर्मसमाकुलान् ।आगच्छता महाराज बाह्लीकेषु निशामितम् ॥ ५२ ॥
तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः ।वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ॥ ५३ ॥
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः ।द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ॥ ५४ ॥
भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः ।गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ॥ ५५ ॥
एतन्मया श्रुतं तत्र धर्मसंकरकारकम् ।कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ॥ ५६ ॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् ॥ ५७ ॥
सती पुरा हृता काचिदारट्टा किल दस्युभिः ।अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ॥ ५८ ॥
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ ।तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ।न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ॥ ५९ ॥
कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः ।कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ॥ ६० ॥
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् ।नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ॥ ६१ ॥
आ मत्स्येभ्यः कुरुपाञ्चालदेश्या आ नैमिषाच्चेदयो ये विशिष्टाः ।धर्मं पुराणमुपजीवन्ति सन्तो मद्रानृते पञ्चनदांश्च जिह्मान् ॥ ६२ ॥
एवं विद्वन्धर्मकथांश्च राजंस्तूष्णींभूतो जडवच्छल्य भूयाः ।त्वं तस्य गोप्ता च जनस्य राजा षड्भागहर्ता शुभदुष्कृतस्य ॥ ६३ ॥
अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता ।रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ॥ ६४ ॥
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते ।धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ॥ ६५ ॥
व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् ।इति पाञ्चनदं धर्ममवमेने पितामहः ।स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ॥ ६६ ॥
उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते ।कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ॥ ६७ ॥
क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् ।मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ॥ ६८ ॥
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् ।अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् ॥ ६९ ॥
मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् ।मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ॥ ७० ॥
राजयाजकयाज्यानां मद्रकाणां च यन्मलम् ।तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ॥ ७१ ॥
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च ।राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ॥ ७२ ॥
ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः सत्यं मत्स्याः शूरसेनाश्च यज्ञः ।प्राच्या दासा वृषला दाक्षिणात्याः स्तेना बाह्लीकाः संकरा वै सुराष्ट्राः ॥ ७३ ॥
कृतघ्नता परवित्तापहारः सुरापानं गुरुदारावमर्शः ।येषां धर्मस्तान्प्रति नास्त्यधर्म आरट्टकान्पाञ्चनदान्धिगस्तु ॥ ७४ ॥
आ पाञ्चालेभ्यः कुरवो नैमिषाश्च मत्स्याश्चैवाप्यथ जानन्ति धर्मम् ।कलिङ्गकाश्चाङ्गका मागधाश्च शिष्टान्धर्मानुपजीवन्ति वृद्धाः ॥ ७५ ॥
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः ।दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ॥ ७६ ॥
प्रतीचीं वरुणः पाति पालयन्नसुरान्बली ।उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह ॥ ७७ ॥
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः ।ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ॥ ७८ ॥
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः ।अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ।पार्वतीयाश्च विषमा यथैव गिरयस्तथा ॥ ७९ ॥
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः ।म्लेच्छाः स्वसंज्ञानियता नानुक्त इतरो जनः ॥ ८० ॥
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः ।स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ॥ ८१ ॥
एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः ।स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ॥ ८२ ॥
शल्य उवाच ।आतुराणां परित्यागः स्वदारसुतविक्रयः ।अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ॥ ८३ ॥
रथातिरथसंख्यायां यत्त्वा भीष्मस्तदाब्रवीत् ।तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ॥ ८४ ॥
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः ।वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ॥ ८५ ॥
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह ।अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ॥ ८६ ॥
परवाच्येषु निपुणः सर्वो भवति सर्वदा ।आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ॥ ८७ ॥
संजय उवाच ।कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् ।पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ॥ ८८ ॥
« »